कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 31, कुल 172 में से
संदर्भ में पढ़ें१८ कर्पूरमञ्जरी अवि अ,— माणं मुंचध देह वल्लहजणे दिट्ठिं तरंगुत्तरं तारुण्णं दिअहाइ पंच दह वा पीणत्थणुत्थंभणं । इत्थं कोइलमंजुसिंजिदमिला देवस्स पंचेसुणो दिण्णा चेत्तमहूसवेण सहसा आण घ सव्वंकसा ॥ १८ ॥ विदूषकः—भो, तुम्हाणं रण्णाणं मज्झे अहं एक्को कालक्खरिओ । जस्स मे ससुरासुरो परघरेसु पोत्थजभारं वहंतो आसि । कङ्कोली वृक्षविशेषः । फणिलताः फणिपा लताः । लताविशेषा (ताम्बूल- वल्ल्यः) वा । निष्पटं निःशेषं नितरां वा । महाराष्ट्रभाषायाम् 'निप्पट' इति प्रसि- द्धम् । एतेन मान्यादिकमुक्तं प्रायोः । अत्र प्रसादमाधुर्यसौकुमार्यार्थव्यक्तय ष्टाः । ते यथा कण्ठाभरणे (१।६६)—'प्रसिद्धार्थपदत्वं यत्स प्रसादोऽभि- धीयते । या पृथक्पदता वाक्ये तन्माधुर्यमिति स्मृतम् ॥ अनिष्ठुराक्षरप्रायं सुकु- मारमिति स्मृतम् । यत्र संपूर्णवाक्यस्यमर्थव्यक्तिं वदन्ति ताम् ॥' इति । एव- मपरेऽपि गुणा द्रष्टव्याः । अत्रानुप्राससमाप्त्यर्थश्लेषाः । अपि च,— मानं मुञ्चत दत्त वल्लभजने दृष्टिं तरङ्गोत्तरां तारुण्यं दिवसानि पञ्च दश वा पीनस्तनोत्तम्भनम् । इत्थं कोकिलमञ्जुसिञ्जनमिषाद्देवस्य पञ्चेषो- र्दत्ता चैत्रमहोत्सवेन भुवने आज्ञेय सर्वंकषा ॥ मानलक्षणं (शं. ति २।३२)—'स मानो नायिका यस्मिन्नीर्ष्यया नायकं प्रति । धत्ते विकारमन्यस्त्रीसङ्गदोषवशत्तथा ॥' इति । तरङ्गितेति तदादयो दृग्विषार उक्तः । 'कलोला इव यत्क्रान्तिविच्छेर्दैस्तारजितम् ।' इति तत्लक्षणम् । चैत्रे मथूत्स- वश्चैत्रमधूत्सवः । सर्वंकषेति तत्र कामुकहितत्वं व्याख्यातम् । अत्र विप्रलम्भ- शृङ्गारः । कोकिलरवादयो विभावाः । दृग्विकरादयोऽनुभावा द्रष्टव्याः । निर्वेदादयो व्यभिचारिणश्च । विदूषकः— भोः, युष्माकं राज्ञां मध्येऽहमेकः कालशरिकः । यस्य मे श्वशुरश्वशुरः पण्डितगृहे पुस्तकभारं वहन्नासीत् । 1 'पंडिअपरे' इति टीकापाठः ।