कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
२६ कर्पूरमञ्जरी विदूषकः—आ, दासीए पुत्ति! टेटाकराले, कोससदचट्टाणि, रच्छा- लोट्टणि! एवं मं भणसि! ता मह महाबंभणस्स वअणेण तं तुमं लह जं फग्गुणसमए सोहंजणो दोहलं लहेदि। जं च पामराहितो गलि- बइल्लो लहेदि। विचक्षणा—अहं पुण तुह एवं भणंतस्स णेउरस्स विअ पाअल- भग्गस्स पाएण मुहं चूरइस्सं। अण्णं च, उत्तरासाढापुरस्सरणणक्खत्तणा- मधेअं अंगुजुअलं उप्पाडिअ घलिस्सं। (विदूषकः सरोधं परिक्रामति) (जवनिकान्तरे धिंचिदुमं ।) ईरिसं राउलं दूरेण वंदीअदि जहिं दासी बंभणेण समं पाडिसिद्धिं करेदि। ता अज्जप्पहुदि णिअयसुं- धराअंभणीए चलणसुस्सूसओ भविअ गेहं ज्जेव चिट्ठिस्सं। (सर्वे हसन्ति।)
विदूषकः— 'आ दासीए' इत्यादि व्याख्यातम् (पृ० १९)। एव्वं इति। एवं मां भणसि? तन्मम महाब्राह्मणस्य वचनेन तत्त्वं लभस्व यत्फाल्गुनसमये शोभाञ्जनो दोहदं लभते। यत्पामरेभ्यो बलीवर्दं लभते। फाल्गुनसमय इति धूलीप्रक्षेपादिकम्। बलीवर्द इति नासाच्छेदनादिरर्थः। विचक्षणा— अहं पुनस्त्वयैवं भणतो नूपुरस्येव पादलग्नस्य पादेन मुखं चूर्णयिष्यामि। नूपुरदृष्टान्तेन व्यर्थप्रलापित्वमस्योक्तम्। अण्णं च इति। अन्यच्च, उत्तराषाढापुरःगमननक्षत्रनामधेयमङ्गद्वन्द्वमुत्पाट्य क्षेप्स्यामि। श्रवणसंज्ञकमित्यर्थः। 'घरिस्सं' इति देशी। 'अन्यच्च ते पवननिष्क्रमणगोलक- मार्गविवरणानन्तरं शब्दयित्वा क्षेप्स्यामि' इति क्वचित् पाठः। जवनिकान्तर इति। 'अपटी काण्डपटिका प्रतिसीरा जवनिका तिरस्करिणी' इति शब्दार्णवम्। ईरिसं इति।
प्रथमं जवनिकान्तरम् २७ देवी—कीदिसी अज्जकविंजलेण विणा गोट्ठी, कीदिसी उण णअणंजणेण विणा पसाहणालच्छी । ( नेपथ्ये । ) ण हु ण हु आगमिस्सं । अण्णो को वि पिअवअस्सो अण्णेसी- अदु । अहवा एसा दुट्ठदासी लंबकुच्चं टप्परकण्णं पडिसीसअं देइअ मह ट्ठाणे उवहसणत्थं कीरदु । अहं एको मुदो तुम्हाणं सव्वाणं मज्झम्मि । तुम्हे उण वरिससअं जीवध । विचक्षणा—मा अणुसंधेध । अणूणअक्ककसो खु कविंजलो बंभणो सलिलसित्तो विअ सणगुणगंठी दिढं गाढदरो भोदि । णं दंसणीअं दीसदु । ईदृशं राजकुलं दूरे वन्द्यता यत्र दासी ब्राह्मणेन समं प्रतिस्पर्धां करोति । तदद्यप्रभृति निजगेहिन्या वसुंधरानामधेयाया ब्राह्मण्याश्चरणशुश्रूषुभूत्वा गेह एव स्थास्यामि । देवी— आर्यपुत्र ! कीदृशी आर्यकपिञ्जलेन बिना गोष्ठी, कीदृशी पुनर्नयनाञ्जनेन विना प्रसाधनलक्ष्मीः । ण इति । न खलु न खल्वागमिष्यामि । अन्यः कोऽपि प्रियवयस्योऽन्विष्यताम् । अथ- वैषा दुष्टदासी लम्बकुर्चा टप्परकर्णा प्रतिशीर्षकं दत्त्वा मम स्थाने उपहसनार्थं क्रियताम् । अहमेको मृतो युष्माकं सर्वेषां मध्ये, यूयं पुनर्वर्षशतं जीवत । टप्परो वंशपात्रम् । 'टोपला' इति भाषायाम् । तद्वत्कर्णौ यस्याः । प्रतिशीर्षक- लक्षणमुक्तम् । मम स्थान इति मदीयो वेषोऽन्यस्मै दातव्य इत्यर्थः । विचक्षणा— माऽनुसंधीत । अनुनयकर्शः खलु कपिञ्जलब्राह्मणः सलिलसिक्त इव शणगुण- ग्रन्थिर्दृढं गाढतरो भवति । ननु दर्शनीयं दृश्यताम् ।
२८ कर्पूरमञ्जरी देवी—( समन्तादवलोक्य । ) गाअंतगोअवहुपअपैखिदासु दोलासु विभमवदीसु ¹णिविट्ठदिट्ठी । जं जादि खंजिदतुरंगरहो दिणेसो तेण घ होंति दिअहा अइदीहदीहा ॥ २१ ॥ ( प्रविश्यापटीक्षेपेण । ) विदूषकः—आसणं आसणं । देवी— गायद्गोपवधूपदप्रेङ्खितासु दोलासु विभ्रमवतीषु निषण्णदृष्टिः । यद्याति खञ्जिततुरङ्गरथो दिनेश- स्तेन भवन्ति दिवसा अतिदीर्घदीर्घाः ॥ पदेधरणं । प्रेङ्खितास्वान्दोलितासु । गोष्ठीभिर्दिनातिदीर्घा दिवसा आलस्यमा- वहन्तीत्यानीयतां कपिञ्जलब्राह्मण इति व्यज्यते, तेन प्रकृतसंगतिः । अत्र हेत्वति- शयोक्तिपर्यायोक्तमुत्प्रेक्षाः । अतिशयोक्तिपर्यायोक्तौ दण्डिमते—(का. २।२१४) ‘विवक्षा या विशेषस्य लोकसीमानिवर्तिनी । असावतिशयोक्तिः स्यादलंकारोत्तमा यथा ॥’ इति । ‘अर्थमिष्टमनाख्याय साक्षात्तस्यैव सिद्धये । यत्प्रकारान्तराख्यानं पर्यायोक्तमिदिष्यते ॥’ (का. २।२९५) इति । प्रविश्येति । अपटी जवनिका । विदूषकः— आसनमासनम् । दीयतामिति शेषः । १ 'निमण्ण' इति टीकानुगुणः पाठः ।
प्रथमं जवनिकान्तरम् २९ राजा—किं तेण ? विदूषकः—भइरवाणंदो दुआरे चिट्ठदि । देवी—किं सो, जो जणवयणादो अञ्चब्भुदसिद्धी सुणीअदि ? विदूषकः—अध इं । राजा—पवेसअ । (विदूषको निष्क्रम्य तेनैव सह प्रविशति ।) भैरवानन्दः—(किञ्चिन्मदमभिनीय ।) मंतो ण तंतो ण अ किं पि जाणे झाणं च णो किं पि गुरुप्पसादा । मज्जं पिवामो महिलं रमामो मोक्खं च जामो कुलमग्गलग्गा ॥ २२ ॥
राजा— किं तेन ? प्रयोजनमिति शेषः । विदूषकः— भैरवानन्दो द्वारे तिष्ठति । देवी— किं सः, यो जनवचनादत्यद्भुतसिद्धिः श्रूयते ? विदूषकः— अथ किम् । राजा— प्रवेशय । मंतो इति । मन्त्रो न तन्त्रं न च किमपि ध्यानं ज्ञानं च नो किमपि गुरुप्रसादात् । मद्यं पिबामो महिलां रमयामो मोक्षं च यामः कुलमार्गसंलग्नाः ॥
३० कर्पूरमञ्जरी अवि अ,— रंडा चंडा दिक्खिदा धम्मदारा मज्जं मंसं पिज्जए खज्जए अ । भिक्खा भोज्जं चम्मखंडं च सेज्जा कोलो धम्मो कस्स णो भादि रम्मो ॥ २३ ॥ किं च,— मुत्तिं भणंति हरिबम्हमुहा वि देवा झाणेण वेअपढणेण कदुकिआहिं । एक्केण केवलमुमाइदएण दिट्ठो मोक्खो समं सुरअकेलिमुगारसेहिं ॥ २४ ॥ राजा—इदं आसणं । उबविसदु भइरवाणंदो । मन्त्रादिलक्षणान्यतिप्रयोजनतया न लिख्यन्ते । अत्र विरोधाभासः । स यथा दण्डिना प्रोक्तः (का. २।१३३)—'विरुद्धानां पदार्थानां यत्र संसर्गदर्शनम् विशेषदर्शनायैव स विरोधः स्मृतो यथा ॥' इति । अवि अ इति । अपि च,— रण्डा चण्डा दीक्षिता धर्मदारा मद्यं मांसं पीयते खाद्यते च । भिक्षा भोज्यं चर्मखण्डं च शय्या कौलो धर्मः कस्य नो भाति रम्यः ॥ किं च इति,— मुक्तिं भणन्ति हरिब्रह्ममुखाऽऽदिदेवा ध्यानेन वेदपठनेन ऋतुक्रियाभिः । एकेन केवलमुमादयितेन दृष्टो मोक्षः समं सुरतकेलिमुगारसैः । हरिब्रह्ममुखाश्च ते आदिदेवाश्चेति विग्रहः । अत्र व्यतिरेकः । राजा— इदमासनम् । उपविशतु भैरवानन्दः ।
प्रथमं जवनिकान्तरम् ३१ भैरवानन्दः—(उपविश्य।) किं कादव्वं ! राजा—कहिं पि विसए अच्छरिअं दट्ठुं इच्छामि । भैरवानन्दः— दंसेमि तं पि ससिणं वसुहावइण्णं थंभेमि तस्स वि रविस्र रहं णहद्धे । आणेमि जक्खसुरसिद्धगणंगणाओ तं णत्थि भूमितलए मह जं ण सज्झं ॥ २५ ॥ ता भण किं कीरदु । भैरवानन्दः— किं कर्तव्यम् ? किमीप्सितं ते मया कर्तव्यमित्यर्थः । राजा— कस्मिन्नपि विषये आश्चर्यं द्रष्टुमिच्छामि । अनेन कारणाख्यमङ्गमुक्तम् । 'प्रकृतार्थस्य चारम्भः कारणं नाम तद्भवेत्।' इत्युक्तत्वात् । भैरवानन्दः— दर्शयामि तमपि शशिनं वसुधावतीर्णं स्तम्भामि तस्यापि रवे रथं नभोऽर्धे । आनयामि यक्षसुरसिद्धगणाङ्गना- स्तन्नास्ति भूमितलये मम यन्न साध्यम् ॥ एतेनावमर्शसन्ध्यङ्गो व्यवसाय उक्तः । तत्रावमर्शलक्षणं दशरूपके ( १।४३)—'क्रोधेनावमृशेद्यत्र व्यसनाद्वापि लोभनात् । 'गर्भेनिर्भिन्नबीजार्थः सोऽवमर्श इति स्मृतः ॥' इति । व्यवसायलक्षणमपि तत्रैव 'व्यवसायः स्वश- क्त्युक्तिः' (१।४७) इति । ता इति । तद्ब्रूहि किं क्रियताम् ।
३४ कर्पूरमञ्जरी विदूषकः— ण्हाणावमुक्काहरणुच्चआए तरंगभंगक्खदमंडणाए । ओल्हंसुउल्लासितणुल्लआए सुंदेरसघवस्समिमीअ दिट्ठी ॥ २८ ॥ नायिका—(सर्वानवलोक्य । स्वगतम् ।) एसो महाराओ को वि इमिणा गंभीरमहुरेण सोहासमुदाएण जाणीअदि । एसा वि एदस्स महादेवी लक्खीअदि । अद्धनारीसरस्स वामद्धे विअ अरूहिआ वि गोरी मुणीज्जदि । एसो को वि जोईसरो । एस उण परिअणो । (विचिन्त्य ।) ता कि ति एदस्स महिलासहिदस्स वि दिट्ठी मं बहु मण्णेदि । ( इति त्र्यस्रं वीक्षते । ) लगतीत्यर्थः । अत्र प्रलयाख्यः सात्त्विगो भावः । स यथा रसकलिकायाम्— 'प्रलयो रागदुःखादेरिन्द्रियास्तमयो मतः ।' इति । स एव चानुभावः । चिन्तादयो व्यभिचारिणः यौवनादय आलम्बनगुणा विभावाः । अभिलाषाख्या शृङ्गारावस्था । विदूषकः— स्नानावमुक्ताभरणोदयायास्तरङ्गभङ्गक्षतमण्डनायाः । आर्द्रांशुकोल्लासिततनुलतायाः सौन्दर्यसर्वस्वमस्या दृष्टिः ॥ दृष्टिरत्र तटस्थः । अन्यत्पूर्ववत् । अत्र रूपमुक्तम् । तद्यथा सुधाकरे—'अङ्गा- न्यभूषितान्येव प्रक्षेपायैर्विभूषणैः । येन भूषितवद्भान्ति तद्रूपमिह कथ्यते ॥' इति । मृदवं नामाङ्गमुक्तम्—'दोषा गुणा गुणा दोषा यत्र स्युर्मृदवं हि तत् ।' इति तल्लक्षणम् । 'सुश्लिष्टसृष्टिवन्धो यत्तत्सौन्दर्यमितीर्यते' । इति सौन्दर्यलक्षणम् । नायिका—एसो इति । एष महाराजः कोऽप्यनेन गम्भीरमधुरेण शोभामुदायेन ज्ञायते । एषा- प्यस्य महादेवी लक्ष्यते । अर्धनारीश्वरस्य वामार्द्धेवारूढितापि गौरी । एषः कोऽपि योगीश्वरः । एष पुनः परिजनः । तत्किमित्येतस्य महिलासहितस्यापि दृष्टिर्मां बहु मन्यते ? त्र्यस्रमिति क्रियाविशेषणम् । अनेन कातराख्यं दर्शनमुक्तम् । 'सभयान्वेषणपरं यत्तत्कातरमुच्यते ।' इति तल्लक्षणम् ।
प्रथमं जवनिकान्तरम् ३५ राजा—(विदूषकमपवार्य ।) जं मुक्का सवणंतरेण सहसा तिक्खा कडक्खच्छडा भिंगाद्विट्ठिदिनेदअग्गिमदलद्दोणीसरिच्छच्छई । तं कप्पूररसेण णं धवलिदो जोण्हाइ णं व्हाविदो मुत्ताणं घणरेणुण व्व छुरिदो जादो म्हि पत्थंतरे ॥ २९ ॥ राजा—अपवार्येति । अपवारणेन जनान्तिकमुच्यते । अत एवोक्तं दश- रूपके (१।६५-६६)—'त्रिपताककरेणान्यानपवार्यान्तरा कथाम् । अन्योन्या- मन्त्रणं यत्स्याज्जनान्ते तज्जनान्तिकम् ॥' इति । त्रिपताका तु संगीतरत्नाकरे— 'तर्जनीमूलसंलग्नकुञ्चिताङ्गुष्ठको भवेत् । पताकः सहताकारः प्रसारितकराङ्गुलिः ॥ स एव त्रिपताकः स्याद्विनानामिकाङ्गुलिः ।' इति । यन्मुक्ता श्रवणान्तरेण सहसा तीक्ष्णा कटाक्षच्छटा भृङ्गाधिष्ठितरेवतसीमदलद्रोणीसदृशच्छविः ।
३६ कर्पूरमञ्जरी विदूषकः—अहो से रूवसोहा। मण्णे मज्झं तिवलिवलिअं डिम्भमुट्ठिअ गेज्झं णो बाहूहि रमणफलअं वेद्विदु जादि दोहि। णेत्तच्छेत्तं तरणिपसईदिज्जमाणोवमाणं ता पञ्चक्खं मइ विलिहिदु जादि एसा ण चित्ते ॥ ३० ॥ कध ण्हाणधोदविलेवणा वि समुच्चारितविभूसणा वि रमणिज्जा। अह वा,— रूवेणं मुक्का वि विभूसअंति ताणं अलंकारवसेण सोहा। णिसग्गचग्गस्स वि¹ माणुसस्स सोहा समुम्मीलदि भूसणेहिं ॥३१॥ विदूषकः— अहो अस्या रूपशोभा। मन्ये मध्यं त्रिवलिवलितं डिम्भमुष्ट्या ग्राह्यं नो बाहुभ्यां रमणफलकं वेष्टितुं याति द्वाभ्याम्। नेत्रक्षेत्रं तरणिप्रसृतिदीयमानोपमानं तत्प्रत्यक्षं मया विलिखितुं यात्येषा न चित्ते ॥ रमणफलकं जघनपरिसरः। नेत्रक्षेत्रं चक्षुः परिसरः। चित्ते विलिखितुं धारयितुं न शक्नोमीत्यर्थः। डिम्भो बालः। 'क्षेत्र'शब्देन नानाविकारास्पदत्वं व्यङ्ग्यम्। अत्र रूपलावण्यसौन्दर्याण्युक्तानि। लावण्यं तु 'मुक्ताफलेषु छायायास्तरळत्वमिवान्तरा। प्रतिभाति यदङ्गेषु लावण्यं तदिहोच्यते॥' इति। उपमालङ्कारः। शृङ्गारस्य दीप्तत्वात् 'कान्तिर्दीप्तरसं स्यात्' इति कान्तिर्वाक्यार्थगुण उक्तः। गाम्भीर्यं च। विभावादिकं तु पूर्ववदेव ॥ कथं स्नानधौतविलेपना समुच्चारितविभूषणापि रमणीया। अथवा,— या रूपमुक्ता अपि विभूषयन्ति तासामलंकारवशेन शोभा। निसर्गचङ्गस्यापि मानुषस्य शोभा समुन्मीलति भूषणैः ॥ यासां सौन्दर्यं नास्ति तासामलंकारैः शोभा। यस्य तु मनुष्यस्य नैसर्गिकं सौन्दर्यं तस्यालङ्कारैः कान्तिरुन्मीलति, महत्त्वमेत्य जायत इत्यर्थः। अत्र समाधिः। यथा काव्यप्रकाशे (१०।१२५)—'समाधिः सुकरं कार्यं कारणान्तरयोगतः' ॥ १ 'रेहोणं' इति टीकापाठः। २ 'तु' 'मनुजस्स' इति च भिन्नः पाठः।
३८ कर्पूरमञ्जरी इत्थं जायं अवअवगदा का वि सुंदेरमुद्दा मण्णे ताणं चलइदधणू णिच्चभिच्चो अणंगो ॥ ३३ ॥ अवि अ, एदाए— तहा रमणवित्थरो जह ण ठाइ कंचीलदा तहा १सिद्धिणतुंगिमा जह २णिपइ णाहिं ण हु । तहा णअणवह्निमा जह ण किंपि कण्णुप्पलं तहा अ मुहमुज्जलं दुस्ससिणी जहा पुण्णिमा ॥ ३४ ॥ देवी—अज्ज कविंजल ! पुच्छिअ जाण का एस त्ति । इत्थं यासामवयवगता कापि सौन्दर्यमुद्रा मन्ये तासां वलयितधनुर्नित्यभृत्योऽनङ्गः ॥ अवयवगतेति । सर्वाङ्गव्यापि सौन्दर्यमुद्रम् । नित्यभृत्य इति । भृत्यो यथा भर्त्राज्ञामन्तरेणापि तदाशयमेव विज्ञाय कार्यं कुरुते तथा कामिनीकटाक्षमात्रेणैव कामिनो वशी करोति काम इत्युत्प्रेक्षयोपमा ध्वन्यते । अत्र सारः । स यथा काव्य- प्रकाशे ( १०।११३ )—'उत्तरोत्तरमुत्कर्षो भवेत्सारः परावधिः ।' इति ॥ अपि च, एतस्याः— तथा रमणविस्तारो यथा न तिष्ठति काञ्चीलता तथा च स्तनतुङ्गिमा यथा नैति नाभि मुखम् । तथा नयनवह्निमा यथा न किमपि कर्णोत्पलं तथा च मुखमुज्ज्वलं द्विशशिनी यथा पूर्णिमा ॥ न क्षिमतीति न शोभापहमित्यर्थः । क्वचित् 'तुट्टिमा' इति पाठः । क्वचित् 'वह्निमा' इति। तदुभयमप्यप्रमाणम् । 'दृढस्थूलशब्दाभ्याम्' इति दृ. क्वचिद्- दृष्टत्वात् । द्विशशिनीति 'नद्यृतश्च' (पा. ५।४।१५३) इति न कप् । अनिर्देश्यात् । अद्भूतोपमया वपुषः परमाह्लादकत्वं ध्वन्यते । चरणत्रयेऽतिशयोक्तिहेतुः । चतुर्थे तूपमायाः कृत्याद्यप्रक्रमभङ्गः 'तदा अ मुहमुज्जलं जह ण उज्जलं संचनं' इति पठित्वा समाधेयः ॥ देवी— आर्य कपिञ्जल ! पृष्ट्वा जानीहि कैवेति । १ 'तहा थणतुंगिमा' इति पाठः । २ 'ण पर णांहि मुहं' इति टी०• ।
४० कर्पूरमञ्जरी नायिका—तस्स घरणी ससिप्पहा णाम । देवी—( स्वगतम् ।) सा वि मे माउच्छिआ । नायिका—( विहस्य ।) तेहि अहं खलखंडेहि कीणिदा दुहिद त्ति वुच्चामि । देवी—( स्वगतम् ।) ण हु ससिप्पहागब्भुप्पत्तिं अंतरेण ईदिसी रूवसोहा । ण हु विद्दूरभूमिं अंतरेण वेरुळिअमणिसलाआ णिप्प- ज्जदि । (प्रकाशम् ।) णं तुवं कप्पूरमंजरी । (नायिका सलज्जमधोमुखी तिष्ठति ।) देवी—एहि वहिणिए । आलिंगसु मं । (इति परिष्वजते ।) कर्पूरमञ्जरी—अम्महे, कप्पूरमंजरीए एसो पढमो पणामो । नायिका— तस्य गृहिणी शशिप्रभा नाम । देवी— साऽपि मे मातृष्वसा । नायिका— ताभ्यामहं खडिरखण्डैः क्रीणिता दुहितेति । देवी— न खलु शशिप्रभागर्भोत्पत्तिमन्तरेणेदृशी रूपरेखा । न खलु वैदूर्यभूमिमन्तरेण वैदूर्यमणिशलाका निष्पद्यते । ननु त्वं कर्पूरमञ्जरी । देवी— एहि भगिनिके ! आलिङ्गय माम् । कर्पूरमञ्जरी— • अये ! कर्पूरमञ्जर्या एष प्रथमः प्रणामः । प्रथम इत्येतावन्तं कालमदृष्टपादपद्मस्य प्राथम्यमुक्तम् ।
प्रथमं जवनिकान्तरम् ४१ देवी—अज्ज भइरवाणंद ! तुज्झ प्पसाएण अपुव्वं संविहाणअं णुभविदं कप्पूरमंजरीदंसणेण । ता चिट्ठदु दाव एसा पंचदसदिवसाइं । च्छा झाणविमाणेण णइस्सह । भैरवानन्दः—जं भणादि देवी । विदूषकः—(राजानमुद्दिश्य ।) भो वअस्स ! अम्हे परं दुवे वि बाहिरा तुवं अह च । जदो एदाणं मिलिदं कुटुंबं वट्टदि । जदो इमीओ दो वि बहिणिआओ । भइरवाणंदो उण एदाणं संजोअअरो अच्चिदो महग्घिदो अ । एसा विअक्खणा महीअलसरस्सदी अ कुट्टिणी^१ देवी ज्जेव देहंतरेण । देवी—विअक्खणे ! णिअजेट्ठबहिणिअ सुलक्खणं भणिअ भइरवा- णंदस्स हिअइच्छिदा सपज्जा कादव्वा । देवी— आर्य भैरवानन्द ! तव प्रसादेनापूर्वं संविधानकमनुभूतं कर्पूरमञ्जरीदर्शनेन । संतिष्ठतु तावदेषा पञ्चदशदिवसानि । पश्चाद्ध्यानविमानेन नेष्यथ । संविधानकमुपचारः । भ्रान्तस्य विमानं ध्यानविमानम् । नेष्यथेति पूजायां बहुवचनम् । भैरवानन्दः— यद्भणति देवी । विदूषकः— भो वयस्य ! आवां परं द्वावपि बाह्यौ त्वमहं च । यत एतासां मिलितं कुटुम्बकं वर्तते । यत इमे द्वे अपि भगिन्यौ । भैरवानन्द पुनरेतयोः संयोजकरोऽर्चितो महार्धितश्च । एषा विचक्षणा महीतलसरस्वती च कुट्टनी देहान्तरेण देव्येव । यथा रात्रीदृशिना सङ्गेयमपीति सोत्कण्ठम् । देवी— विचक्षणे ! निजज्येष्ठभगिनिकां सुलक्षणां भणित्वा भैरवानन्दस्य हृदयेप्सिता सपर्या कर्तव्या । हृदयस्थितेन यार्थः । तदा यथामिलितमित्यर्थः । १ 'देहंतरेण देवी ज्जेव' इति टीकापाठः ।
४२ कर्पूरमञ्जरी विचक्षणा—जं देवी आणवेदि । देवी—(राजानं प्रति ।) अज्जउत्त ! पेसिहि मं, जेण अहं बहिणीए एदावस्थाए णेवच्छलच्छीलीलाणिमित्तं अंतउरं गमिस्सं । राजा—जुज्जदि चंपअलदाए कत्थूरिआकप्पूररसेहिं आलवालपरि- पूरणं । (नेपथ्ये ।) वैतालिकयोरेकः—सुहसंझा भोदु देवस्स । एदं वासरजीवपिंडसरिसं चंडंसुणो मंडलं को जाणादि कहिं पि संपदि गअं पत्तम्मि कालंतरे। जादा किं च इअं पि दीहविरहा सोऊण णाहे गदे ¹णिच्चामुद्दिदलोअण व णलिणी मीलंतपंकेरुहा ॥ ३५ ॥ विचक्षणा— यद्देव्याज्ञापयति । देवी— आर्यपुत्र ! प्रेषय माम्, येनाहं भगिन्या एतदवस्थाया नेपथ्यलक्ष्मीलीलानिमित्त- मन्तःपुरं गमिष्यामि । राजा— युज्यते चम्पकलतायाः कस्तूरीकर्पूरैरालवालपरिपूरणम् । अवश्यमस्या नेपथ्यं कर्तव्यमित्यर्थः । समासोक्तिरत्र । सा यथा काव्यप्रकाशे (१०।१९७)—‘परोक्तिर्भेदकैः श्लिष्टैः समासोक्तिः’ इति । वैतालिकः— सुखाय सन्ध्या भवतु देवस्य । एतद्वासरजीवपिण्डसदृशं चण्डांशोर्मण्डलं को जानाति क्वापि संप्रति गतमेतस्मिन्कालान्तरे । जाता किं चेयमपि दीर्घविरहा शोकेन नाथे गते मूर्छामुद्रितलोचनेव नलिनी मीलत्पङ्केरुहा ॥ 1 'मुच्छामुद्दिअ' इति टीकाधृतः पाठः ।
४४ कर्पूरमञ्जरी द्वितीयं जवनिकान्तरम् ( ततः प्रविशति राजा प्रतीहारी च । ) प्रतीहारी—( परिक्रामितकेन । ) इदो इदो महाराओ । राजा—( कतिचित्पदानि गत्वा । तामनुसंधाय । ) तहिं खु अवसरे ण ट्ठाणाहिं तिलांतरं पि चलिदा सुत्था णिअंबत्थली थोउद्वेल्लद्धलीतरंगमुदरं कंठो तिरिच्छिद्विदो । वेणीए उण आणणेन्दुभमणे लद्धं थणालिंगणं जादा तीअ चउव्विहा तणुलदा तंसं वलंती मए ॥ १ ॥ प्रतीहारी— इत इतो महाराजः । राजा— गत्वेत्यनन्तरमाह स्मेति शेषः । तस्मिन्खल्ववसरे,— न स्थानात्तिलान्तरमपि चलिता स्वस्था नितम्बस्थली स्तोकोद्वेल्लद्वलीतरङ्गमुदरं कण्ठस्तिर्यक्स्थितः । वेण्या पुनराननेन्दुभ्रमणे लब्धं स्तनालिङ्गनं जातात्तस्याश्चतुर्विधा तनुलता निष्ध्यायन्त्या माम् ॥ अत्र स्मृतिः । तल्लक्षणं साहित्यदर्पणे ( ३।१६२)—'सदृशज्ञानचिन्ताद्यैर्भ्रू- समुन्नयनादिकृत् । स्मृतिः पूर्वानुभूतार्थविषयज्ञानमुच्यते ॥' परिकरोऽलंकारः । तल्ल- क्षणमुक्तं वृद्धैः—'विशेषणसाभिप्रायत्वे परिकरः' इति । अत्र च स्थलीतरङ्गादिविशेष- णानां तथात्वमूह्यम् । रूपकं चान्न । तल्लक्षणमुक्तं मम्मटेन—( का. प्र. १०।९३) 'तद्रूपकमभेदो य उपमानोपमेययोः।' इति न स्थानात्तिलान्तरमपीत्यनेन नितम्बस्य गरिमातिशयो व्यज्यते । 'वलीतरङ्गम्' इत्यनेन स्वच्छतातिशयो व्यज्यते । 'तनु- लता' इत्यनेन च सादृश्यचापल्याश्लेषादिलातागुणवत्त्वं वपुषो व्यज्यते । १ 'णिज्झायन्तीअ म' इति टीकापाठः; 'तंसं वुलंती अ मं' इत्यपि पाठः क्वचित् ।
द्वितीयं जवनिकान्तरम् ४५ प्रतीहारी—( स्वगतम् ।) कहं अज्ज वि सो ज्जेव सिरितालीपत्तसं- चओ, ताओ ज्जेव अक्खरपंतीओ । ता वसंतवण्णणेण सिढिलआमि से तग्गदं हिअआवज्जं । ( प्रकाशम् ।) दिट्ठिं देदु महाराओ ईसीसि जरढा- , अमाणे कुसुमाअरम्मि । मूलाहिंतो परहुदबहूकंठमुद्दं दलंता देंता दीढमहुरिमगुणं जंपिए छप्पआणं । संचारेंता विरहिंसु णवं पंचमं किं च राअं राउम्मत्ता रइकुलहरा वासरा वित्थरंति ॥ २ ॥ प्रतीहारी— कथमद्यापि स एव श्रीतालीपत्रसञ्चयः, ता एवाक्षरपङ्क्तयः । तद्वसन्तवर्णनेन शिथिलयाम्यस्य तद्गतं हृदयावेगम् । 'आवेग'शब्देन यद्यपि सर्वथा नास्य तन्मनस्कता निराकर्तुं शक्यते, तथापि विषयान्तरसंचारेण किञ्चिच्छिथिलयामीति चोच्यते । दिट्ठिं इति । दृष्टिं ददातु महाराज ! ईषदीरजठायमाने कुसुमाकरे । कुसुमानामाकर उत्पत्तिस्थानमित्यर्थः । कुसुमानामाकरः समूहो यस्मिन्निति वा । कुसुमैराकर इति वा । 'आकरो निवहोत्पत्तिस्थानश्रेष्ठेषु कथ्यते ।' इति विश्वः । मूला इति । मूलात्प्रभृति परभृतवधूकण्ठमुद्रां दलयन्तो ददतो दीर्घं मधुरिमगुणं जल्पिते षट्पदानाम् । सञ्चारयन्तो विरहिषु नवं पञ्चमं किञ्चिद्रागं रागोन्मत्ता रतिकुलगृहा वासरा विस्तीर्यन्ते ॥ परभृतवध्वः कोकिलस्त्रियः । परभृता वध्य इवेति वा । पक्षद्वयेऽपि संभोग- शृङ्गारो व्यङ्ग्यः । मधुरिमैव गुणः । मधुरिम्णा गुणविशेष इति वा । येन दुःसहा च तेषां सम्भा भाषादिरिति भावः ( १) । 'पुष्पसाधारणे वासि पिकः कूजति पञ्चमम् 'किञ्चिद्रागम्'इति 'पञ्चमम्' इत्यस्य विशेषणम् । किञ्चिद्रागो यस्यां क्रियायामिति वा
४६ कर्पूरमञ्जरी राजा—(तदनाकर्ण्य सानुरागम् ।) आत्थाणीजणलोअणाण बहुला लावण्णकल्लोलिणी लील़ाविब्भमहासवासणअरी सोहग्गपालित्थिआ । पेक्खेंदीवरदीहिआ मह पुणो सिंगारसंजीविणी १अं जादा णह मम्महेण धणुहे तिक्खो सरो २संधिदो ॥३॥ (सोन्मादमिव ।) दंसणक्खणादो पहुदि कुरंगच्छी भवति तथेति क्रियाविशेषणं वा । रतयः संभोगास्तेषां गृहे समुद्भूतस्य गृहाः स्थानानीत्यर्थः । यद्वा,–रतिकुलस्य प्रीतिसमुदायस्य गृहाः स्थानानि । तज्जनकरू- दित्वाशयः । राजा— आस्थानीजनलोचनानां बहुला लावण्यकल्लोलिनी लीलाविलासमहासवासनगरी सौभाग्यपालिस्थिता । प्रेक्षेन्दीवरदीर्घिका मम पुनः शृङ्गारसंजीविनी संजाताथ मन्मथेन धनुषि तीक्ष्णः शरः पुङ्खितः ॥ 'लावण्यकल्लोलिनी' इत्यनेन प्रतिक्षणं सौन्दर्यातिशयसौन्दर्यञ्जायते । 'वासनगरी' इत्यनेन क्षणमपि तद्विश्लेषाभावो गम्यते । 'तीक्ष्ण' इत्यनेन पूर्वमपि शरसंधान- मासीदेव, इदानीं स्वतिदुःसहं तदेतादृशशरविदारणं द्योत्यते । सोन्मादमिति । उन्मादलक्षणं शृङ्गारतिलके ( २।१२ )—'श्वासप्रमोद- गोष्पष्पवपुषोपोषनंरपि । व्यापारे जायते यत्र स उन्मादः स्मृतो यथा ॥' इति । साहित्यदर्पणेऽपि ( ३।१६० )—'चित्तस्य भ्रम उन्मादः कामशोक- भयादिभिः । अभ्यानहासगदितगीतरुदतनादिहृत् ॥' इति । दंसण इति । दर्शनक्षणप्रभृति कुरङ्गाक्षी 1 'संजाअ' इति टीकाकृतः पाठः । 2 'पुंखिदो' इति टीकाकृतः पाठः ।
द्वितीयं जवनिकान्तरम् ४७ चित्ते पप्फुट्ठदि ण खुट्टदि सा गुणेसुं सेज्जाए लुट्ठदि विसप्पदि दिक्कहेसुं । घोलम्मि वट्टदि पअट्टदि कव्वबन्धे झाणे ण तुट्ठदि चिरं तरुणी तरट्ठी ॥ ४ ॥ अवि अ,— जे तीअ तिक्खचलचक्खुत्तिहायदिट्ठा ते कामचन्दमहुपंचममारणिज्जा । जेसुं पुणो णिवडिआ सअला वि दिट्ठी वट्टन्ति ते तिलजलंजलिदाणजोग्गा ॥ ५ ॥ ( सम्मरणमिव । ) अवि अ,— अग्गम्मि भिंगसरणी घअणस्स तीए मज्झे पुणो घडिददुद्धतरंगमाला । चित्ते प्रस्फुटति न क्षीयते सा गुणेषु शय्यायां लुटति विसर्पति दिक्पुरेषु । वचने वर्तते प्रवर्तते काव्यबन्धे ध्याने न त्रुट्यति चिरं तरुणी तरलाक्षी ॥ अपि च,— ये तया तीक्ष्णचञ्चच्चक्षुस्त्रिभागदृष्टा- स्ते कामचन्द्रमधुपञ्चममारणीयाः । येषु पुनर्निपतिता सकलाऽपि दृष्टि- र्वर्तन्ते ते तिलजलाञ्जलिदानयोग्याः ॥ मधुरेशन्न । स्मृतिश्चाप्युक्तम् । अपि च,— अग्रे भृङ्गसरणिर्वदनयोस्तस्या मध्ये पुनः घटितदुग्धतरङ्गमाला ।
४८ कर्पूरमञ्जरी पच्छा अ से सरदि तंसणिरिक्खिदेसुं आअण्णमंडलिदचावहरो अणंगो ॥ ६ ॥ (विचिन्त्य ।) चिराअदि पिअवअस्सो । (प्रविश्य विदूषको विचक्षणा च परिक्रामतः ।) विदूषकः—अइ विअक्खणे ! सव्वं सच्चं एदं ? विचक्षणा—सव्वं सच्चअरं । विदूषकः—णाहं पत्तिआमि, जंदो परिहाससीला खु तुम्हं । विचक्षणा—अज्ज ! मा एवं भण । अण्णो वंक्करकालो, अण्णो कज्जविआरकालो । पश्चाच्च तस्याः स्मरति तिर्यङ्निरीक्षितेषु आकर्णमण्डलितचापधरोऽनङ्गः ॥ तद्दर्शननिरीक्षणादनु मदनकृतविमनस्कतावश्यं भवतीति भावः । अयं च कविप्रौढोक्तिसिद्धो ध्वनि । चिरयति प्रियवयस्यः । विदूषकः— अयि विचक्षणे ! सर्वं सत्यमिदम् ? विचक्षणा— सर्वं सत्यतरम् । विदूषकः— नाहं प्रत्येमि, यतः परिहासशीला खलु त्वम् । कदाचिदयमपि परिहास एव भवेदिति भावः । विचक्षणा— आर्य ! मैवं भण । अन्यो वर्करकालः, अन्यः कार्यविचारकालः । तथा च नेदं सर्वमसत्यमिति भावः । १ 'मटलिइ' इति टीकापाठः । ३ बर्करकालः=सोत्कण्ठभाषणसमयः ।
द्वितीयं जवनिकान्तरम् ४९ विदूषकः—( पुरोऽवलोक्य ।) एसो पिअवअस्सो हंसो विअ विमु- क्तमाणसो, करी विअ मअक्खामो, मुणालदंडो विअ घणघम्ममिलाणो, दिणदिण्णदीवो विअ विअलिअच्छायो, पभादपुण्णिमाचंदो विअ पंडुरपरिक्खीणो चिट्ठदि । उभौ—( परिक्रम्य ।) जअदु जअदु महाराओ । राजा—वअस्स ! कहं पुणो वि विअक्खणाए मिलिदो सि ! विदूषकः—अज्ज विअक्खणा मए सह संधिं कादुं आददा । किदसंधीए एदाए सह भंतअंतस्स एत्तिआ वेला लग्गा । राजा—संधिकरणस्स किं फलं ? विदूषकः— एष प्रियवयस्यो हंस इव विमुक्तमानसः, करीव मदक्षामः, मृणालदण्ड इव घनघर्मम्लानः, दिनदीप इव विगलितच्छायः, प्रभातपूर्णिमाचन्द्र इव पाण्डुरपरि- क्षीणस्तिष्ठति । विमुक्तमानस उद्विग्नमनाः । हंसपक्षे-विमुक्तं त्यक्तं मानसं सरो येनेत्यर्थः । दृगोपमानेन पाण्डुरतातिशयोऽस्य द्योत्यते । पाण्डुरश्च परिक्षीणश्चेत्यर्थः । उभौ— जयतु जयतु महाराजः । राजा— वयस्य ! कथं पुनरपि विचक्षणया मिलितोऽसि ? विदूषकः— अद्य विचक्षणा मया सह संधिं कर्तुमागता । कृतसंध्यैतया सह भ्रम्यमाणस्यै- तावती वेला लग्ना । राजा— संधिकरणस्य किं फलम् ? क० प्र० ४
५० कर्पूरमञ्जरी विदूषकः—एसा अहिंमदजणपेसिदलेहहत्था णं विअक्खणा आगदा । राजा—(गन्धं सूचयित्वा ।) केदईकुसुमगंधो विअ आआदि । विचक्षणा—केदईदललेहो एव्व एसो मह हत्थे । राजा—महुसमए किं केदईकुसुमं ? विचक्षणा—भेरवाणंददिण्णमंतप्पहावेण देवीभवणुज्जाणे केदई- लट्ठीए एको दाव पसवो दंसिदो। तस्स दोहि दलसंपुडेहिं अज्ज हिंदो- लअप्पभंजणीए चउत्थीए हरवल्लहाए देवीए देवी अच्चिदा । अण्णं च दलसंपुडजुअलं पुण कणिद्वबहिणीआए कप्पूरमंजरीए पसादीकिदं । तीए वि एकेण दलसंपुडेण भअवदी गोरी ज्जेव अच्चिदा । अण्णं च,— विदूषकः— एषाऽभिमतजनप्रेषितलेखहस्ता ननु विचक्षणा आगता । इदमेव संधिफलमित्याशयः । राजा— केतकीकुसुमगन्ध इवायाति । विचक्षणा— केतकीदललेख एवेष मम हस्ते । तस्यैष गन्ध इत्याशयः । राजा— मधुसमये किं केतकीकुसुमम् ? विचक्षणा— भैरवानन्ददत्तमन्त्रप्रभावेण देवीभवनेोद्याने केतकीलतयामेकस्तावत्प्रसवो दर्शितः। तस्य दलसंपुटद्वयेन हिन्दोलप्रभञ्जन्यां चतुर्थ्यां हरवल्लभया देव्या देवी अर्चिता । अन्यच्च दलसंपुटयुगलं पुनः कनिष्ठभगिन्यै कर्पूरमञ्जर्यै प्रसादीकृतम् । तयाप्येकेन दलसंपुटेन भगवती गौर्येवार्चिता । अन्यच्च,—