भारतकोश
कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

Karpuramanjari Sattaka of Rajasekhara with Commentary

महाकवि राजशेखर द्वारा

DevanagariHindipublished172 पृष्ठ

पृष्ठ 154, कुल 172 में से

संदर्भ में पढ़ें
पृष्ठ 154

द्वितीयाेऽङ्कः २७ सुनन्दा—धर्मनन्दनो यदि पुनर्जयन्नस्ति सुरेखाप्रभृतीनां तदहम- प्यधिष्ठात्री आसिष्ये। शकुनिः—अपरः पणः क्रियताम्। युधिष्ठिरः— निरर्गलविनिर्गलद्बहुलगुलाकरालैर्गलै- रमी तदिति ताडितोड्डमरडिण्डिमोद्दामराः। मदाचमनचञ्चुरप्रचुरचञ्चरीकोद्धयाः पणः परिणतिक्षुणक्षततटान्तरा दन्तिनः ॥ १९ ॥ भीमः—भवतस्तु कः पणः ? (दुर्योधनस्तदेव पठति। उभौ क्रीडतः।) शकुनिः—जिता दन्तिनः। दुर्योधनः—(नेपथ्यं प्रति) दुःशासन! द्यूतदन्तिनां प्रणेता त्वं भव। (नेपथ्ये।) यदादिशत्यार्यदुर्योधनः। शकुनिः—अपरः पणः क्रियताम्। युधिष्ठिरः— झणज्झणितकिङ्किणीमुखरकंधरासंधिभि- र्युतास्तरुणतित्तिरिच्छदमनोहरैर्वाजिभिः। द्रुताङ्कघनपट्टिशत्रिशिखलङ्घिनः स्तम्भिनो रथाः प्रचलकाञ्चनध्वजमहापताकाः पणः ॥ २० ॥ (उभौ क्रीडतः।) शकुनिः—हारिता रथाः। दुर्योधनः—(नेपथ्यं प्रति।) सखे अङ्गराज! त्वं रथानां नेता भव।