भारतकोश
कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

Karpuramanjari Sattaka of Rajasekhara with Commentary

महाकवि राजशेखर द्वारा

DevanagariHindipublished172 पृष्ठ

पृष्ठ 20, कुल 172 में से

संदर्भ में पढ़ें
पृष्ठ 20

प्रथमं जवनिकान्तरम् ७ एस कांसतालाणं पक्खाउज्जाण हल्बोलो सुणीअदि। एदं धुवागीदं आल- पीअदि। ता किं पि कुडुब हक्कारिअ पुच्छिस्सं। (नेपथ्याभिमुखमवलोक्य सज्ञापयति।) रङ्गभूमिं समाक्रम्य सूत्रधार स उच्यते ॥' इति । लक्षण चास्य मातृगुप्ता- चार्यैरुक्तम्—'चतुरातोद्यनिष्णातोज्नेकभूपासमाहृत । नानाभाषणतत्त्वज्ञो नीतिशास्त्रार्थतत्त्ववित् ॥ देश्योपचारचतुर पौरुषेयविचक्षण । तत्तद्गीतानुगा- नेयवलातालवधारण ॥ अवधार्य प्रयोक्ता च योक्तृणामुपदेशक । एवं गुणगणोपेत सूत्रधार स उच्यते ॥' इति । द्वितीयस्य स्थापकसंज्ञा दर्शिता भरते—'स्थापक प्रविशेत्तत्र सूत्रधारगुणाकृति ।' इति । सूत्रधार इत्यस्याग्रे क्वचित्पठोऽस्ति । सूत्रधारपदं पुनरप्युच्चारणीयमिति तस्यार्थ । तेन सूत्रधारो वदतीति द्वितीयपदस्यार्थ । एवमग्रेडपि ज्ञेयम् । नेपथ्याभिमुखमिति । 'नेपथ्य स्याज्जवनिका रङ्गभूमिप्रसाधनम् ।' इत्यजय । किं उण इति । किं पुनस्तैलप्रवृत्त इव दृश्यतेऽस्माकं कुशीलय्याना परिजन । जदो इति । यत एका पात्रोचितानि सिचयान्युचिनोति । इतरा कुसुमावलीर्गुम्फति । अन्या प्रतिशीर्षकाणि प्रसादयति । प्रतिशीर्षकाणि नाट्यलोचने—'अमात्यकञ्चकिश्रेष्ठिविदूषकपुरोधसाम् । चेष्टा- बद्धपट्टानि प्रतिशीर्षाणि कारयेत् ॥' इति । कापि रङ्गे वर्णिका पट्टे वर्तयति । चित्रफलकानि चिनवतीत्यर्थ । एष वंशो स्थापितो ध्यान । वंशो वेणुवाद्यम् । इयं वीणा प्रतिसार्यते । इमे त्रयोऽपि मुञ्जा ग यन्ते । त्रैविध्यं च भरते—'मायूरी अर्धमायूरा कर्मारवी चेति त्रिधा ।' इति । एष कांस्यतालाना प्रक्षालनोज्ज्वलानां हल्हलो श्रूयते । 'हल्बोलो' इति देशी । एतद्द्रुवागीतमालप्यते ।

कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या) · पृष्ठ 20, कुल 172 में से · BharatKosha