कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 143, कुल 172 में से
संदर्भ में पढ़ें१६ - बालभारतम् तस्यैतस्य स एष दूषणकणः कारुण्यपुण्यात्मनः पात्रापात्रविवेचनं न यदभूत्सर्वस्वदानेष्वपि ॥ ६२ ॥ द्रौपदी—यो यादवकुमारोऽपि भूत्वा अनास्वादितकादम्बरीरसः स एतस्य गुणो दोषो वा क्रियताम् । बन्दी— यागकुण्डशिखिगर्भसंभवं वन्द्यते न तु करेण लङ्घ्यते । इत्युदीर्य चतुरोक्ति सात्यकिः पूजया परिहरत्ययं धनुः ॥ ६३ ॥ ( परिक्रामितेकेन ।) शिशुपालमहीपालो मेकलानां कुलोद्भवः । अयं सजयनिर्घोषो दमघोषसुतः परः ॥ ६४ ॥ पाणिप्रस्थैर्वकुलसुमनःसौरभं यो मिमीते दंपत्योर्यः सुरतसमरे सौरयसंख्यां करोति । यश्च ज्योत्स्नां चुलकपटलैः काममाचामतीन्दोः शक्तः स्तोतुं यदि स निखिलाम्यस्य कीर्त्यद्भुतानि ॥ ६५ ॥ द्रौपदी—यो निर्जितसुरासुरः । बन्दी— दक्षिणं करमुपैति वामतो वाममञ्चति च दक्षिणादिति । दूरतोऽस्य नृपतेर्गुणार्पणं धारणेऽपि धनुषो विडम्बना ॥ ६६ ॥ ( परिक्रामितेकेन ।) सत्यसंधो जरासंधः क्रान्तदिग्वलयो बलैः । अत्रैष राजते राजा मागधो मगधस्तुतः ॥ ६७ ॥ अस्यासमं समरकर्म दिदृक्षमाणै- र्दोपद्वयं फणिभिरपि चमूरजस्तः । यत्कूर्णितेक्षणतया न पवन्धवृत्तं दृष्टं श्रुतो न च महाभटसिंहनादः ॥ ६८ ॥ द्रौपदी—यो जननीजनितदेहखण्डयुगलो जरया राक्षस्या संधित इति जरासंधो भूपतिः ।