भारतकोश
कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

Karpuramanjari Sattaka of Rajasekhara with Commentary

महाकवि राजशेखर द्वारा

DevanagariHindipublished172 पृष्ठ

पृष्ठ 148, कुल 172 में से

संदर्भ में पढ़ें
पृष्ठ 148

प्रथमोऽङ्कः २१ नकुलः—आर्य ! इमं तालतरमायुधीकुरु । ( भीमस्तथा करोति । ) बन्दी— उत्पाटितमहातालः कृतचण्डगदाधरः । विप्रवीरो द्वितीयोऽपि पार्थिवानां पुरः स्थितः ॥ ८६ ॥ अर्जुनः—( राजन्यमवलोक्य । ) वयमहमिह विप्राः श्रौतराधारहस्य- स्त्रिभुवनजयमुद्रा द्रौपदी चेयमत्र । कलयथ यदि दोष्णाञ्चापदण्डप्रचण्डां- स्त्यजत रथगजस्यासान्पुरस्योपकण्ठम् ॥ ८७ ॥ बन्दी— ( विचिन्त्य । ) वीर्यं वचसि विप्राणां क्षत्रियाणां भुजद्वये । इदमत्यन्तमाश्चर्यं भुजवीर्या हि यद्विजाः ॥ ८८ ॥ ( अर्जुनस्तदेव पठति । ) ( नेपथ्ये । ) साधु ब्राह्मण ! साधु क्षात्रमार्गमनुवर्तसे । भीमः—यद्येवम्,— प्रसर्पन्तु रणाङ्गणे रुधिरकेलिकल्लोलिनी भवन्तु फलिता इव द्विरदमुण्डषण्डैर्दिशः । नृमांसफकलान्तरेष्वपि च साभिलाषैर्मुखैः कृतान्तजयमङ्गलं विदधतु ध्वनिं फेरवाः ॥ ८९ ॥ ( इति निष्क्रान्ताः सर्वे । ) इति महाकविश्रीराजशेखरकृते प्रचण्डपाण्डवापरनाम्नि बालभारते नाटके राधावेधो नाम प्रथमोऽङ्कः ॥

कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या) · पृष्ठ 148, कुल 172 में से · BharatKosha