कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 147, कुल 172 में से
संदर्भ में पढ़ें२०. बालभारतम् रे रे ब्राह्मण ! मुञ्च विप्लवममुं श्रुत्यर्थवीथीं स्मर क्षत्रस्यात्र ननु स्वयंवरविधावेकाधिकारः स्थितः । तच्चेन्नाद्रियसे स्मरार्द्रहृदयो दण्ड्यस्त्वमुर्वीभुजां तत्संकर्षणकार्मुके समुदिता नैते क्षमन्ते नृपाः ॥ ८२ ॥ अर्जुनः—(तान्प्रति ।) कस्य द्रोणो धनुषि न गुरुः स्वस्ति देवेव्रताय त्यक्ताभ्यासः कुरुपतिरयं धीसमुत्थैर्विलासैः । भोः कर्णाद्याः ! शृणुत तदिमां ब्राह्मणस्यास्य वाणीं राधायन्त्रं रचयत पुनर्विद्धमप्यस्त्यविद्धम् ॥ ८३ ॥ सखी—सखि ! इतस्तरलिताहारहारिवक्षः उन्मुक्तचक्रमुचण्डस्थित- चित्रदण्डमाकर्णकृष्टकोदण्डमण्डलमधिष्ठितभिन्दिपालमाहितसंघट्टपट्टिश- मसंख्यशङ्कुकंसंभूषणमलंकृतकनककवचं समन्ततः समुत्तरति वृन्दं नरे- न्द्राणाम् । बन्दी— संघट्टोत्पिष्टचूडाच्युतमणिगणिकाकर्बुरैर्बाहुदण्डै- स्तूणोत्कीर्णैस्त्रदण्डाः क्षितिपतय इमे सर्वतः संरभन्ते । अग्रे कृत्वा विलोलां द्रुपददुहितरं विद्धराधाशरव्यं बाणं कोदण्डदण्डे विदधदयमितो वर्तते विप्रवीरः ॥ ८४ ॥ (नेपथ्ये ।) देवस्य द्युमणेः कुले नृपतयो ये चात्र चूडामणेः श्रीकण्ठस्य निवेदयामि तदिदं तेषां द्वयेषामपि । विप्रश्चीवरवान्सहायरहितः कोऽप्येष यः पश्यतां राधावेधकरो हठेन हरते कीर्त्या समं द्रौपदीम् ॥ ८५ ॥ भीमः—वत्स धनंजय ! त्वं कराकलितद्रौपदीक एव मामनुवर्तस्व अहं राजचक्रस्य पुरतो भवामि । (तथा करोति ।) १. भीष्माय.