कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 146, कुल 172 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः १९ बन्दी— आकर्णाञ्चितचापमण्डलमुचा बाणेन यन्त्रोदर- च्छिद्रोत्सङ्गविनिर्गतेन तरसा विद्धा च राधामुना । ( द्रौपदीमवलोक्य । ) तुल्यं मोहनशोषणप्रभृतयः प्रक्षेपकुण्ठक्रमाः कामेन द्रुपदात्मजाहृदि हठान्न्यस्ताश्च पञ्चेषवः ॥ ७८ ॥ सखी—आश्चर्यमाश्चर्यम् । असलिलाकुवलयोत्पत्तिरकुसुमं कुसुम- कोदण्डकाण्डममग्नतन्नं मनोमोहनमिन्द्रजालमस्या दृष्टिविप्रवीरवदने निप्पतन्ती न विरमति । अर्जुनः—कथं राधावेधानन्तरमियमस्मासु स्निह्यति ? यतः,— जैत्रं तन्त्रं कुसुमधनुषः प्रेमसख्यैऋदूताः सत्यंकाराः प्रणयघटितेस्तुष्टये पुष्टियोगाः । विन्यस्यन्तः श्रवसि सुतनोर्मेचकाम्भोजभूषा- मुत्कण्ठन्ते मयि निपतितुं नर्तिताक्षाः कटाक्षाः ॥ ७९ ॥ बन्दी—हा हा धिकष्टम् । ध्रुवमिदमुपदिष्टं कैश्चिदाचार्यपादै- र्यदुत जनकलोकस्यैकहेतुः कुमारी । अफलितकुलशीलोऽप्येष यत्कोऽपि धन्यी द्रुपददुहितुरस्या वाञ्छति स्वामिभावम् ॥ ८० ॥ अर्जुनः—हंहो वन्दिबृन्दारक, किमत्र कुलान्वेषणेन । किं वा मे शीलपर्यालोचनया । धनुरारोपणपणपरिणेया द्रौपदी । ( नेपथ्ये । ) हंहो ब्राह्मण, त्वामेव समुदिता नृपतयो भाषन्ते— सायकश्च त्वया मुक्तो यन्त्रं वा तेन घातितम् । तन्मा वृथा निकत्थस्व न राधां विद्धवानसि ॥ ८१ ॥ (पुनः साक्षेपम् । )