कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 19, कुल 172 में से
संदर्भ में पढ़ें६ कर्पूरमञ्जरी (नान्द्यन्ते।) स्थापकः—(परिक्रम्य नेपथ्याभिमुखमवलोक्य।) किं उण णट्टप्पउत्तो विअ दीसदि अम्हाणं कुसीलवाणं जणो। जदो एका पत्तोइदाईं सिअ- आईं उच्छिणेदि। इदरा कुसुमावलीओ गुंफेदि। अण्णा पडिसीसआईं पडिसारेदि। कावि हू वण्णिआओ पट्टए घट्टेदि। एसो बंसो ठाविदो ठाणे। इअं वीणा पडिसारीअदि। इमे तिण्णि वि मिअंगा सज्जीअंति। नान्द्यन्ते सूत्रधार इति कविवचनम्। एवमग्रेऽपि मध्ये मध्ये कविवचनं संसृक्तं ज्ञेयम्। नान्दीलक्षणं तु—'आशीर्नमस्क्रियारूपः श्लोकः काव्यार्थसूचकः। नान्दीति कथ्यते' इत्यादि भरते। नाट्यप्रदीपेऽपि—'नन्दन्ति काव्यानि कवीन्द्रवर्याः कुशीलवाः पारिषदाश्च सन्तः। यस्मादलं सज्जनसिन्धुहंसी तस्मादलं सा कथितेह नान्दी॥' इयं च मङ्गलार्था—'यन्नाट्यवस्तुनः पूर्वरङ्गं विघ्नोपशान्तये। कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः स उच्यते॥ उत्थापनाः प्रकुर्वन्ति सन्ति भूयांसि यद्यपि। तथा- प्यवश्यं कर्तव्या नान्दी विघ्नोपशान्तये॥' इत्युक्तत्वात्। सा चेहाष्टपदी वृत्ता— 'नाट्यपूर्वोक्ता नान्दी त्वाशीर्वचनसंयुता। अष्टाङ्गपदसंयुक्ता प्रशस्ता वेदसंमिता। नान्दी पदैर्द्वादशभिर्वाष्टभिर्वाप्यलङ्कृता॥' इति भरतोक्तेः। पदानि चात्र श्लोक- चरणरूपाणि—'श्लोकपादं पदं केचिच्चुप्तिङन्तमथापरे। परेऽवान्तरवाक्यैकस्वरूपं पदमूर्चिरे॥' इति नाट्यप्रदीपेऽभिहितत्वात्। अवान्तरवाक्यरूपे पदेऽपदेयं द्रष्टव्या। सा चेयं सूत्रधारप्रयोज्या—'सूत्रधारः पठेन्नान्दीं मध्यमं स्वरमाश्रि- तः।' इति भरतोक्तेः। ईदृशीं नान्दीं पठित्वा सूत्रधारे गते पश्चात्सूत्र- धारः स्थापकाख्योऽपरः प्रविशतीति शेषः। उक्तं च दशरूपके—(२।२) 'पूर्वरङ्गं विधायादौ सूत्रधारे विनिर्गते। प्रविश्य तद्वदपरः काव्यमास्थापये- न्नटः॥' इति। भावप्रकाशेऽपि—'सर्वं रङ्गं विधायादौ सूत्रधारे विनिर्गते। तद्रूपः प्रविशत्यन्यः सूत्रधारगुणावहः॥' इति। पूर्वरङ्गशब्देनार्थरूपो रङ्गः— 'पूर्वो रङ्गस्य इति पूर्वरङ्गो नाट्यशाला। तदारम्भावस्थप्रयोग इति।' अन्यत्राप्युक्तम्—'गान्धर्वाणां पुरा संस्था यत्रत्या वाचिका भवेत्। अतो रङ्ग इति ज्ञेयः पूर्वरङ्गनिरूप्यते। तस्मादयं पूर्वरङ्ग इति विशेष्यते॥' इति। एवमपरमुच्यते सङ्गीतसर्वस्वे—'नर्तनीरङ्गशालायां प्रथमं येन गृह्यते।