कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 159, कुल 172 में से
संदर्भ में पढ़ें३२ बालभारतम् संभूता द्रुपदाध्वरे हुतभुजः पाण्डोर्नृपस्य स्नुषा राधावेधमहापणेन विजिता राज्ञां पुरः पद्यताम् । भूभृन्मौलिमणीन्द्रदीधितिजलैर्या स्नातपादाम्बुजा सा देवी विनयाभिमानवसतिः कृष्णा वितृष्णा पणः ॥ ३४ ॥ भीमः—भवतस्तु कः पणः ? दुर्योधनः— ज्येष्ठत्वात्पाण्डुपूज्यस्य धृतराष्ट्रस्य या स्नुषा । सा देवी देवरवती मम भानुमती पणः ॥ ३५ ॥ सुनन्दा—( स्वगतम् ।) एष स ज्येष्ठाभिः कनिष्ठानां विनिमयः ! ( उभौ क्रीडतः । ) शकुनिः—जितं जितं महाराजदुर्योधनेन । दुर्योधनः—दुःशासन ! आनीयतां द्यूतदासी द्रौपदी । ( नेपथ्ये । ) यदादिशति पाण्डवकौरवेश्वरः । दुर्योधनः—अपरः पणः क्रियताम् । युधिष्ठिरः—न मे पणान्तरमस्तीति प्रतिभाति । दुर्योधनः— वर्षाणि द्वादशारण्ये सह तिष्ठन्तु निष्ठया । अज्ञातचर्यया वर्षमावयोर्युधि जीयते ॥ ३६ ॥ ( युधिष्ठिरस्तदेवानुवदति । उभौ क्रीडतः । ) शकुनिः—जितं जितं महाराजदुर्योधनेन । ( नेपथ्ये । ) पञ्चानां या कलत्रं द्रुपदमखविधावद्भुतं जन्म यस्याः पूता या राजसूयावभृथपरिगमे मन्त्रपूतैः पयोभिः । तामेनां द्यूतदासीं कुरुपतिनियमं मूर्ध्नि कृत्व्या मयान्तः केशेष्वाकृष्यमाणां शृणुत नृपतयो यस्य शक्तिः स पातु ॥ ३७ ॥