कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 162, कुल 172 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः ३५ न्यायवादी विकर्णोऽत्र भवद्भ्यो यद्यहं बहिः । तद्यूयं शतमेकोनं षट् च संप्रति पाण्डवाः ॥ ४४ ॥ दुर्योधनः— तदतिमुखतस्तव कतरः पन्थाः ? विकर्णः— यां मे बलः स बलवान्दलितप्रलम्बो शिष्येषु सत्स्वपि महत्सु गदामदत्त । सा मे यदादिशति हस्ततलायतीर्णा दुर्वृत्तखण्डनविधा मम सोऽत्र पन्थाः ॥ ४५ ॥ ( समन्तादवलोक्य । ) क्षम्येकत्रासचिन्ताकुलमनसि नभःसिन्धुपुत्रे पवित्रे द्रोणे द्राग्दग्धधु शुभ्रं छलयति शकुनौ शिक्षयत्यक्षशिक्षाम् । कर्णे कर्णान्तिकस्थं हसति कुरुपतौ दृष्टयः पाण्डवानां द्रष्टुं दुःशासनं च क्षितिपतिटिलकं यान्ति धर्मात्मजं च ॥ ४६ ॥ ( दुःशासनः 'हे द्रौपदि' [ २४।१ ] इत्यादि पठति । ) विकर्णः— ( विचिन्त्य । ) अहो उचितकारिता पाण्डवानाम् । आकृष्य कौरवकुमारबलं प्रचण्ड मत्युल्लसन्ति गुरुरोपकृपायताराः । द्राग्दृष्टयो नृपतिसंसदि पाण्डवानां दृष्ट्वा युधिष्ठिरमुखं पुनरापतन्ति ॥ ४७ ॥ ( पुनरवलोक्य । ) अहो किमपि महारम्भं सभासदां क्षोभः । द्योतच्चूडामणीनां चलनझणझणत्कारिहारच्छटानां प्रेङ्खोलत्कङ्कणालीकलकलमुखरैर्दोर्भिरुद्दामराणाम् । निःश्वासैः साट्टहासं किमिदमिदमितो वेल्लितभ्रूलतानां संक्षोभो भूपतीनां निततमपि सभागर्भमन्धं रुणद्धि ॥ ४८ ॥ पुरोऽवलोक्य । ) अहो कौरवपतेराज्ञा । अहो सत्यता महीपतीनाम् ।