कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 155, कुल 172 में से
संदर्भ में पढ़ें२८ बालभारतम् (नेपथ्ये।) यदादिशति कौरवेश्वरः। शकुनिः—अपरः पणः क्रियताम्। युधिष्ठिरः— महीधरधरासु ये सनिनदं पतद्भिः खुरै- र्लिखन्ति च पठन्ति च स्फुटतरं टकारानिव। विरोचनहयावलीकुलभुवां स तेषामयं पणः पवनरंहसां मम तुरंगमाणां गणः ॥ २१ (उभौ क्रीडतः।) शकुनिः—जितं जितं महाराजदुर्योधनेन। दुर्योधनः—मातुल! त्वमेषां तुरंगमाणां भर्ता भव। शकुनिः—यदाह महाराजः। (राजानमुद्दिश्य।) किं वाजिभिः किमु गजैः किमथो रथैर्या सापत्त्नकं न धृतये धरणी पणोऽस्तु। एकातपत्रमिदमद्य चिराय राज्यं धर्मात्मजो भजतु वा धृतराष्ट्रजो वा ॥ २२ ॥ युधिष्ठिरः—यद्येवम्,— ऐलः प्राक्स पुरूरवाः प्रभुरभूद्यस्योर्वशी वल्लभा दुष्पन्तः स च योऽप्यसूत भरतं शाकुन्तलं शान्तये। श्रीमाञ्शांतनुरग्रिमः स च सतां गङ्गाकलत्रेण य- स्तत्सिंहासनमम्बुराशिरशनां शासन्महीं मे पणः ॥ २३ ॥ भीमः—भवतस्तु कः पणः ? (दुर्योधनस्तदेव पठति।) (नेपथ्ये।) राजन्युधिष्ठिर! नराधिप कौरवेन्द्र! वंशे युवां भगवतो भवशेखरस्य।