कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 144, कुल 172 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः १७ बन्दी— अस्य वैष्णवमिदं महाधनुः स्वप्रभावविभवेन भूपतेः । अम्बरे भुवि दिशां च संचये दर्शयत्यतनुकार्मुकावलीः ॥६९॥ (परिक्रामितेने ।) बन्दी—कथमेते राजानो युगपदुत्थिताश्चापमारोपयितुं विडम्बि- ताश्च । तथा हि,— जातं कीकसभङ्गतः शकपतेर्दोर्दण्डयोः खण्डनं निष्धूता रमेश्र्वरस्य वदनात्कीलालकल्लोलिनी । जानुभ्यां जगतीं गतश्च तरसा पाण्ड्यः प्रचण्डोऽप्ययं कोदण्डेन न खण्डिताः क्षितिभुजो दामोदरीयेण के ॥७०॥ बन्दी—( सविषादम् । ) हा मन्त्रं शकुनेः कुलक्षयकरं दुर्योधनं हा नृपं हा भीष्मं च पितामहं गुरुमपि द्रोणं सपुत्रं च हा । दग्धा यज्जतुधाम्नि पाण्डुतनया जीवेत्स चेदर्जुनो राधायन्त्रमविद्धमत्र न भवेत्कन्या च न द्रौपदी ॥ ७१ ॥ धृष्टद्युम्नः— वैकुण्ठकार्मुकदढाक्रमणेककुण्ठे दोर्दण्डखण्डनविखण्डितराजचक्रे । द्राग्द्रौपदी नमितकण्ठविलोठिहार- विश्लिष्यष्टिगणनागुणनां करोति ॥ ७२ ॥ सखी—किं पुनरेष भरितभुवनः कोलाहलो विपुलः ? बन्दी—(अवलोक्य सहर्षम् ।) धृष्टद्युम्ने विषण्णे हसति मुरजिति द्रौपदीचित्तनिन्द्ये कोदण्डप्रौढिगाढगलितगुरुवले चाथ राज्ञां समाजे । प्रह्वत्कृष्णाजिनानां करक¹करजुषा घह्लकलव्याकुलानां विप्राणां कोऽपि मध्यादवतरति युवा कार्मुके दत्तदृष्टिः ॥ ७३ ॥ १. करकः कमण्डलुः.