कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 139, कुल 172 में से
संदर्भ में पढ़ें१२ बालभारतम् बन्दी— गान्धाराधिपतेः पुत्रः सुबलस्य बलीयसः । मातुलः कुरुराजस्य राजते नृपतिर्गुणैः ॥ ४३ ॥ द्रौपदी—यो द्यूतकैतवविचक्षणः श्रूयते । सखी—आम् । एतस्य किल हृदयचिन्तिता निवर्तन्ते भीमसेनस्य पुनः रक्षिता । (?) बन्दी— यात्रारुतोऽस्य चतुरङ्गचमूसमुत्थे पांसूत्करे वियति सर्पति वीतरन्ध्रे । दिग्भागनागपतिकेशवकच्छपाना- मूर्ध्न क्षणाद्गच्छति भूवलयस्य भारः ॥ ४४ ॥ ( सगतम् । ) धारितं द्रुपदजास्वयंवरे कार्मुकं शकुनिना करेण यत् । तस्य सर्वजनहासहेतवे कंधरां समधिरुह्य तत्स्थितम् ॥ ४५ ॥ ( पुनरवलोक्य विहस्य च । ) कथ विमुक्तराधावेधाभिमानस्य स्वयंवरयदुरु- चीर्ण स्कन्धाद्धनुः । ( सर्वे परिक्रामिनयेन । ) बन्दी— सिन्धुयन्त्रितयात्रोऽयं सिन्धुराजो जयद्रथः । सिन्धुपारोत्तमहयः सिन्धुरप्रतिमॊ बले ॥ ४६ ॥ अपि च,— शम्याद्वये दलितदाडिमबीजलोल्या- न्मुक्ताफलेषु करिणां रुधिराऽरुणेपु । व्योम्नः शुकाधिपततस्तरसा निरीक्ष्य नाथस्त्रियो बहु हसन्ति सहस्ततालम् ॥ ४७ ॥ द्रौपदी—यो दुर्योधनभगिनीपतिः ।