कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 36, कुल 172 में से
संदर्भ में पढ़ेंप्रथमं जवनिकान्तरम् २३ णीए विअ एकावली तुंडिलाए विअ कंचुलिआ, काणाए विअ कज्ज- लसलाआ, ण सुट्ठुदरं भादि रमणिज्जा । विदूषकः-तुम्झ उण रमणिज्जे वि अत्थे ण सुंदरा सद्दावली । कणअकडिसुत्तए विअ लोहकिंकिणीमाला, पडिपट्टे विअ टसरिविरअणा गोरंगीए विअ चंदणचच्चा ण चारुत्तणं अवलंबेदि । तथा वि तुवं वण्णीअसि । विचक्षणा-अज्जे ! का तुम्हेहि समं अम्हाणं पाडिसिद्धी ? जदो तुवं णाराओ विअ णिरक्खरो वि रअणतुलाए णिउंजीअसि । अहं पुण तुल ध लद्धक्खरा वि ण सुवण्णतोलणे विणिउंजीआमि । निजोदरंभरित्वे निन्दनीयेऽप्यर्थे सुकुमारा ते वाणी, लम्बस्तन्या इवैकावली, तुन्दि- लाया इव कञ्चुलिका, काणाया इव कज्जलशलाका, न सुष्ठुतर भाति रमणीया । ते वाणी न भातीत्यर्थः । विदूषकः- तव पुन रमणीयेऽप्यर्थे न सुन्दरा शब्दावली । कनककटिसूत्रे इव लोहकिं- किणीमाला, प्रतिपट्टे इव त्रसरविरचना गौराङ्ग्या इव चन्दनचर्चा, न चारुत्वमव- लम्बते । तथापि त्वं वर्ण्यसे । प्रतिपट्टे पट्टसूक्ष्मम् । चन्दनचर्चाया स्वतः सुन्दरत्वेऽपि गौरेऽङ्गे परभागा- लाभादसौन्दर्यम् । अर्थासुन्दरत्वेऽपि काव्यकौशलादहं सुकवि , त्वमर्थसौन्दर्येऽप्य- सुन्दरकवित्वे वर्ण्यसे च सर्वैरिति महदाश्चर्यमिति भावः । विचक्षणा- आर्य ! मा कुप्य । का युष्माभि सह (अस्माकं) प्रतिस्पर्धा २ यतस्त्वं नाराच इव निरक्षरोऽपि रत्नतुलायां नियुज्यसे । अहं पुनस्तुल्य लब्धाक्षरापि न सुवर्णतोलने विनियुज्ये । नाराचो लोहशलाका । नाराचस्य हि रत्नतुलावेधनमुपयोग । तुलायान्तु सुवर्णतोलने न कोऽपीति निरक्षरलब्धाक्षरपदयोस्तात्पर्यम् । १ 'अज्ज ! मा कुप्प । का' इति टीकापाठः ।