भारतकोश
संग्रह पर लौटें

कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

Karpuramanjari Sattaka of Rajasekhara with Commentary

महाकवि राजशेखर द्वारा

DevanagariHindipublished172 पृष्ठ

६ कर्पूरमञ्जरी (नान्द्यन्ते।) स्थापकः—(परिक्रम्य नेपथ्याभिमुखमवलोक्य।) किं उण णट्टप्पउत्तो विअ दीसदि अम्हाणं कुसीलवाणं जणो। जदो एका पत्तोइदाईं सिअ- आईं उच्छिणेदि। इदरा कुसुमावलीओ गुंफेदि। अण्णा पडिसीसआईं पडिसारेदि। कावि हू वण्णिआओ पट्टए घट्टेदि। एसो बंसो ठाविदो ठाणे। इअं वीणा पडिसारीअदि। इमे तिण्णि वि मिअंगा सज्जीअंति। नान्द्यन्ते सूत्रधार इति कविवचनम्। एवमग्रेऽपि मध्ये मध्ये कविवचनं संसृक्तं ज्ञेयम्। नान्दीलक्षणं तु—'आशीर्नमस्क्रियारूपः श्लोकः काव्यार्थसूचकः। नान्दीति कथ्यते' इत्यादि भरते। नाट्यप्रदीपेऽपि—'नन्दन्ति काव्यानि कवीन्द्रवर्याः कुशीलवाः पारिषदाश्च सन्तः। यस्मादलं सज्जनसिन्धुहंसी तस्मादलं सा कथितेह नान्दी॥' इयं च मङ्गलार्था—'यन्नाट्यवस्तुनः पूर्वरङ्गं विघ्नोपशान्तये। कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः स उच्यते॥ उत्थापनाः प्रकुर्वन्ति सन्ति भूयांसि यद्यपि। तथा- प्यवश्यं कर्तव्या नान्दी विघ्नोपशान्तये॥' इत्युक्तत्वात्। सा चेहाष्टपदी वृत्ता— 'नाट्यपूर्वोक्ता नान्दी त्वाशीर्वचनसंयुता। अष्टाङ्गपदसंयुक्ता प्रशस्ता वेदसंमिता। नान्दी पदैर्द्वादशभिर्वाष्टभिर्वाप्यलङ्कृता॥' इति भरतोक्तेः। पदानि चात्र श्लोक- चरणरूपाणि—'श्लोकपादं पदं केचिच्चुप्तिङन्तमथापरे। परेऽवान्तरवाक्यैकस्वरूपं पदमूर्चिरे॥' इति नाट्यप्रदीपेऽभिहितत्वात्। अवान्तरवाक्यरूपे पदेऽपदेयं द्रष्टव्या। सा चेयं सूत्रधारप्रयोज्या—'सूत्रधारः पठेन्नान्दीं मध्यमं स्वरमाश्रि- तः।' इति भरतोक्तेः। ईदृशीं नान्दीं पठित्वा सूत्रधारे गते पश्चात्सूत्र- धारः स्थापकाख्योऽपरः प्रविशतीति शेषः। उक्तं च दशरूपके—(२।२) 'पूर्वरङ्गं विधायादौ सूत्रधारे विनिर्गते। प्रविश्य तद्वदपरः काव्यमास्थापये- न्नटः॥' इति। भावप्रकाशेऽपि—'सर्वं रङ्गं विधायादौ सूत्रधारे विनिर्गते। तद्रूपः प्रविशत्यन्यः सूत्रधारगुणावहः॥' इति। पूर्वरङ्गशब्देनार्थरूपो रङ्गः— 'पूर्वो रङ्गस्य इति पूर्वरङ्गो नाट्यशाला। तदारम्भावस्थप्रयोग इति।' अन्यत्राप्युक्तम्—'गान्धर्वाणां पुरा संस्था यत्रत्या वाचिका भवेत्। अतो रङ्ग इति ज्ञेयः पूर्वरङ्गनिरूप्यते। तस्मादयं पूर्वरङ्ग इति विशेष्यते॥' इति। एवमपरमुच्यते सङ्गीतसर्वस्वे—'नर्तनीरङ्गशालायां प्रथमं येन गृह्यते।

प्रथमं जवनिकान्तरम् ७ एस कांसतालाणं पक्खाउज्जाण हल्बोलो सुणीअदि। एदं धुवागीदं आल- पीअदि। ता किं पि कुडुब हक्कारिअ पुच्छिस्सं। (नेपथ्याभिमुखमवलोक्य सज्ञापयति।) रङ्गभूमिं समाक्रम्य सूत्रधार स उच्यते ॥' इति । लक्षण चास्य मातृगुप्ता- चार्यैरुक्तम्—'चतुरातोद्यनिष्णातोज्नेकभूपासमाहृत । नानाभाषणतत्त्वज्ञो नीतिशास्त्रार्थतत्त्ववित् ॥ देश्योपचारचतुर पौरुषेयविचक्षण । तत्तद्गीतानुगा- नेयवलातालवधारण ॥ अवधार्य प्रयोक्ता च योक्तृणामुपदेशक । एवं गुणगणोपेत सूत्रधार स उच्यते ॥' इति । द्वितीयस्य स्थापकसंज्ञा दर्शिता भरते—'स्थापक प्रविशेत्तत्र सूत्रधारगुणाकृति ।' इति । सूत्रधार इत्यस्याग्रे क्वचित्पठोऽस्ति । सूत्रधारपदं पुनरप्युच्चारणीयमिति तस्यार्थ । तेन सूत्रधारो वदतीति द्वितीयपदस्यार्थ । एवमग्रेडपि ज्ञेयम् । नेपथ्याभिमुखमिति । 'नेपथ्य स्याज्जवनिका रङ्गभूमिप्रसाधनम् ।' इत्यजय । किं उण इति । किं पुनस्तैलप्रवृत्त इव दृश्यतेऽस्माकं कुशीलय्याना परिजन । जदो इति । यत एका पात्रोचितानि सिचयान्युचिनोति । इतरा कुसुमावलीर्गुम्फति । अन्या प्रतिशीर्षकाणि प्रसादयति । प्रतिशीर्षकाणि नाट्यलोचने—'अमात्यकञ्चकिश्रेष्ठिविदूषकपुरोधसाम् । चेष्टा- बद्धपट्टानि प्रतिशीर्षाणि कारयेत् ॥' इति । कापि रङ्गे वर्णिका पट्टे वर्तयति । चित्रफलकानि चिनवतीत्यर्थ । एष वंशो स्थापितो ध्यान । वंशो वेणुवाद्यम् । इयं वीणा प्रतिसार्यते । इमे त्रयोऽपि मुञ्जा ग यन्ते । त्रैविध्यं च भरते—'मायूरी अर्धमायूरा कर्मारवी चेति त्रिधा ।' इति । एष कांस्यतालाना प्रक्षालनोज्ज्वलानां हल्हलो श्रूयते । 'हल्बोलो' इति देशी । एतद्द्रुवागीतमालप्यते ।

८ कर्पूरमञ्जरी ( ततः प्रविशति पारिपार्श्वकः । ) पारिपार्श्वकः—आणवेदु भावो । स्थापकः—( विचिन्त्य । ) किं उण णट्टपउत्ता विअ दीसध ? पारिपार्श्वकः—अध इं । सट्टअं णच्चिदव्वं । स्थापकः—को उण तस्स कई ! पारिपार्श्वकः— उक्तं च भरते—'प्रावेशिकी आक्षेपिकी कामिकी उत्थापिनी प्रासादिकी इति पञ्च ध्रुवाः ।' इति । तत्किमपि कुटुम्बमाकार्य पृच्छामि । नेपथ्येति । संज्ञापनमाह्वानसंकेतकरणम् । तत इति । पारिपार्श्वकलक्षणं च 'तस्यानुचरः पारिपार्श्वकः' इति साहित्य- दर्पणे । आणवेदु इति । आज्ञापयतु भावः । 'भाव इत्युच्यते विद्वान्' इति भावलक्षणम् । स्थापकः— किं पुनर्नृत्यप्रवृत्ता इव दृश्यध्वे । पारिपार्श्वकः— अथ किम् । सट्टकं नर्तितव्यम् । सट्टकमिति । तल्लक्षणं च भावप्रकाशे—'सैब प्रवेशकेनापि विष्कम्भेन विना कृता । अङ्कस्थानीयविन्यस्तचतुर्जवनिकान्तरा ॥ प्रकृष्टप्राकृतमयी सट्टके नामतो भवेत्।' स्थापकः— कः पुनस्तस्य कविः ? पारिपार्श्वकः—

प्रथमं जवनिकान्तरम् ९ भाव ! कहिज्जदु एअं को भण्णइ रअणिवल्लहसिहंडो । रहुउलचूडामणिणो महिंदवालस्स को अ गुरू ॥ ५ ॥ स्थापकः—(विचिन्त्य ।) अए, पण्होत्तरं खु एदं । (प्रकाशम् ।) राजसेहरो । पारिपार्श्वकः—सो एदस्स कई । स्थापकः—किं सट्टअं ? पारिपार्श्वकः—(स्मृत्वा ।) कहिदं जेव छइल्लेहि,— सो सट्टओ त्ति भण्णइ दूरं जो णाडिआईं अणुहरइ । किं उण पवेसविस्कंभकाई केवलं ण दीसंति ॥ ६ ॥ भाव ! कथ्यतामेतत्को भण्यते रजनीवल्लभशिखण्डः । रघुकुलचूडामणेर्महेन्द्रपालस्य कश्च गुरुः ॥ राजशेखरकविनाम्न पर्यायो रजनीत्यादि । स्थापकः—विचिन्त्यनं स्वगतपर्याय । 'अश्राव्य स्वगत मतम्' इति तल्लक्षणम्। पण्ह इति । अये, प्रश्नोत्तरं खल्वेतत् । मया पृष्टेऽनेनेदृशमुक्त चेत्प्रश्नोत्तरमस्तीत्यर्थ । प्रकाशमिति । 'सर्वश्राव्यं प्रकाशं स्यात्' इति तल्लक्षणम् । राज इति । राजशेखरः । काथा वदति— स एतस्य कविः । 'गोत्रं नाम च बध्नीयात्' इत्युक्ते कवेर्नामोक्ति । किं सट्टकम् ? कहिदं इति । कथितमेव विदग्धैः,— सट्टकमिति भण्यते दूरं यो नाटिकागिरनुहरति । किं पुनः प्रवेशकविष्कम्भकौ केवलं न दृश्यत. ॥

१० कर्पूरमञ्जरी स्थापकः—(विचिन्त्य ।) ता किं ति सक्कअं परिहरिअ पाउअबन्धे पउत्तो कई ? पारिपार्श्वकः—सव्वभासाचउरेण तेण भणिदं जेव । जधा,— अत्थविसेसा ते चिअ सद्दा ते चेअ परिणमंता वि । उत्तिविसेसो कव्वं भासा जा होइ सा होउ ॥ ७ ॥ अवि अ,— परुसा सक्कअबन्धा पाउअबन्धो वि होइ सुउमारो । पुरिसमहिलाणं जेत्तिअमिहंतरं तेत्तिअमिमाणं ॥ ८ ॥


दूरमल्यर्थम् । तल्लक्षणं सुधाकरे—'यन्नीचैः केवलं पात्रैर्भाविभूताथंसूचनम् । अङ्कयोरुभयोर्मध्ये स विज्ञेयः प्रवेशकः ॥' इति । 'तत्र विष्कम्भको भूतभाविवस्त्वं- शसूचकः । अमूख्यपात्ररचितः संक्षेपैकप्रयोजनः ॥' तद्भेदा अपि तत्रैव—'द्विधा स शुद्धो मिश्रश्च मिश्रः स्यान्नीचमध्यमैः । शुद्धः केवलमध्योऽयमेकानेककृतो द्विधा ॥' ता किं इति । तत्किमिति संस्कृतं परिहृत्य प्राकृतबन्धे प्रवृत्तः कविः ? पारिपार्श्वकः— सर्वभाषाचतुरेण तेन भणितमेव । यथा,— अर्थविशेषास्त एव शब्दास्त एव परिणमन्तोऽपि । उक्तिविशेषः काव्यं भाषा या भवति सा भवतु ॥ परिणमन्तोऽपीत्यनेन प्राकृतस्य संस्कृतयोनित्वमुक्तम् । तदुक्तं प्राकृतसंजीवि- न्याम्—'प्राकृतस्य तु सर्वमेव संस्कृते योनिः' इति । दण्डिना चोक्तम् (का. १।३३)—'तद्भवस्तत्समो देशीत्यनेकः प्राकृतक्रमः ।' इति । उक्तिविशेष इति 'तददोषौ शब्दार्थौ' ( १।४ ) इत्यादिना काव्यप्रकाशे नानाभेदभिन्नं काव्यमुपक्षिप्तम् । भाषाविशेषोनादरश्चोक्तः । कण्ठाभरणे— (२।७) 'संस्कृतेनैव कोऽप्यर्थः प्राकृतेनैव चापरः ।' इत्यादिना 'सर्वाभिरपि कथन' (स. क. २।११ ) इत्यन्तेन । अवि अ इति । अपि च,— परुषाः संस्कृतगुम्फाः प्राकृतगुम्फोऽपि भवति सुकुमारः । पुरुषमहिलानां यावदिहान्तरं तेषु तावत् ॥

प्रथमं जवनिकान्तरम् ११ स्थापकः—ता अप्पा किं ण वण्णिदो तेण ? पारिपार्श्वकः—सुणदु, वण्णिदो ज्जेव तक्कालकइणं मज्झम्मि मिअं- कलेहाकधाआरेण अवराइदेण । जधा,— बालकइ कइराओ णिब्भरराअस्स तह उवज्झाओ । इअ जस्स पएहिं परंपराइ माहप्पमारूढं ॥ ९ ॥ सो अत्तस कई सिरिराजसेहरो तिहुअणं पि धवलेन्ति । हरिणंकपाडिसिद्धीअ णिक्कलंका गुणा जस्स ॥ १० ॥ महिला कामिन्य । स्थापकः— तदात्मा किं न वर्णितस्तेन ? पारिपार्श्वकः— शृणु, वर्णित एव तत्कालकवीनां मध्ये मृगाङ्कलेखाकथाकारेणापराजितेन । यथा,— बालकविः कविराजो निर्भयराजस्य तथोपाध्यायः । इत्येतस्य परम्परया आत्मा माहात्म्यमारूढ ॥ यदा तु 'दनि यस्य जयं परम्परामाहात्म्यमारूढम्' इति पाठस्तदा जयोत्कर्षं । आरूढमिति भावे क्तः । इयं च कारणमाला । सा यथा (का. प्र. १०।१२०)— 'यथोत्तरं चेत्पूर्वेषां पूर्वस्यार्थस्य हेतुता । तदा कारणमाला स्यात्' इति । परिकरोऽ- प्यत्र । स यथा (का. प्र १०।११८)—'विशेषणैर्यत्साकूतैरुक्तः परिकरस्तु सः' इति । द्वितीयपाठे आरोहणस्य चेतनधर्मस्य जयेध्यारोपणादुत्तरोत्तरप्रसारित्वलक्षणया परम्परापाधत्वं व्यङ्ग्यम् । सो इति । स एतस्य कविः श्रीराजशेखरस्त्रिभुवनमपि धवलयन्ति । हरिणाङ्कप्रतिसिद्ध्या निष्कलङ्का गुणा यस्य ॥ प्रतिकूलतया सिद्धिस्तत्कार्यकारित्वम् । त्रिभुवनमिति निष्कलङ्का इति च व्यतिरेकः । 'उपमानाद्यदन्यस्य व्यतिरेक स एव सः' (१०।१०५) इति काव्यप्रकाशे । अन्यस्य व्यतिरेके विशेषेणातिरेक आधिक्यं व्यतिरेक इत्यर्थः । 'विस्तराद्भुत संक्षेपै- र्विदधीत प्ररोचनाम्' इत्युक्तत्वात् 'प्रशंसा तु द्विधा ज्ञेया चेतनाचेतनाध्रया । चेत-

१२ कर्पूरमञ्जरी स्थापकः—ता केण समादिट्ठा पउंजध ? पारिपार्श्वकः— चाहुआणकुलमोलिमालिआ राजसेहरकईंदगेहिणी । भत्तुणो किइमवंतिसुंदरी सा पउंजइउमेअमिच्छइ ॥ ११ ॥ किं च,— चंडवालघरणीहरिणंको चक्कवट्टिपदलाहणिमित्तं । एत्थ सट्टअवरे रससोत्ते कुंतलाहिवसुअ परिणेइ ॥ १२ ॥ स्थापकः—ता एहि । अणंतरकरणिज्जं संपादेम्ह । जदो महारा- अदेवीणं भूमिअं घेत्तूण अज्जो अज्जभारिआ अ जवणिअंतरे चट्टंति । ( इति परिक्रम्य निष्क्रान्तौ । ) प्रस्तावना । नास्तु कथानायकवित्वम्यनटा स्मृता ॥ अचेतनौ देशकालौ कालो मधुशरन्मुख ॥' इत्युक्तेश्च कविप्रशंसा कृता । नटप्रशंसा 'कि पुन.' इत्यादिना सूचिता । स्थापकः— तत्केन समादिष्टाः प्रयुङ्ग्ध्वम् ? पारिपार्श्वकः— चाहुवानकुलमौलिमालिका राजशेखरकवीन्द्रगेहिनी । भर्तुः कृतिमवन्तिसुन्दरी सा प्रयोजयितुमेतदिच्छति ॥ कवेर्भार्या प्रयोजिका । किं चेति । चण्डपालधरणीहरिणाङ्कश्चक्रवर्तिपदलाभनिमित्तम् । अत्र सट्टकवरे रसस्रोतसि कुन्तलाधिपसुतां परिणयति ॥ रसाः शृङ्गारादयो जलं च । स्रोतः प्रवाहः । सट्टकलक्षणं त्वभ्यधायि । अत्र रूपकश्लेषानुप्रासाः । अनेन तथा नायकप्रशंसा सट्टकप्रबन्धप्रशंसा च कृता । उक्तं हि—'वागालापः प्रथमं कलाविधिरनन्तरं । वाघाशून्या न दृश्यन्ते व्यवहाराः कथंचन ॥ वाधारोपहृतु कर्मेरमीष्टार्थप्रशासनम् ।' इति ।

प्रथमं जवनिकान्तरम् १३ (ततः प्रविशति राजा देवी विदूषको विभवतश्च परिवारः । सर्वे परिक्रम्य यथो- चितमुपविशन्ति ।) राजा—देवि दक्खिणाहाणरिंदणंदिणि ! वड्ढावीअसि इमिणा वसंताारंभेण । जदो,— बियोट्टे बहलं ण देंति मअणं णो गंधतेला विला बेणीओ चिरअंति लैंति ण तहा अंगम्मि कुप्पासअं। जं बाला मुहकुंकुमम्मि वि घणे चह्टंति दिल्हाअरा तं मण्णे सिसिरं विणिज्जिअ वला पत्तो वसंतूसवो ॥ १३ ॥ देवी—देव ! अहं पि तुज्झ पडिवड्ढाविआ भविस्सं । जहा,— ता इति । स्थापकः—तद्भाव ! एहि; अनन्तरवर्णीय सम्पादयावः । यतो महाराजदेव्यो- र्भूमिका गृहीत्वा आर्ये आर्यभार्या च जवनिकान्तरे वर्तेते । तत इति । 'एषामन्यतमेनार्थं पात्रावाक्षिप्य सूत्रधृत् । प्रस्तावनान्ते निर्ग- च्छेत्ततो वस्तु प्रपञ्चयेत् ॥' (३।२१, २२) इति दशरूपके उक्तत्वात् । 'गूढ- मन्त्रः शुचिर्वाग्मी भक्तो नर्मविचक्षणः । स्वाङ्गभङ्गविहस्तश्च कुपितस्त्रीप्रसादकः ॥' (शं. ति. १।२९) इत्युक्त्या 'पीठमर्दो विटश्चैव विदूषक इति त्रिधा।' इति तद्भेदां- धोक्त्वा 'क्रीडाप्रायो विदूषकः । सर्वपूर्वप्रभाषाभिर्हास्यकारी स्वकर्मकृत् ।' (शं. ति. १।३१) इति विदूषकलक्षणमभिहितं शृङ्गारतिलके । राजेति । देवि दक्षिणापथनरेन्द्रनन्दिनि ! वर्धसेऽनेन वसन्तारम्भेण । जदो इति । यतः,— बिम्बोष्ठे बहलं न ददति मदनं नो गन्धतैलाविला वेणीर्विरचयन्त्याददति न तथाङ्गेऽपि कूर्पासकम् । यद्बाला मुखकुङ्कुमेऽपि घने वर्तन्ते शिथिलादरा- स्तन्मन्ये शिशिरं विनिर्जित्य बलात्प्राप्तो वसन्तोत्सवः ॥ कूर्पासकं चोलिइ । 'बाला स्यात्षोडशाब्दा' इति बाललक्षणम् । अनेन तासां विलासकत्त्वं व्यङ्ग्यम् । बाला इत्यस्यावृत्तेरर्थदीपकम् । 'अनेकशब्दोपादान'मित्यै- 1 अत्र 'देवि' इति पाठो टीकानुगुणः ।

२४ कर्पूरमञ्जरी छोलंति दंतरअणाइ गए तुसारे ईसीस चंदणरसम्मि मणं कुणंति । एण्हि सुवंति घरमज्झिमसालिआसु पाअंतपुंजिअपडं मिहुणाइ पेच्छ ॥ १४ ॥ ( नेपथ्ये । ) वैतालिकयोरेकः—जअ जअ पुव्वदिसंगणामुअंग चम्पाचम्पअक- ण्णऊर लीलाणिज्जिदराढाचंगत्तण विक्कमकंकणकामरूव हरिकेलीकेलिआर वैकात्र दीप्यते ।' (का २।११२) इति दण्डिनोक्तम् । अत्र च 'देंति देंति' इति कथि- तपदत्वं काव्यदोषो न शङ्कनीय । विरअं त इत्येतेन च्छेकानुप्रासनिर्वाहकत्वेन गुण- त्वात् । तल्लक्षणं च 'सोऽनेकस्य सहृ पूर्व' ( ९।७९) इति काव्यप्रकाशे । अस्यार्थ —अनेकस्य व्यञ्जनस्य सकृदेकवारं साम्यं पूर्वं यस्य स च्छेकानुप्रास इति । न चाव्यवधानेन पूर्वतायामेव न इति वाच्यम् । 'तनोऽरुगपरिस्पन्दमन्दीकृतवपु- श्शशी । दध्रे वामपरिक्षामकामिनीगण्डपाण्डुताम् ॥' इत्यादावप्यकारमकाराकारा- त्कारपकाराकारव्यवधानेन तदुदाहरणवापातात् । यद्वा एकस्य 'देंति'पदस्य दान- विशेषार्थान्तरसङ्क्रमितवाच्यत्वाददोष इति सुचतुरश्याम् । देवी— देव ! अहमपि तत्र प्रतिवर्धिरा भविष्यामि । प्रतिवर्धयतीति प्रतिवर्धिरा । वसन्तवर्णिकेत्यर्थ । जधा इति । यथा— स्फुरन्ति दन्तरत्नानि गते तुषारे ईषद्विचन्दनरसे मन कुर्वन्ति । इदानीं स्वपन्ति गृहमध्यमशालिकासु पादान्तपुञ्जितपट मिथुनानि प्रेक्षस्व ॥ मध्यमशालिकास्थितेनान्तर्गृहस्तापस्यक इत्युक्तम् । पादान्तेत्यादिना पद्य- नपेक्षोश । स्फुरन्तीत्यनेनौष्ठानां हाससहत्वमुक्तम् । यथा शृङ्गारतिलके (३।२)—'किंचिद्विकसितेगोष्ठे किंचिद्दन्तारिनेक्षणे । किंचिद्भ्रूयतिजे. सोऽय- मुत्तमानां भवेद्यथा ॥' इति । मिथुनानीते विरहासहत्त्वं व्यक्तम् ।

प्रथमं जवनिकान्तरम् १५ अवमणिदजच्चसुवण्णवण्ण सव्वंगसुंदरतररमणिज्ज, सुहाअ दे भोदु सुरहिसमारंभो । इध हि,— पंडीणं गंडवालीपुलभणचयला कंचिवालावलाणं माणं दोखंडअंता रइरहसअरा चोलसीमंतिणीणं । कण्णाडीणं कुणंता कुरलतरलणं कुंतलीणं पिएसुं गुंफंता नेहगंठिं मलअसिहिरिणो सीअला एंति वादा ॥ १५॥ जयेति । जय जय पूर्वदिङ्गनाभुजङ्ग चम्पारम्पकवर्णपूर लीलानिर्जितराढदेश विक्रमाक्रा- न्तकामरूप हरिकेलीकेलिद्वारक अपमानितजात्यसुवर्णवर्ण सर्वाङ्गसुन्दरतररमणीय, सुखाय ते भवतु सुरभिसमारम्भ । भुजंगः कामुकः । 'राढागाटत्व' 'चङ्गत्व' इति वा पाठः । 'अवमानितकर्णसुव- र्णदान' इति वा पाठ । राज्ञः सर्वाः संबुद्धयः । चम्पाराढाकामरूपहरिकेल्पाख्या देशाः । कामस्य रूपमिति न व्याख्या । प्रक्रमभङ्गापत्तेः । चङ्गत्वं नानाकलाकौश- लस्यम् । आद्ययोः संबुद्धयो रूपत्वम् । हरिकेली कामिनीविशेषैश्वर्येऽप । सुरभिर्वसन्तः । इह हि,— पाण्डीनां गण्डपालीपुलकनचपलाः काञ्चीबालाक्लीनां मानं द्विः खण्डयन्तो रभिरभसकरा चोलसीमन्तिनीनाम् । कर्णाटीनां कुर्वन्तो कुन्तलतरलनं कुन्तलीनां प्रियेपु गुम्फन्तः स्नेहग्रन्थिं मलयशिखरिणः शीतला यान्ति वाताः ॥ पाण्ड्यादयस्तत्तद्देशोद्भवाः स्त्रियः । पुलकनं पुलककरणम् । तरलनं तरलवत्त्व- करणम् । एतेन कामोद्दीपकत्वमुक्तं दाक्षिणात्यवायूनाम् । एतेन तत्तद्देशाधिपत्यं राज्ञो व्यङ्ग्यम् । अन्यथा विपक्षदेशवर्गीनं रोषावहत्वादनौचितीमेव व्रजेत् । णेहेति 'स्नेहेति वा' इत्यनेन विप्रकर्षाभावपक्षे 'उपरि लोपः-' इत्यनेन सलोपः । लक्ष्यवशा- द्दङ्गप्रवृत्तेरङ्गीकारात्, परम्पर 'अथो मनश्चाम्' इति प्राप्तं नलोपं बाधित्व्वा 'न्हह्म- ह्णण्ह्णां प्हुः' इति ण्हादेशः । 'द्वेदों' इति द्विशब्दस्य दोआदेशः । अत्र कारक- हेत्वलंकारः । 'हेतुश्च सूक्ष्मोलेशौ च वाचामुत्तमभूषणम् । कारकश्रापको हेतू तौ स्यामेकविधौ यथा ॥' ( का. २।२१५) इति दण्डिनोक्तत्वात् ।

१६ कर्पूरमञ्जरी ( अत्रैव । ) द्वितीयः— जाअं कुंकुमपंकलीढमरढीगंडप्पहं चंपअं थोआवट्टिअदुद्धमुद्धकुसुमा पंफुल्लिआ मल्लिआ । मूले सामलमग्गलग्गभसलं लक्खिज्जए किंसुअं पिज्जंतं भसलेहि दोसु वि दिसाभाएसु लग्गेहि च ॥ १६ ॥ राजा—पिए विब्भमलेहे ! एक्को अहं वद्धावओ तुज्झ, का तुमं पि वद्धाविआ मज्झ । किं उण दुवे वि अम्हे वद्धाविदा फंचणचंडरदण- चंडेहिं बंदीहिं ? ता विब्भमप्पअट्टावअं तरट्टीणं, णट्टावअं मलयमारुदं- दोलिदलदाणच्चणीणं, चारुप्पवंचिदपंचमं कलकंठिकंठेसुं, कंद- लिदकंदप्पकोअंडदंडाखंडिदकंडचंडिमं, सिणिद्धबंधवं वसुंधरापुरंधीए पसारिदपसप्पमाणेहिं अच्छीहिं महूसवं जधिच्छं पेक्खदु देवी । जादं इति । जातं कुङ्कुमपङ्कलीढमहाराष्ट्रीगण्डप्रभं चम्पकं स्तोकावर्तितदुग्धमुग्धकुसुमा प्रोत्फुल्लिता मल्लिका । मूले श्यामलप्रमग्नभ्रमरं लक्ष्यते किंशुकं पीयमानं मधुपाभ्यां द्वाभ्यामपि दिशाभागेषु लग्नाभ्यामिव ॥ मरढी इति देश्यादिः । थो इति 'स्तम्य थः' इति थः । स्तोकपदमत्यन्तसादृश्यार्थम् । मुग्धा सुन्दरी । 'मुग्धः सुन्दरमूढयोः' इत्यभिधानात् । 'महाराष्ट्री'पदं गौरत्वातिश- यकथनार्थम्; स्वभावतस्तद्गुण्डानां गौरत्वात् । भसलो भ्रमरः । अत्र रूपकस्वभा- वोक्त्युत्प्रेक्षाः । स्वभावोक्तिर्दण्डिनोक्ता (का. २।८)—'नानावस्थं पदार्थानां रूपं साक्षाद्विवृण्वती । स्वभावोक्तिश्च जातिश्चेत्याद्या मार्गेऽनिर्णया ॥' इति । राजा— प्रिये विभ्रमलेखे ! एकोऽहं वर्धापकस्तव, एका त्वं वर्धापिका मम । किं पुनर्द्वावप्यावां वर्धापितौ काञ्चनचण्डरत्नचण्डाभ्यां वन्दिभ्याम् ? तद्विभ्रमप्रवर्तकं तरुणीनाम्, नर्तकं मलयमारुतान्दोलितलता नर्तकीनाम्, चारुप्रपञ्चितपञ्चमं कलक- ण्ठीकण्ठेषु, कन्दलितकन्दर्पकोदण्डदण्डखण्डितचण्डिमानम्, स्निग्धबान्धवं वसुं- धरापुरन्ध्रयाः । प्रसारितप्रभाणे अक्षिणी महूत्सवं यथेच्छं प्रेक्षतां देवी ।

प्रथम जवनिकान्तरम् १७ देवी—जधा णिवेदिवं वदीहिं । पअट्टा जेव मलआणिला । तथा अ,— लंकातोरणमालिआतरलिणो कुंभुब्भवस्सासमे मदंदोलिअचंदणद्रुमलदाकप्पूरसंपक्किणो । कक्केल्लीफुलकंपिणो फणिलद्वानिप्पट्ठणट्ठावआ चंडं चुंबिवतग्गपणिणसलि ला याअंति चेत्ताणिला ॥ ३७ ॥ वर्धापन वर्णनम् । विभ्रमेत्यादि मधुवासरविशेषणानि । तरङ्गीति दंतुरित्वात् । षष्ठावर्त्त इति यवोडनुसारेण । तारुण्यं हि विभ्रमनिदानम् । अथवा यथायं कामिनीना विभ्रमजनकस्तथा वसन्तोत्सवोऽपि । कामुकान्दि विलोक्य कामिन्यो विभ्रमसमुद्गमा भवन्ति । अर्थत उपमानम् । तेन विभचित्वं न दोष । एतेन भ्वस्य कामुकता व्यङ्ग्या । 'क्रोध स्मित च कुसुमभरणादियाच्ञा तद्वर्जनं च सहसैव विमण्डनं च । आक्षिप्य कान्तवचनं लयन सखीभिर्निष्कारणस्थितगतेन स विभ्रम स्यात् ॥' इति विभ्रमलक्षणम् । 'तल्लास्यं ताण्डवं चैव छलितं शम्बया सह । हल्लीशकञ्च रासञ्च पदप्रसार प्रचक्षते ॥' इति पद्भेदमपि नृत्यं गुह्यते । पञ्चम स्वर । कलकण्ठी कोकिला । चारित्यादौ विशेषणद्वय बहुव्रीहि । विलासैत्यादिना विस्तारिताख्यो दृग्विचार उक्त । तदुक्तम्—'आयत त्रिस्फुरत्तार विस्फारितमुदा- हृतम् ।' इति । एतेनादरातिशयो व्यङ्ग्य । अत्र हेतुद्रूपके । नर्त्तकन्त्यादौ समाधि । 'अन्यधर्मस्ततोऽन्यत्र लाक्षीमानुरोधिन । सम्यगाधीयते यत्र स समाधि स्मृतो यथा ॥' (का १।९३) इति दण्डी । देवी— यथा किल निवेदितं वन्दिभ्याम् । सत्यमेवोक्तमित्यर्थ । प्रवृत्ता एव मल्यानिला । तथा च,— लङ्कातोरणमालिकातरङ्गिन कुम्भोद्भवश्वाश्रमे मन्दान्दोलितचन्दनद्रुमलतोकर्पूरसंसर्किण । वङ्कोलीफुलकम्पिन फणिवल्लिनिष्टनटावका शण्टे चुम्बितवाग्रपर्णीसरिला पान्ति चैत्रानिला ॥ क० म० २

१८ कर्पूरमञ्जरी अवि अ,— माणं मुंचध देह वल्लहजणे दिट्ठिं तरंगुत्तरं तारुण्णं दिअहाइ पंच दह वा पीणत्थणुत्थंभणं । इत्थं कोइलमंजुसिंजिदमिला देवस्स पंचेसुणो दिण्णा चेत्तमहूसवेण सहसा आण घ सव्वंकसा ॥ १८ ॥ विदूषकः—भो, तुम्हाणं रण्णाणं मज्झे अहं एक्को कालक्खरिओ । जस्स मे ससुरासुरो परघरेसु पोत्थजभारं वहंतो आसि । कङ्कोली वृक्षविशेषः । फणिलताः फणिपा लताः । लताविशेषा (ताम्बूल- वल्ल्यः) वा । निष्पटं निःशेषं नितरां वा । महाराष्ट्रभाषायाम् 'निप्पट' इति प्रसि- द्धम् । एतेन मान्यादिकमुक्तं प्रायोः । अत्र प्रसादमाधुर्यसौकुमार्यार्थव्यक्तय ष्टाः । ते यथा कण्ठाभरणे (१।६६)—'प्रसिद्धार्थपदत्वं यत्स प्रसादोऽभि- धीयते । या पृथक्पदता वाक्ये तन्माधुर्यमिति स्मृतम् ॥ अनिष्ठुराक्षरप्रायं सुकु- मारमिति स्मृतम् । यत्र संपूर्णवाक्यस्यमर्थव्यक्तिं वदन्ति ताम् ॥' इति । एव- मपरेऽपि गुणा द्रष्टव्याः । अत्रानुप्राससमाप्त्यर्थश्लेषाः । अपि च,— मानं मुञ्चत दत्त वल्लभजने दृष्टिं तरङ्गोत्तरां तारुण्यं दिवसानि पञ्च दश वा पीनस्तनोत्तम्भनम् । इत्थं कोकिलमञ्जुसिञ्जनमिषाद्देवस्य पञ्चेषो- र्दत्ता चैत्रमहोत्सवेन भुवने आज्ञेय सर्वंकषा ॥ मानलक्षणं (शं. ति २।३२)—'स मानो नायिका यस्मिन्नीर्ष्यया नायकं प्रति । धत्ते विकारमन्यस्त्रीसङ्गदोषवशत्तथा ॥' इति । तरङ्गितेति तदादयो दृग्विषार उक्तः । 'कलोला इव यत्क्रान्तिविच्छेर्दैस्तारजितम् ।' इति तत्लक्षणम् । चैत्रे मथूत्स- वश्चैत्रमधूत्सवः । सर्वंकषेति तत्र कामुकहितत्वं व्याख्यातम् । अत्र विप्रलम्भ- शृङ्गारः । कोकिलरवादयो विभावाः । दृग्विकरादयोऽनुभावा द्रष्टव्याः । निर्वेदादयो व्यभिचारिणश्च । विदूषकः— भोः, युष्माकं राज्ञां मध्येऽहमेकः कालशरिकः । यस्य मे श्वशुरश्वशुरः पण्डितगृहे पुस्तकभारं वहन्नासीत् । 1 'पंडिअपरे' इति टीकापाठः ।

प्रथमं जवनिकान्तरम् १९ चेटी—(विहस्य ।) तदो कमागदं ते पंडिच्चं । विदूषकः—(सक्रोधम् ।) आः दासीए धूदे, भविस्सकुट्टिणि, णिल्ल- क्खणे, विअक्खणे ! ईदिसोऽहं मुक्खो जो तए वि उवहसीआमि ! अण्णं च, हे परपुत्तविट्टाळिणि, भमरटेंटे, टेंटाकराले, तुट्टिसंघडिदे । परंपरा पंडिच्चस्स मह कि दूषणं आसि । पेक्ख अकाळजलदवंससंभू- दाण परंपराए पंडिच्चं । अथवा हत्थे कंकणं कि दप्पणेण ? विचक्षणा—(विभाव्य ।) एवं णेदं, तुरंगम्म सिग्घत्तणे किं सक्खिओ पुच्छिज्जंति ? ता वण्णअ वसंतं । कालाक्षराणि वेत्तीति कालाक्षरिक पण्डित । चेटी— तत क्रमागतं ते पाण्डित्यम् । वंशक्रमागतमित्यर्थः । विदूषकः— आ दास्याःपुत्रि, भविष्यत्कुट्टिनि, निर्लक्षणे, अविचक्षणे ! ईदृशोऽहं मूर्खो यस्त्वयाप्युपहस्ये ? प्राकृत आत्मनेपदपरस्मैपदव्यत्ययः । 'धूदे' इति दंष्ट्रादि । अन्यच्च हे परपुत्रविटालिनि भ्रमरटण्टे टेण्टाकराले दुष्टसंघटिते । अथवा हस्ते कङ्कणं किं दर्पणेन ? इदानीमेव मया कवित्वं कर्तव्यमित्यर्थः । विट्टालिनी भ्रंशिका । परपुरुषलम्पटे- त्यर्थः । भ्रमरटेंटा कुचेष्टावती । टेंन्टाकराला व्यर्थप्रलापिनी । एते देशीशब्दाः । दोषा शपथास्तेषा शतेन वर्तनशीला, मिथ्याशपथकारिणीत्यर्थः । विचक्षणा— एवमेतत् । तुरंगस्य शीघ्रत्वे किं साक्षिणः पृच्छयन्ते ? तद्वर्णय वसन्तम् ।

२० कर्पूरमञ्जरी : विदूषकः—कथं पंजरगदा सारि व कुरुकुराअंती चिट्ठसि ! ण किं पि जाणासि । ता पिअवअस्सस्स देवी पुरदो पढिस्सं । जदो ण कत्थूरिआ कुग्गामे वणे वा विक्कीणीअदि, णेंदं सुवण्णं कसवट्टिअं विणा कसीअदि । राजा—पिअवअस्स ! ता पढ । सुणीअदु । ( विदूषकः पठति । ) फुल्लुत्करं कलमकूरसमं वहंति जे सिंधुवारविड़वा मह वल्लहा ते । जे गालिअस्स महिसिदहिणो सरिच्छा ते किं च मुद्धविअहच्छपसूनपुंजा ॥ १९ ॥ विदूषकः— त्वं पुनः पञ्जरगता सारिकेव कुरकुरायमाणा तिष्ठसि ! न किमपि जानासि । तत्प्रियवयस्यस्य देव्याः पुरतः पठिष्यामि । यतो न कस्तूरिका कुग्रामे वने वा विक्रीयते, न सुवर्णं कषपट्टिकां विना कष्यते । ईदृशविद्याग्रहणायोग्याया अज्ञायास्तव सन्निधौ न पठिष्यामीति भावः । राजा— प्रियवयस्य ! तत्पठ । श्रूयताम् । अस्माभिरिति शेषः । फुल्ल इति । पुष्पोत्करं कलमकूरसमं वहन्ति ये सिन्धुवारविटपा मम वल्लभास्ते । ये गालितस्य महिषीदध्नः सदृशा- स्ते किं च मुग्धविकचच्छदप्रसूनपुञ्जाः ॥ कूर ओदनः । सिन्धुवारस्तरुभेदः । 'मम वल्लभा' इत्यनेन स्वस्य कूरभक्ष- णुकत्वं व्यज्यते ।

प्रथमं जवनिकान्तरम् २१ विचक्षणा—(विहस्य) णिअकतारणजोगं ते वअणं । विदूषकः—किं¹पि उदारवअणा तुमं पढ । देवी—(किंचिद्धसिअ ।) सहि विअक्खणे ! अम्हाण पुरदो तुव गाढकइत्तेण गहुत्ताणा भोसि । ता पढ संपदं अज्जउत्तस्स पुरदो सअ कदं किंपि कअं । जदो तं कअं जं सभाए पढीअदि, तं सुवण्णं जं कसवट्टिआए णिव्वडदि, सा घरिणी जा पदं रंजेदि, सो पुत्तो जो कुलं उज्जलदि । विचक्षणा—जं देवी आणवेदि । (इति पठति ।) जे लङ्कागिरिमेवलाहिं स्खलिदा संभोअखिण्णोरई फारप्फुल्लफणावलीकवलणे पत्ता दरिद्दत्तणं ।

विचक्षणा— निजकर्तारणयोग्यं ते वचनम् । स्वबुद्धिमेव केवलमाश्रित्य रचयसीति भावः । विदूषकः— तदुदारवचने ! त्वं पठ । देवी— सखि विचक्षणे ! अस्माकं पुरतस्त्वं गाढकवित्वेन गर्वोत्ताना भवसि । अतिगर्वाऽसि इति भावः । तत्पठ साप्रतमार्थपुत्रस्य पुरतः स्वयं कृतं किमपि काव्यम् । यतस्तत्काव्यं यत्सभार्यां पठ्यते तत्सुवर्णं यत्कषपट्टिकायां निवर्तते, सा गृहिणी या पतिं रञ्- यति स पुत्रो यः कुलमुज्ज्वलयति । 'सर्वस्त्रीभिः पतिर्वाच्य आर्यपुत्रेति यौवने' इत्युक्तेरार्यपुत्रप्रयोगयुक्तम् । विचक्षणा— यद्देव्याज्ञापयति । जे इति । ये लङ्कागिरिमेखलायां स्खलिताः सम्भोगखिन्नोरगी- स्फारोत्फुल्लफणावलीकवलने प्राप्ता दरिद्रत्वम् ।

१ ता उदारवअणे इति टीकाहृतः पाठः ।

ते एण्णिह मलआणिला विरहिणीणीसाससंपकिणो जादा झत्ति सिसुत्तणे वि बहला तारुण्णपुण्णा विअ ॥ २० ॥ राजा—सच्चं विअक्खणा विअक्खणा चउरत्तणे उत्तीणं । ता किंपि अण्णं विचित्तदाए । कईणं सुकइत्ति । कइचूडामणित्तणे ठिदा एसा । विदूषकः—(सक्रोधम् ।) ता उज्जुअं जेव किं ण भण्णइ अत्थु- त्तमा विअक्खणा कव्वम्मि, अञ्चाधमो कप्पिंजलो बंभणो त्ति ? विचक्षणा—अज्ज ! मा कुप्प । कव्वं जेव्व दे कइत्तणं पिसुणेदि । जदो णिअकंतारत्तणणिदणिज्जे वि अत्थे सुडमरा दे वाणी, लंबत्थ-

त इदानीं मलयानिला विरहिणीनिःश्वाससंपर्किणो जाता झटिति शिशुत्वेऽपि बहुलास्तारुण्यपूर्णा इव ॥ अयं श्लोकः कविनिबद्धवक्तृप्रौढोक्तिनिर्मिते ध्वनौ निःश्वाससंपर्किश्वेन वस्तुना प्रातंभर्या. किंकिं न कुर्यत इति वस्तु व्यज्यत इत्युदाहरणपरत्वेनोदाहृतः काव्य- प्रकाशे [चतुर्थोल्लासे] । सत्ता अत्युत्प्रेक्षाया ध्यञ्नेऽकिंचित्करत्वान्नालंकारव्यञ्जनोदा- हरणम्। अत्र हेतूत्प्रेक्षासमाधिर्विभावना । विभावना दण्डिनोक्ता—(का. २।१९९) ‘प्रसिद्धहेतुव्यावृत्त्या यत्किञ्चित्कारणान्तरम् । यत्र स्वाभाविकत्वं वा विभाव्यं सा विभावना ॥’ इति । राजा— सत्यं विचक्षणा विचक्षणा चतुरत्वेनोत्तीर्णाम् । तदितरन्यत् । कविनामपि कत्थे । कविचूडामनित्वेन स्थिताषा । विदूषकः— तदृज्वेव किं न भम्यतं दय्या-अत्युत्तमा विचक्षणा काव्ये, अत्यधमः कपि- जलब्राह्मण इति ? विचक्षणा— आर्य ! मा कुप्य । काव्यमेव ते कवित्वं पिशुनयति । यतो निजकान्तारपनयोग्यं 1 'कञ्चंअदि देवेई' इति टीकापाठः । 2 'णिच्छुकान्तरज्नयोग्यं निर्धोइरभरेण' इति टीकापाठः ।

प्रथमं जवनिकान्तरम् २३ णीए विअ एकावली तुंडिलाए विअ कंचुलिआ, काणाए विअ कज्ज- लसलाआ, ण सुट्ठुदरं भादि रमणिज्जा । विदूषकः-तुम्झ उण रमणिज्जे वि अत्थे ण सुंदरा सद्दावली । कणअकडिसुत्तए विअ लोहकिंकिणीमाला, पडिपट्टे विअ टसरिविरअणा गोरंगीए विअ चंदणचच्चा ण चारुत्तणं अवलंबेदि । तथा वि तुवं वण्णीअसि । विचक्षणा-अज्जे ! का तुम्हेहि समं अम्हाणं पाडिसिद्धी ? जदो तुवं णाराओ विअ णिरक्खरो वि रअणतुलाए णिउंजीअसि । अहं पुण तुल ध लद्धक्खरा वि ण सुवण्णतोलणे विणिउंजीआमि । निजोदरंभरित्वे निन्दनीयेऽप्यर्थे सुकुमारा ते वाणी, लम्बस्तन्या इवैकावली, तुन्दि- लाया इव कञ्चुलिका, काणाया इव कज्जलशलाका, न सुष्ठुतर भाति रमणीया । ते वाणी न भातीत्यर्थः । विदूषकः- तव पुन रमणीयेऽप्यर्थे न सुन्दरा शब्दावली । कनककटिसूत्रे इव लोहकिं- किणीमाला, प्रतिपट्टे इव त्रसरविरचना गौराङ्ग्या इव चन्दनचर्चा, न चारुत्वमव- लम्बते । तथापि त्वं वर्ण्यसे । प्रतिपट्टे पट्टसूक्ष्मम् । चन्दनचर्चाया स्वतः सुन्दरत्वेऽपि गौरेऽङ्गे परभागा- लाभादसौन्दर्यम् । अर्थासुन्दरत्वेऽपि काव्यकौशलादहं सुकवि , त्वमर्थसौन्दर्येऽप्य- सुन्दरकवित्वे वर्ण्यसे च सर्वैरिति महदाश्चर्यमिति भावः । विचक्षणा- आर्य ! मा कुप्य । का युष्माभि सह (अस्माकं) प्रतिस्पर्धा २ यतस्त्वं नाराच इव निरक्षरोऽपि रत्नतुलायां नियुज्यसे । अहं पुनस्तुल्य लब्धाक्षरापि न सुवर्णतोलने विनियुज्ये । नाराचो लोहशलाका । नाराचस्य हि रत्नतुलावेधनमुपयोग । तुलायान्तु सुवर्णतोलने न कोऽपीति निरक्षरलब्धाक्षरपदयोस्तात्पर्यम् । १ 'अज्ज ! मा कुप्प । का' इति टीकापाठः ।

२४ कर्पूरमञ्जरी विदूषकः—एवं मह भणंतीए तुह वामं दक्खिणं अ जुहिट्ठिल- जेट्ठभाअरनामधेअं अंगं तडत्ति उप्पाडइस्सं । विचक्षणा—अहं पि उत्तरफग्गुणीपुरस्सरणक्खत्तनामधेअं अंगं तुह तडत्ति खंडिस्सं । राजा—वअस्स ! मा एवं भण । कइत्तणे ट्ठिदा एसा । विदूषकः—(सक्रोधम् ।) ता उज्जुअं ज्जेव किं ण भण्णइ, अम्हाणं चेडिआ हेरिडंभुंणिडिउंबुप्पोट्टिसहालप्पहुदीणं पि पुरदो सुकइ त्ति ! राजा—एवं णेदं । (विदूषकः सक्रोधं परिक्रामति ।) विचक्षणा—(विहस्य) तहिं गच्छ जहिं मे मादाए पढमसाडो- लिआ गदा । विदूषकः— एवं मम भणन्त्यास्तव वामे दक्षिणं च युधिष्ठिरज्येष्ठभ्रातृनामधेयमङ्गं झटिति उत्पाटयिष्यामि । कर्णद्वयमित्यर्थः । भादर इति 'अंते भरः सुपि' (प्रा. ७।९) इत्यारादेशं बाधित्वा 'पितृभ्रातृजामातृणामरः' (प्रा. ५।१३) इत्यरः । विचक्षणा— अहमप्युत्तराफाल्गुनीपुरःसरनक्षत्रनामधेयमङ्गं तव झटिति खण्डयिष्यामि हस्ताभिधमित्यर्थः । राजा— वयस्य ! मैवं भण । कवित्वे स्थितेषा । विदूषकः— ऋज्वैव मयि किं न भण्यते, अस्माकं चेटिका हरिचन्दनन्दिचन्द्रकोट्टिशहालप्रभृ- तीनामपि पुरतः सुकविरिति ? पराभवन्तु (?) मिति शेषः । राजा—एवमेतत् । विचक्षणा— तत्र गच्छ यत्र मे प्रथमा मातुः शाटिका गता । 1 'हरिचंदणंदिचंदकोट्टिमहा' इति टीकापाठः ।

प्रथमं जवनिकान्तरम् २५ • विदूषकः— ( यतितग्रीवम् । ) तुवं उण तहि गच्छ जहिं मे मादाए पढमा दंतावली गदा । ईदिसस्स राउलस्स भद्दं भोदु, जहि चेडिआ बंभणेण समं समसीसिआए दीसदि । मइरा पंचगव्वं च एक्कम्हि भंडे कीरदि, फत्थं माणिकं च समं आहरणे पउंजीअदि । चेटी— इह राउले तं ते भोदु कंठट्ठिदं ज भवअं तिलोअणो सीसे समुव्वहदि । तेणं च दे मुहं चूरीअदु जेण असोअतरु दोहलं लहेदि । विदूषकः— त्वं पुनस्तत्र गच्छ यत्र मे मातुः प्रथमा दन्तावली गता । कर्णकीटिरित्यर्थः । ईंदिसस्स इति । ईदृशस्य राजकुलस्य भद्रं भवतु, यत्र चेटिका ब्राह्मणेन समं समशीर्षिकया दृश्यते । समशीर्षिका प्रतिस्पर्द्धा । मइरा इति । मदिरा पञ्चगव्यं चैकस्मिन्भाण्डे क्रियते, काचं माणिक्यं च सममाभरणे प्रयुज्यते । विचक्षणा— इह राजकुले तत्ते भवतु कण्ठस्थितं यद्भगवांस्त्रिलोचनः शीर्षे समुद्वहति । अर्धचन्द्र इत्यर्थः । तेणं इति । तेन च ते मुखं चूर्यतां येनाशोकतरोर्दोहदं लभते । पादन्यासेनेत्यर्थः । 'पादहताः प्रमदया विकसन्त्यशोकाः' इति प्रसिद्धिः ।