कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 138, कुल 172 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः ११ (विचिन्त्य ।) अहो महाप्रभावं भार्गवं धनुः । यदमुना मम चक्षुर्ज्ञान- मुन्मीलितम् । येनास्य प्रभावं [च] भावं च भूपतीनां प्रत्यक्षमिव पश्यामि । सखी—सखि ! दानकीर्तिसंतर्पितभुवनकर्णः कर्ण एषः । द्रौपदी—यो दुर्योधनप्रसादलब्धचम्पाधिपत्यः । बन्दी—(विहस्य स्वगतम् ।) अहो महात्मनामपि कैतवानुगृहीता वृत्तयः । यदेषः,— दुर्नामं दहनसंभवं धनुः संशये न च सतां प्रवृत्तयः । अङ्गराज इति चिन्तयन्निमां भाषते व्रज पुरः कुरुद्वहः ॥ ३९॥ (सर्वे परिक्रामितकेन ।) स एव—(प्रकाशम् ।) यौवराज्याभिषेकार्हो धीरो दुर्योधनानुजः । दुःशासनो महाचेष एष मञ्चं विमुञ्चति ॥ ४० ॥ सखी—यो दुःशलप्रभृतीनामेकोनशतस्य ज्येष्ठः, कनिष्ठो दुर्योधन- नरेन्द्रस्य । धृष्टद्युम्नः—(स्वगतम् ।) यथार्थनामा दुःशासन एवायम् । चापं प्रति त्रिचतुराणि पदानि दत्त्वा कृष्णादृढग्रहणनिमित्तविषण्णचेताः । दुःशासनो नृपतिचक्रविमुक्ततार- हुंकारलज्जितमनाः शनकैः प्रयाति ॥ ४१ ॥ द्रौपदी—अपि नाम चण्डचरित एषः । बन्दी—(निरूप्य ।) नमो नमो विष्ण्ुकोदण्डपणबन्धाय । (स्वगतम् ।) द्रौपदीं परिणयन्तमर्जुनं विद्धराधमवलोक्य मायया । दोर्बलं विफलमात्मनो विदन्ब्रीडयैष विनतो निवर्तते ॥ ४२ ॥ (परिक्रामितकेन ।)