भारतकोश
संग्रह पर लौटें

कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

Karpuramanjari Sattaka of Rajasekhara with Commentary

महाकवि राजशेखर द्वारा

DevanagariHindipublished172 पृष्ठ

२०. बालभारतम् रे रे ब्राह्मण ! मुञ्च विप्लवममुं श्रुत्यर्थवीथीं स्मर क्षत्रस्यात्र ननु स्वयंवरविधावेकाधिकारः स्थितः । तच्चेन्नाद्रियसे स्मरार्द्रहृदयो दण्ड्यस्त्वमुर्वीभुजां तत्संकर्षणकार्मुके समुदिता नैते क्षमन्ते नृपाः ॥ ८२ ॥ अर्जुनः—(तान्प्रति ।) कस्य द्रोणो धनुषि न गुरुः स्वस्ति देवेव्रताय त्यक्ताभ्यासः कुरुपतिरयं धीसमुत्थैर्विलासैः । भोः कर्णाद्याः ! शृणुत तदिमां ब्राह्मणस्यास्य वाणीं राधायन्त्रं रचयत पुनर्विद्धमप्यस्त्यविद्धम् ॥ ८३ ॥ सखी—सखि ! इतस्तरलिताहारहारिवक्षः उन्मुक्तचक्रमुचण्डस्थित- चित्रदण्डमाकर्णकृष्टकोदण्डमण्डलमधिष्ठितभिन्दिपालमाहितसंघट्टपट्टिश- मसंख्यशङ्कुकंसंभूषणमलंकृतकनककवचं समन्ततः समुत्तरति वृन्दं नरे- न्द्राणाम् । बन्दी— संघट्टोत्पिष्टचूडाच्युतमणिगणिकाकर्बुरैर्बाहुदण्डै- स्तूणोत्कीर्णैस्त्रदण्डाः क्षितिपतय इमे सर्वतः संरभन्ते । अग्रे कृत्वा विलोलां द्रुपददुहितरं विद्धराधाशरव्यं बाणं कोदण्डदण्डे विदधदयमितो वर्तते विप्रवीरः ॥ ८४ ॥ (नेपथ्ये ।) देवस्य द्युमणेः कुले नृपतयो ये चात्र चूडामणेः श्रीकण्ठस्य निवेदयामि तदिदं तेषां द्वयेषामपि । विप्रश्चीवरवान्सहायरहितः कोऽप्येष यः पश्यतां राधावेधकरो हठेन हरते कीर्त्या समं द्रौपदीम् ॥ ८५ ॥ भीमः—वत्स धनंजय ! त्वं कराकलितद्रौपदीक एव मामनुवर्तस्व अहं राजचक्रस्य पुरतो भवामि । (तथा करोति ।) १. भीष्माय.

प्रथमोऽङ्कः २१ नकुलः—आर्य ! इमं तालतरमायुधीकुरु । ( भीमस्तथा करोति । ) बन्दी— उत्पाटितमहातालः कृतचण्डगदाधरः । विप्रवीरो द्वितीयोऽपि पार्थिवानां पुरः स्थितः ॥ ८६ ॥ अर्जुनः—( राजन्यमवलोक्य । ) वयमहमिह विप्राः श्रौतराधारहस्य- स्त्रिभुवनजयमुद्रा द्रौपदी चेयमत्र । कलयथ यदि दोष्णाञ्चापदण्डप्रचण्डां- स्त्यजत रथगजस्यासान्पुरस्योपकण्ठम् ॥ ८७ ॥ बन्दी— ( विचिन्त्य । ) वीर्यं वचसि विप्राणां क्षत्रियाणां भुजद्वये । इदमत्यन्तमाश्चर्यं भुजवीर्या हि यद्विजाः ॥ ८८ ॥ ( अर्जुनस्तदेव पठति । ) ( नेपथ्ये । ) साधु ब्राह्मण ! साधु क्षात्रमार्गमनुवर्तसे । भीमः—यद्येवम्,— प्रसर्पन्तु रणाङ्गणे रुधिरकेलिकल्लोलिनी भवन्तु फलिता इव द्विरदमुण्डषण्डैर्दिशः । नृमांसफकलान्तरेष्वपि च साभिलाषैर्मुखैः कृतान्तजयमङ्गलं विदधतु ध्वनिं फेरवाः ॥ ८९ ॥ ( इति निष्क्रान्ताः सर्वे । ) इति महाकविश्रीराजशेखरकृते प्रचण्डपाण्डवापरनाम्नि बालभारते नाटके राधावेधो नाम प्रथमोऽङ्कः ॥

२२ बालभारतम् द्वितीयोऽङ्कः ( ततः प्रविशति विदुरः सशारोपकरणः पुरुषश्च । ) विदुरः— आ देवाद्दिव्यपङ्केरुहसदनजुषोऽस्मिन्महाराजवंशे विष्वक्सेनावताराद्विजयिनि जगतामत्र चित्रप्रसूतेः । हे विश्वे लोकपालास्त्वमपि वसुमति ब्रूहि वाचं पवित्रा- मिन्दोरन्यस्य दृष्टो यदि किल कलयाप्यास्तृताङ्कः कलङ्कः ॥ १ ॥ तत्रैव गोत्रे संप्रति तु— वाच्यं यत्र दुरुक्तयः कुचरितं नानाविधा वर्णिका लोभः सान्द्रतमो रसः किमपरं भावश्च मोहो महान् । शैलूषैः कितवैरनेककपटश्रेणीमहानाटके द्यूतं यत्किल तत्र कौरवपतिः प्रस्तावनायां स्थितः ॥ २ ॥ पुरुषः—आर्य धर्मावतार विदुर ! किं पुनरेवं भण्यते ? यतो द्यूत- महचरा एवं मन्त्रयन्ति— रेणन्मणिनूपुरा रणरणङ्कारुच्छटाः क्वणन्मणिकिङ्किणीमुखरमेखलामालिकाः । भवन्ति भवनाङ्गणेऽनघघनस्तन्यस्तेषां परं प्रसद्यदिनस्वामिन इह जयन्ति द्यूतेन ये ॥ ३ ॥ विदुरः—तिमिङ्गिलगिलन्यायोऽयं शृङ्खयति नात्र जीयते । ( विचिन्त्य । ) श्रीनिर्वासनडिण्डिमो घनरव सद्यः स्थितं छद्मनां सत्योत्सारणघोषणा तत इतो लज्जा निरापाञ्जलिः । द्वारं दुर्यशसां पराभवपदं गोष्ठी गरिष्ठापदां द्यूतं दुर्नयवारिधिर्निपततां कस्तत्र हस्तग्रहः ॥ ४ ॥ पुरुषः—आर्य धर्मावतार विदुर ! किं पुनरिदं सखेदं मन्त्र्यते ? विदुरः—चण्डाटक ! शृणु यन्मन्त्र्यते । ( पुनस्तदेव पठति । ) १. प्राकृतच्छायारूपोऽयं श्लोकः अत एव च्छन्दोभङ्गः.

द्वितीयोऽङ्कः २६ चण्डातकः—अभिन्नो भ्रातृषु, स्वच्छचित्तो मित्रेषु, स्निग्धो वन्धुषु, निसर्गरक्तः कलत्रेषु, विनयभङ्गुरो गुरुषु, प्रसादनिष्ठो भृत्येषु महाराज- युधिष्ठिरः । तत्किमिति तत्रैव कौरवेन्द्रस्य विशेषपरिस्पन्दः ? विदुरः—किमुच्यते— युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः । माद्रीसुतौ पुष्पफले समृद्धे मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च ॥ ५ ॥ ( विचिन्त्य ।) कौरवपतिस्तस्य प्रत्युदाहरणम् । दुर्योधनो मन्युमयो महाद्रुमः स्कन्धः कर्णः शकुनिस्तस्य शाखाः । दुःशासनः पुष्पफले समृद्धे मूलं राजा धृतराष्ट्रो मनीषी ॥ ६ ॥ यदयमाहूय वारणावतात्प्रेमप्रणयाभ्यां नाम शकुनिकर्णकुरुपतिप्रेरितेन धृतराष्ट्रेण युधिष्ठिरोऽभिहितः—'यदुत वत्स युधिष्ठिर ! दुर्योधनकारिते सदसि भ्रातृद्यूतं प्रवर्तयितव्यम्' इति । चण्डातकः—ततस्तेन किं प्रतिपन्नम् ? विदुरः—यत्पाशसयतो धन्य करी प्रतिपद्यते । तथा चाभिहितं तेन,— राजसूयक्रतोर्यज्वा पाण्डुपुत्रो युधिष्ठिरः । आहूतो न निवर्तेय द्यूताय च रणाय च ॥ ७ ॥ पुरुषः—अत एवाहं शकुनिना प्रगुणीकृत्याक्षप्रसारं शारफलकं समर्प्य च संप्रेषितोऽस्मि सभामध्यम् । तदार्य ! कथयस्व किं कारणं दुर्योधनस्य दुर्जयत्वे । विदुरः—श्रुतो मया कुड्यान्तरितेन शकुनिना सह मन्त्रयमाणो दुर्योधनः—


१. अय श्लोकोऽप्रमश्लोभौ महाभारतस्थो. क० ग० १ ०

२४ बालभारतम् तत्रोत्सर्पिणि राजसूयसमये राज्ञः पृथाजन्मनो द्वीपैशैर्विनयान्वितैरुपचितं चित्रैर्महाप्राभृतैः । प्रत्यक्षीकृतवान्यदस्मि विभवं कोपाधिकारे स्थित- स्तेनाद्यापि निरौषधो मनसि मे दाहज्वरो वर्तते ॥ ८ ॥ अपि च, गान्धाराधिपते मातुल ! मायामये मयसभाधितले महाम्बु त्यक्त्वा ततो व्रजति मय्यनभिज्ञभावात् । यत्कृष्णया विहसितं सह फाल्गुनेन तन्मे मनः कुसुमलावमिदं लुनाति ॥ ९ ॥ ( नेपथ्ये । ) देवश्चन्द्रकुलप्रतापतिलकः षाड्गुण्यवाचस्पति- र्धीरो निर्मलकीर्तिनिर्जरगिरिर्भूर्खण्डविद्याधरः । कृत्स्नद्वीपजयैकलम्बितमहाश्वेतातपत्रोन्नतिः पाण्डोः पाण्डुयशस्करो विजयते पृथ्वीं पृथानन्दनः ॥ १० चण्डातकः—युधिष्ठिरबन्दी पठति किंनरकण्ठ एषः । ( पुनर्नेपथ्ये । ) नाले शौर्यमहोत्पलस्य विपुले सेतौ समिद्वारिधेः शश्वत्खङ्गभुजंगचन्दनतरौ क्रीडोपधाने श्रियः । आलाने जयकुञ्जरस्य सुदृशां कंदर्पदर्पे चिरं श्रीदुर्योधनदोष्णि विक्रमधने लीनं जगन्नन्दति ॥ ११ ॥ चण्डातकः—एष दुर्योधनमागधः कलकण्ठो नाम । विदुरः—संप्राप्तावेतौ युधिष्ठिरदुर्योधनौ सभाम् । एते च भीष्मद्रो- णकृपहार्दिक्यकर्णसोमदत्ताश्वत्थामादयो भीमसेनः कौरवेश्वरभ्रातृशतं च प्रविशति, तदावामपि प्रविशावः । ( इति निष्क्रान्तौ ।) विष्कम्भकः ।


१. उदाहृतोऽयं श्लोकः क्षेमेन्द्रेणौचित्यविचारचर्चायाम्.

द्वितीयोऽङ्कः २५ ( ततः प्रविशति युधिष्ठिरो भीमसेनश्च, दुर्योधनः शकुनिश्च, तयोश्च ताम्बूलकर- ङ्कवाहिन्यौ सुनन्दा सुरेखे च । ) युधिष्ठिरः— विवर्त्तयाक्षाञ्छकुने शारिक्रीडां प्रवर्त्तय । धृतराष्ट्रस्य पाण्डोश्च ममाज्ञामौलिमञ्चति ॥ १२ ॥ किं च,— राजसूयक्रतोर्यज्वा पाण्डवेयोऽयं युधिष्ठिरः । आहूतो न निवर्त्तेय द्यूताय च रणाय च ॥ १३ ॥ शकुनिः—( दक्षिणं बाहुमुद्यम्य । ) हंहो हस्त कृताक्ष ! दानसलिलप्रक्षालित स्वस्ति ते लोकेऽप्यक्षविचक्षणश्च शकुनिः स्वाङ्गेऽपि भक्तस्त्वयि । वीरे माननिधौ पराक्रमधने तद्भागिनेये मम श्रीः पार्थप्रथमादपास्य भवता कार्या हि दुर्योधने ॥ १४ ॥ दुर्योधनः—सदार्य ! पणः क्रियताम् । युधिष्ठिरः— हारोऽयं केरलस्त्रीविहसितशुचिभिः पङ्क्तिभिर्मौक्तिकानां शुक्रेणैकार्क्षतीनां कृतसकलसभागर्भचन्द्रोदयश्रीः । आद्ये द्यूते पणो मे रजनिचरपतेर्जितो राजसूये यश्चैतन्मध्यरत्नं द्युतयति ककुभः कौसुमीभिः प्रभाभिः ॥ १५॥ भीमः—भवतस्तु कः पणः ? दुर्योधनः— राजावलीक्रमायातो राजकोषः पणो मम । शकुन्तलाद्याभरणैर्यः पुनाति च पाति च ॥ १६ ॥ ( उभौ क्रीडतः । ) शकुनिः—जितं जितं महाराजदुर्योधनेन । हंहो युधिष्ठिर ! हारि- तो हारः । १ आकारास्पृहविधेयेन; स च सर्वैर्नराधिपः कामिनामनुकूलश्च.

२६ बालभारतम्

(दुर्योधनः सुरेखायाः कण्ठे परिधत्ते ।) सुनन्दा—(हसन्ती ।) हंहो महाराज दुर्योधन ! युधिष्ठिरकण्ठनिवे- शिनमीदृशं हारं समर्थास्तादृशजनयोग्यं यत्करोषि तन्न रोहिणीवल्लभ- कुलोचितमनुतिष्ठसि । भीमः—साधु सुनन्दे ! साधु । उचितमभिहितम् । सुरेखा—अयि उड्डामरशीले ! द्यूतजितेऽपि यन्त्रणा । शकुनिः—(स्वगतम् ।) प्रतिभावती सुरेखा । (युधिष्ठिरं प्रति प्रका- शम् ।) अपरः पणः क्रियताम् । युधिष्ठिरः—संपादिता तातधृतराष्ट्रस्याज्ञा तदास्ताम् । शकुनिः—(विहस्य ।) दुर्योधने क्रीडति कथं धर्मराजो विरमति ? नन्वधुनैव प्रतिज्ञातम्—‘आहूतो न निवर्तेय द्यूताय च रणाय च’ । युधिष्ठिरः—(सुनन्दामलोक्य सस्मरणम् ।) यद्येवम्,— कुर्वन्त्यो नयनैरपाङ्गतलैर्दीर्घायुषं मन्मथं तन्वन्त्यो हृदि रागिणां रतिमहावल्लीविलासाङ्कुरम् । न्यस्यन्त्यो मदिरामदस्य च हठात्काञ्चिन्मनोहारिता- मङ्गैर्मुग्धमधूकपाण्डुभिरिमा वाराङ्गना मे पणः ॥ १७ ॥ भीमः—भवतस्तु कः पणः ! दुर्योधनः— सुधावीचीमुचां वाग्भिर्विभ्रमावलिकुण्डलः । ममापि वारनारीणां स्मरस्मेरो गणः पणः १८ ॥ (उभौ क्रीडतः ।) शकुनिः—जितं जितं महाराजदुर्योधनेन । दुर्योधनः—सुरेखे ! त्वमेतासां सुनन्दाप्रभृतीनामधिष्ठात्री भव । सुरेखा—यत्कुरुपतिराज्ञापयति । (प्रणमति ।)

द्वितीयाेऽङ्कः २७ सुनन्दा—धर्मनन्दनो यदि पुनर्जयन्नस्ति सुरेखाप्रभृतीनां तदहम- प्यधिष्ठात्री आसिष्ये। शकुनिः—अपरः पणः क्रियताम्। युधिष्ठिरः— निरर्गलविनिर्गलद्बहुलगुलाकरालैर्गलै- रमी तदिति ताडितोड्डमरडिण्डिमोद्दामराः। मदाचमनचञ्चुरप्रचुरचञ्चरीकोद्धयाः पणः परिणतिक्षुणक्षततटान्तरा दन्तिनः ॥ १९ ॥ भीमः—भवतस्तु कः पणः ? (दुर्योधनस्तदेव पठति। उभौ क्रीडतः।) शकुनिः—जिता दन्तिनः। दुर्योधनः—(नेपथ्यं प्रति) दुःशासन! द्यूतदन्तिनां प्रणेता त्वं भव। (नेपथ्ये।) यदादिशत्यार्यदुर्योधनः। शकुनिः—अपरः पणः क्रियताम्। युधिष्ठिरः— झणज्झणितकिङ्किणीमुखरकंधरासंधिभि- र्युतास्तरुणतित्तिरिच्छदमनोहरैर्वाजिभिः। द्रुताङ्कघनपट्टिशत्रिशिखलङ्घिनः स्तम्भिनो रथाः प्रचलकाञ्चनध्वजमहापताकाः पणः ॥ २० ॥ (उभौ क्रीडतः।) शकुनिः—हारिता रथाः। दुर्योधनः—(नेपथ्यं प्रति।) सखे अङ्गराज! त्वं रथानां नेता भव।

२८ बालभारतम् (नेपथ्ये।) यदादिशति कौरवेश्वरः। शकुनिः—अपरः पणः क्रियताम्। युधिष्ठिरः— महीधरधरासु ये सनिनदं पतद्भिः खुरै- र्लिखन्ति च पठन्ति च स्फुटतरं टकारानिव। विरोचनहयावलीकुलभुवां स तेषामयं पणः पवनरंहसां मम तुरंगमाणां गणः ॥ २१ (उभौ क्रीडतः।) शकुनिः—जितं जितं महाराजदुर्योधनेन। दुर्योधनः—मातुल! त्वमेषां तुरंगमाणां भर्ता भव। शकुनिः—यदाह महाराजः। (राजानमुद्दिश्य।) किं वाजिभिः किमु गजैः किमथो रथैर्या सापत्त्नकं न धृतये धरणी पणोऽस्तु। एकातपत्रमिदमद्य चिराय राज्यं धर्मात्मजो भजतु वा धृतराष्ट्रजो वा ॥ २२ ॥ युधिष्ठिरः—यद्येवम्,— ऐलः प्राक्स पुरूरवाः प्रभुरभूद्यस्योर्वशी वल्लभा दुष्पन्तः स च योऽप्यसूत भरतं शाकुन्तलं शान्तये। श्रीमाञ्शांतनुरग्रिमः स च सतां गङ्गाकलत्रेण य- स्तत्सिंहासनमम्बुराशिरशनां शासन्महीं मे पणः ॥ २३ ॥ भीमः—भवतस्तु कः पणः ? (दुर्योधनस्तदेव पठति।) (नेपथ्ये।) राजन्युधिष्ठिर! नराधिप कौरवेन्द्र! वंशे युवां भगवतो भवशेखरस्य।

द्वितीयोऽङ्कः २९ द्यूतं न युष्मदुचितं ननु चिन्त्यतां च कैः क्षत्रियैर्वसुमती पणिता पुराणे ? ॥ २४ ॥ युधिष्ठिरः—भो सभासद ! कथं किल राजसूययज्ञा प्रतिज्ञात- मर्थं कदर्थयसि ? दुर्योधनः—हहो सभ्याः ! अक्षधर्मा अपि न निषिध्यन्ते । ( उभौ क्रीडत । ) शकुनिः—जित जित महाराजदुर्योधनेन । दुर्योधनः—स्वयमहमुस्य राज्यार्धस्याधिष्ठाता । शकुनिः—अपर पण क्रियताम् । युधिष्ठिरः—कि नामावशिष्ट यत्पणीक्रियते ? शकुनिः—कि नामापहारित शरीरे तिष्ठति ? शरीरधना हि राजानः । युधिष्ठिरः—यद्येवम्,— निर्यान्ति यस्य वदनाद्वितथा न वाचो यो राजसूयविधिनिर्धूतपापपङ्कः । सोढा न चानुजमहाविरहस्य योऽसि न्सोऽयं स्वयं तव पणः प्रथमः पृथासूः ॥ २५ ॥ भीमः—( स्वगतम् । ) कथमात्मापि पणीकृतः ? अहो सत्यसंधता आर्ययुधिष्ठिरस्य । ( प्रकाशम् । ) भवतस्तु कः पणः ? दुर्योधनः— हेलानमन्नृपकिरीटविटङ्ककोटि- ग्रैवेयिरत्नचितफणाशनपादपीठः । वैतालिचै स्तुतसमस्तजयोत्सवश्री- सोऽयं स्वयं प्रतिपणस्तव कौरवेन्द्रः ॥ २६ ॥ ( उभौ क्रीडत । ) शकुनिः—जित जित महाराजदुर्योधनेन ।

३० बालभारतम् युधिष्ठिरः—जितोऽस्मि । तन्नियोजय कृत्यै । शकुनिः—पुनरपरः पणः क्रियताम् । युधिष्ठिरः—कः पुनरपरः पणः ? शकुनिः—भ्रातरः । युधिष्ठिरः— यो मन्थानकरः क्रतौ निजकुलप्राकारबन्धश्च यो दोर्भ्यां यः प्रसभं व्यधत्त च जरासंधस्य संधिच्छिदाम् । सोऽयं स्रस्तहिडिम्बडिम्बविजयी वीरखिलोकाद्भुतं भीमो भीमपराक्रमः पृथुगदाव्यग्राग्रपाणिः पणः ॥ २७ ॥ भीमः—भवतस्तु कः पणः ? दुर्योधनः— संकर्षणाभिजतनुज्ज्वलकीर्तिराशेः सार्धं मयाधिगतदिव्यमहारहस्यः । त्वत्सोदरस्य मम सोदर एष वीरो दुःशासनः प्रतिपणोऽस्य वृकोदरस्य ॥ २८ ॥ (उभौ क्रीडतः ।) शकुनिः—जितं जितं कौरवराजेन । अपरः पणः क्रियताम् । युधिष्ठिरः— कर्णप्रावरणैः सहैकचरणानश्वाननैः किंनरान्- रूपैस्तुल्यशिखांन्वलीमुरमुखैर्यक्षांश्च रक्षांसि च । निर्जित्या कनकाद्रितो जनपदान्यो राजसूयक्रतौ सम्राजं कृतवान्युधिष्ठिरमलं सोऽयं किरीटी पणः २९ ॥ भीमः—भवतस्तु कः पणः ? यो भार्गवाद्भगवतोऽर्जितचापवेदो द्रोणेन तुल्यगरिमा मम धर्ममित्रम् । स प्रीणितार्थिजनवाञ्छितरिक्तकर्णः कर्णः स्वयं प्रतिपणोऽस्य धनंजयस्य ॥ ३० ॥

द्वितीयोऽङ्कः ३१ ( उभौ क्रीडत । ) शकुनिः—जित जित कौरवराजेन । तदपर पण क्रियताम् । युधिष्ठिरः— सौहार्दान्प्रणयादथ प्रथमतः स्नेहातिरेकाच्च या यो देवेन रथाङ्गिनापि समरे हित्वा कर लम्भित । पाश्चात्यक्षितिपान्निर्मथ्यदत्प्रस्तारहारान्कर- न्सॊऽयं मे नकुलः पुरोहितलक्ष्मौ युद्धप्रवीण पण ॥ ३१ ॥ भीमः—भवतस्तु क पण ? दुर्योधनः— नकुलस्यापि ते भ्रातुर्भ्राता प्रतिपणो मम । विभ्रदार्तिमहानावि विकर्ण कर्णधारताम् ॥ ३२ ॥ ( उभौ क्रीडत । ) शकुनिः—जित जित महाराजदुर्योधनेन । तदपर पण क्रियताम् । युधिष्ठिरः— हेलालोडितपाण्ड्यकेरलवलो य सिंहलौङ्घ्यन् प्राक्सङ्क्षुभ्य विभीषणेन तरसा दूरात्कर लम्भित । नित्य रावणनिर्जितामरहृतैर्य सम्भृतो भूषणै सौम्यर्थी सहदेव एष स पण क्षत्रैकचूडामणि ॥ ३३ ॥ भीमः—भवतस्तु क पण ? दुर्योधनः—अनिर्जतो भ्राता विकर्ण एष मम पण । ( उभौ क्रीडत । ) शकुनिः—जित जित महाराजाधिराजेन । तदपर पण क्रियताम् । युधिष्ठिरः—किं नामा[प]हारितम् । क पुनरपर पण क्रियताम् ? शकुनिः—धर्मदारा द्रौपदी । युधिष्ठिरः—

३२ बालभारतम् संभूता द्रुपदाध्वरे हुतभुजः पाण्डोर्नृपस्य स्नुषा राधावेधमहापणेन विजिता राज्ञां पुरः पद्यताम् । भूभृन्मौलिमणीन्द्रदीधितिजलैर्या स्नातपादाम्बुजा सा देवी विनयाभिमानवसतिः कृष्णा वितृष्णा पणः ॥ ३४ ॥ भीमः—भवतस्तु कः पणः ? दुर्योधनः— ज्येष्ठत्वात्पाण्डुपूज्यस्य धृतराष्ट्रस्य या स्नुषा । सा देवी देवरवती मम भानुमती पणः ॥ ३५ ॥ सुनन्दा—( स्वगतम् ।) एष स ज्येष्ठाभिः कनिष्ठानां विनिमयः ! ( उभौ क्रीडतः । ) शकुनिः—जितं जितं महाराजदुर्योधनेन । दुर्योधनः—दुःशासन ! आनीयतां द्यूतदासी द्रौपदी । ( नेपथ्ये । ) यदादिशति पाण्डवकौरवेश्वरः । दुर्योधनः—अपरः पणः क्रियताम् । युधिष्ठिरः—न मे पणान्तरमस्तीति प्रतिभाति । दुर्योधनः— वर्षाणि द्वादशारण्ये सह तिष्ठन्तु निष्ठया । अज्ञातचर्यया वर्षमावयोर्युधि जीयते ॥ ३६ ॥ ( युधिष्ठिरस्तदेवानुवदति । उभौ क्रीडतः । ) शकुनिः—जितं जितं महाराजदुर्योधनेन । ( नेपथ्ये । ) पञ्चानां या कलत्रं द्रुपदमखविधावद्भुतं जन्म यस्याः पूता या राजसूयावभृथपरिगमे मन्त्रपूतैः पयोभिः । तामेनां द्यूतदासीं कुरुपतिनियमं मूर्ध्नि कृत्व्या मयान्तः केशेष्वाकृष्यमाणां शृणुत नृपतयो यस्य शक्तिः स पातु ॥ ३७ ॥

द्वितीयोऽङ्कः ३३ दुर्योधनः—कथमय संपादिदमदाज सद्द्रौपदीको वत्सो दुःशासनः प्राप्तः । ( ततः प्रविशति यथानिर्दिष्टा द्रौपदी दुःशासनश्च । दुःशासनस्तदेव पठति । ) सुनन्दा—( सहसोपसृत्य हस्तामोक्षं नाटयन्ती । ) दुःशासन ! मुञ्च मुञ्च पाञ्चालीकेशपाशम् । दुःशासनः—( तामपनुद्य नम्रताङ्गत्वेनावलोक्य विहस्य च । ) यन्मुक्तं स्फारतारध्वनिभरितसभाकुक्षिगर्भं सरोषं हुंकारं कातराणां तरलितहृदयं फाल्गुनस्याग्रजेन । पुंवद्भिर्द्वाःस्थहीनहननिबिडिताङ्गूठकूटान्रूपैस्त न्यस्ताः खङ्गेषु रक्तस्तरुपु सरभसं संप्रहाराय हस्ताः ॥ ३८ ॥ सुनन्दा—( पुन पाणिग्राहं नाटयित्वा । ) अंस्याचुम्बितपल्लवानां गहना स्नेहेन धृष्टद्युम्नो येषां पुष्पलवेणिबन्धनकरः स आस्ते रात्रिन्दिनम् । चण्डः पाण्डवगेहिन्याश्चिकुरे रे कर्षता त्वया यि दुःशासन ! दुःसहा प्रज्वलिता हालाहलाग्राङ्कुरा ॥३९॥ द्रौपदी—वत्स दुःशासन ! मुञ्च मुञ्च केशपाशम् । कथममेकवस्त्रा भूत्वा गुरुनरेन्द्रपुरतः संचरिष्ये ? दुःशासनः—( विहस्य । ) नन्वपनयाक्येकवस्त्रा कोटवीकरणेन । ( बहुवस्त्रापनयनं नाटयन् । ) यावद्दीर्घं द्रुपददुहितुः कृष्यते वस्त्रमस्या स्तावत्स्यानेऽन्यदुदयति पिदधत्सार्वदङ्गं सतश्च । स्विन्नं चैतन्मम करतलं धासभा चेप राशि स्तन्मन्येऽसौ त्रिभुवनमनोमोहिनीं वेत्ति विद्याम् ॥ ४० ॥ द्रौपदी—मो दुःशासन ! मम किमपतिव्रताननोचितं करोषि ? १ प्राकृतच्छाद्येयम् २ कोटवी नग्ना स्त्री

३४ बालभारतम् दुःशासनः—अये पाञ्चालि ! पञ्चानां कलत्रं भूत्वा किमपि व्रीडसे ! (साक्षेपम् ।) हे द्रौपदि ! त्वमसि कात्र पतिव्रतानां किं दृष्टपञ्चपुरुषा वनिता कलत्रम् । दुर्योधनस्य तदिमं भज वाममूरु- मास्फालितं मुकुलिताङ्गुलिना करेण ॥ ४१ ॥ द्रौपदी—(तदनादृश्याञ्जलिं बद्ध्वा ।) हंहो सभासङ्गस्थिता गुरवो नरे- न्द्राश्च ! द्रौपदी निर्णयं पृच्छति । (नेपथ्ये ।) द्रौपदि ! विकर्णस्त्वामाह—'कीदृशो निर्णयः ?' द्रौपदी—किमहं प्रथमं हारिता द्यूते आत्मा वा धर्मनन्दनेन ? (नेपथ्ये ।) प्रजावति ! तवायमभिप्रायः— यद्यहं हारिता पूर्वं भवामि धृतकिंकरी । आत्मा वा हारितः पूर्वं तदा नासि च हारिता ॥ ४२ ॥ दुःशासनः—अरे रे अकर्णतिकर्ण ! सभामध्यमध्यासीने भुवनप- तावार्यदुर्योधने किमित्थं प्रलपसि ! (प्रविश्य ।) विकर्णः—(साक्षेपम् ।) द्यूतं क्षत्रकुलव्रतं न स भवेद्धेतुः पणः स्वामिनः संरम्भः किमकाण्ड एव भवता सद्धर्म यत्त्यज्यते । भो दुःशासन ! कः क्रमो द्रुपदजाकेशाम्बराकर्षणे दुर्वृत्तं क्षमते न कस्यचिदियं भ्राता विकर्णस्तव ॥ ४३ ॥ दुर्योधनः—(सभ्रुकुटीबन्धम् ।) अरे रे धार्तराष्ट्रपटो ! वाचालोऽसि । विकर्णः—तदद्यप्रभृति,—

द्वितीयोऽङ्कः ३५ न्यायवादी विकर्णोऽत्र भवद्भ्यो यद्यहं बहिः । तद्यूयं शतमेकोनं षट् च संप्रति पाण्डवाः ॥ ४४ ॥ दुर्योधनः— तदतिमुखतस्तव कतरः पन्थाः ? विकर्णः— यां मे बलः स बलवान्दलितप्रलम्बो शिष्येषु सत्स्वपि महत्सु गदामदत्त । सा मे यदादिशति हस्ततलायतीर्णा दुर्वृत्तखण्डनविधा मम सोऽत्र पन्थाः ॥ ४५ ॥ ( समन्तादवलोक्य । ) क्षम्येकत्रासचिन्ताकुलमनसि नभःसिन्धुपुत्रे पवित्रे द्रोणे द्राग्दग्धधु शुभ्रं छलयति शकुनौ शिक्षयत्यक्षशिक्षाम् । कर्णे कर्णान्तिकस्थं हसति कुरुपतौ दृष्टयः पाण्डवानां द्रष्टुं दुःशासनं च क्षितिपतिटिलकं यान्ति धर्मात्मजं च ॥ ४६ ॥ ( दुःशासनः 'हे द्रौपदि' [ २४।१ ] इत्यादि पठति । ) विकर्णः— ( विचिन्त्य । ) अहो उचितकारिता पाण्डवानाम् । आकृष्य कौरवकुमारबलं प्रचण्ड मत्युल्लसन्ति गुरुरोपकृपायताराः । द्राग्दृष्टयो नृपतिसंसदि पाण्डवानां दृष्ट्वा युधिष्ठिरमुखं पुनरापतन्ति ॥ ४७ ॥ ( पुनरवलोक्य । ) अहो किमपि महारम्भं सभासदां क्षोभः । द्योतच्चूडामणीनां चलनझणझणत्कारिहारच्छटानां प्रेङ्खोलत्कङ्कणालीकलकलमुखरैर्दोर्भिरुद्दामराणाम् । निःश्वासैः साट्टहासं किमिदमिदमितो वेल्लितभ्रूलतानां संक्षोभो भूपतीनां निततमपि सभागर्भमन्धं रुणद्धि ॥ ४८ ॥ पुरोऽवलोक्य । ) अहो कौरवपतेराज्ञा । अहो सत्यता महीपतीनाम् ।

३६ बालभारतम् अस्मिन्महासदसि कौरवपाण्डवीये क्षोभं गते द्रुपदजाचिकुराञ्चनाभिः । दुर्योधनेन भ्रुकुटी कुटिलीकृता च जाताश्च भूमिपतयो लिखिता इवैते ॥ ४९ ॥ (सरभसं युधिष्ठिरमुपसृत्य ।) आर्य युधिष्ठिर ! प्रतिष्ठस्व वनवासाय । द्यूत- हारितमनुष्ठीयताम् । (सर्वे समुत्तिष्ठन्ति ।) द्रौपदी—रे रे दुर्योधन ! एष मे कचकर्षणपरिभव आमुक्तबन्धस्त्व- स्तत्सत्यमेव चञ्चरीकरमणीयकेशपाशच्छटा नखाग्राङ्कुशकोटिपाटितमहादुःशासनोरःस्थली । रक्तोल्लेखिकरेण निश्चितमिदं भीमेन या बध्यते ॥ ५० ॥ भीमः—रे रे दुर्योधन ! भीमसेनस्य शृणु प्रतिज्ञाम्,— येनेयं याज्ञसेनी नृपसदसि हठात्केशहस्ते गृहीता यश्चास्याः फोटवीथ्यं यत निद्दधदितो वाससा राशिकारः । सोऽहं तेनैव रोषाग्णनयनपुट पाणिनात्पाटितेन त्वा हन्ता हन्त वक्षस्तटभुवि रठतो दुष्टदुःशासनस्य ॥ ५१ ॥ अपि च रे रे दुर्योधन ! नखग्रग्रचपाठनत्रुटितकीस्माद्वक्षमं शिरासरणिभिर्मुखे रुधिरमुत्फलत्फेनिलम् । महासलिमय रुषा हृदि निवेश्य दौःशासने युधिष्ठिरसहोदरं शृणु वृकोदरः पास्यति ॥ ५२ ॥ किं चैकस्मिन्नपराद्धेऽपि तत्सचारिणोऽप्यपराद्धाः । ततश्च,— १ इमानि प्राकृतपद्यानि

द्रोणादुपार्जितधनुर्निगमप्रकर्षा- त्सर्वामपि स्थितवतो वयसि प्रकाशे । भ्रातृश्शतं तव हनिष्यति भीमसेनः काले गदाप्रहरणो रणकर्मशौण्डः ॥ ५३ ॥ ततश्च,— दोर्दण्डमण्डलितचण्डगदाप्रहारै- रामूलतस्तडदिति त्रुटितोरुसंधेः । दुर्योधनस्य विकटां मुकुटाग्रपीठिं द्राग्लोठयिष्यति रणे चरणेन भीमः ॥ ५४ ॥ शकुनिः—निर्गच्छत वनवासाय । को हि द्यूतजितानामुद्विजते मौखर्येण ? ( इति निष्क्रान्ताः सर्वे । ) इति महाकविश्रीराजशेखरकृते प्रचण्डपाण्डवापरनाम्नि बालभारते नाटके द्वितीयोऽङ्कः ।

परिशिष्टम् कर्पूरमञ्जरीगत-छन्दसां सूचिः [ अत्र ( ) एतच्चिह्नान्तर्वर्त्यङ्का जवनिकान्तरनिर्देशकाः, अपरेतनास्तच्छ्लोकाङ्काश्चेति पर्यवसेयम् । ] [ वामस्तम्भः ] आर्या (१) ३, ५, ७, ८, ९, १०, (२) १२, १३, १४, १५, १६, १७, १८, १९, २०, २१, २२, ३३, ३४, ३५, ३६, ३७, ३८, ३९, ४०, ४२, ४३, ४८, ४९, (३) ८, (४) १८. इन्द्रवज्रा (१) २२, (३) ५, ६, (४) ९. उपगीतिः (२) ४५. उपजातिः (१) २८, ३१, (२) २५, (४) १०, ११, १२, १४. उपेन्द्रवज्रा (४) १३. गीतिः (१) ६. पुष्पिताग्रा (१) २, (४) १. पृथ्वी (१) ३४, (२) ३२, ४७, (३) २०, २६, (४) २, ५. मन्दाक्रान्ता (१) ३०, ३३, (२) ७, २३, ३०. मात्रिकः (?) (३) ३०. मालिनी (२) ९, २४, ४४, (३) २, ७, १८, (४) १९. [ दक्षिणस्तम्भः ] रथोद्धता (१) ११, (२) ७, (३) २१, २३, २४, ३१, ३२, ३३, ३४. वंशस्थम् (३) ४. वसन्ततिलका (१) १४, १९, २१, २४ २५, २७, (२) ४, ५, ६, २१, (३) ९, १०, ११, १२, १३, १४, १५, १६, १७, २२, (४) ४, ७, २०. शशिषदना (३) २९. शार्दूलविक्रीडितम् (१) १, १३, १६, १७, १८, २०, २६, २९, ३२, ३५, (२) १, ३, ८, २७, २९, ४६, (३) १, ३, २५, २७, (४) ३, ८, २२. शालिनी (१) २३. शिखरिणी (२) ११. स्रग्धरा (१) ४, १५, २६, (२) १०, २८, ३१, ४१, ५०, (३) १९, २८, (४) ६. स्वागता (१) १२, (४) १५, १६, १७, २१.

कर्पूरमञ्जरीस्थश्लोकानां सूची ।

ज० श्लो० | ज० श्लो० | अंगं चंगं णिअगुणगणालंकि १ ३३ | एकेण पाणिणलिणेण १ २७ अंगं लावण्णपुण्णं ३ १९ | एन्द वासरजीअपिंडसरिमं १ ३५ अंतो णिणिट्टमगं० ३ १२ | अकलितपरिरंभविव्भमाइं १ २ | कंदम्मि नीअ टविद्दो २ १७ अणुकुंकुममचदणं ३ २६ | कप्पंतवेलिभवणे ४ १८ अगग्गम्मि भिंगसरणी २ ६ | कावि वाल्हिकराल ४ १५ अत्थविसेसा ते चित्त १ ७ | किं कञ्ज खित्तिमेण २ २८ असोअत्तरताडणं २ ४७ | किंकिणीकंदरुणज्झणयहा ४ १६ | किं गेभणट्टविहिणा १ १४ आस्थाणीजणलोभणाग २ ३ | किं मेहलावलेण ३ १३ | किं णेअगेहिं ३ १६ इअ मुआइ विलासुज्जलाई २ ४० | कियदसरचरणा वि २ ४२ इअ देवीअ जहिच्छं २ २२ | कीए वि संघडदि ३ ९ इमा मसीकञ्जलकालकाआ ४ १३ | कुंतलेसरमुखा ४ २१ इह कुसुमसरफ्फगोत्तराणं ४ १ | कुडिलालआण माला २ २० इह जह वि कामिणीण २ ४८ | कुरअडनिल्अञ्जमगोआ २ ४३ | केदईकुसुमपत्तसंपुडं २ ७ ईसारोसपसाभप्पणइसु १ ४ | खोउहलत्तसवंचलवेमा ४ १७ | उप्पाडिज्जंति १ ३६ | गाअंतगोअअवधूहपभंफेरि १ २१ उचेहिं गोउरेहिं २ ३१ | उठ्ठिऊण घणभारभंगुरं ३ २१ | घणमुञ्चट्टिदमगं २ ३२ उवएसु वि सरणेसु २ १८ | घणमारतारण अणाइ २ २१ उबरिट्ठिअयगप्पब्भार० २ ३३ | क० म० ११