कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 133, कुल 172 में से
संदर्भ में पढ़ें६ बालभारतम् वाल्मीकिः—तदेहि । प्राप्तां सायंतनीं संध्यामुपासहे । ततः श्रावयि(श्रो)ष्यामि । संप्रति हि,— अयमहिमरुचिर्भजन्प्रतीचीं कुपितवलीमुखतुण्डताम्रबिम्बः । जलनिधिमकरैरुदीक्ष्यते द्राग्व्रणरुधिरारुणमांसपिण्डलोभात् ॥ २१ ॥ अपि च,— निर्यद्वासरजीवपिण्डकरणं कुर्वन् कयोष्णैः करै- र्मोक्षिप्तं रविबिम्बमम्बरतलादस्तोचलं चुम्बति । किं च स्तोकतमःकलापकलनाइयाभायमानं मना- ग्धूमश्यामपुराणचित्ररचनारूपं जगज्जायते ॥ २२ ॥ (इति परिक्रम्य निष्क्रान्तौ ।) विष्कम्भकः । (ततः प्रविशति ब्राह्मणवेषो युधिष्ठिरो भीमसेनादयश्च) सहदेवः—इत इतः । (सर्वे परिक्रामन्ति ।) युधिष्ठिरः—वत्स सोदर वृकोदर ! परपुरंजय धनंजय ! मण्डितपा- ण्डवकुल नकुल ! द्विषद्दुःसह सहदेव ! इह हि महाराजसमाजे न जाने कमवलम्बिष्यते राधावेधकीर्तिवैजयन्ती । भीमः—(विहस्य ।) आद्या वेत्ति निजां न विक्रमकलां त्वं विश्वरक्षामणिः किंब्रूमोऽद्य किरीटिनो न घटते द्रोणेन यस्योपमा । माद्रीन्दनयोनरेन्द्र ! विनयच्छद्मं हि वीरव्रतं न भ्राता स तवास्ति यस्य पुरतो राधां परो विध्यति ॥ २३ ॥ अर्जुनः— दुर्नेमं यदि मुरारिकार्मुकं दुर्भिदं यदि शरव्यमुच्छ्रितम् । दुर्जया यदि च राजमण्डली तत्प्रभो द्रुपदजा न दुर्लभा ॥ २४ ॥ १. राधा धन्विनां लक्ष्यविशेषः