कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 145, कुल 172 में से
संदर्भ में पढ़ें३८ बालभारतम् अपि च,— व्रीडानतेषु वदनेषु च भूपतीनां संचारयन्विकचपङ्कजचारु चक्षुः । अभ्येति मत्तगजखेलगतिः स एष साभ्यर्थनं मुनिजनेन निषिध्यमानः ॥ ७४ ॥ अर्जुनः—(कतिचित्पदानि दत्त्वा । चतुर्दिशमवलोक्य ।) एतत्कृष्णस्य शाङ्गं ननु धनुरतनुप्राणदोर्दण्डचण्डै- र्दूराद्रूपप्रकाण्डैः सपदि परिहृतं शिञ्जिनीसज्जनेषु । मध्ये राज्ञां प्रतिज्ञा मम पुनरियती मद्भुजायन्त्रयोगे प्रत्येकं पर्वमुद्रा त्रुटति तडिति वा जायते कर्मठं वा ॥ ७५ ॥ (सरभसं परिक्रम्य धनुरारोपणं नाटयन् ।) मद्बाहुयन्त्रयुगयन्त्रितमाततज्यं न स्याद्धनुः कथमदं हि रथाङ्गपाणेः । विक्षोभनिर्यदि न याति च भूमिपृष्ठ- मा शेषमा च कमठाधिपमभ्युपेयात् ॥ ७६ ॥ भीमः—वत्स नकुल ! भिदुरा भूमिरिति मा कदाचन कदर्धित- कोदण्डकोटिः स्यात्किरीटी । तत्तस्याधस्ताद्दक्षं दाढ्र्याय निधेहि । (इति तथा करोति ।) नकुलः— धत्से जर्जरतां न मेदिनि ! मुधा मा शेष ! शङ्कां कृथा- स्तुभ्यं कूर्मपते ! नमस्त्यज भयं दिक्कुञ्जराः ! स्वस्ति वः । यज्जिष्णुर्भुजयोर्बलेन नयति ज्यां हेलयैवाटनीं धत्ते पाणितलं तलेऽस्य धनुषो वामं द्वितीयापतिः ॥ ७७ ॥ (अर्जुन आरोपयति ।) सखी—भगवति मिथुनसंघटनैकदेवते ! कुण्ठितनिःशेषनरेन्द्रचक्र- मेकविप्रवीरसमुद्यमशेषं वर्तते स्वयंवरडम्बरम् । (अर्जुनो बाणमोक्षं नाटयति ।)