कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 45, कुल 172 में से
संदर्भ में पढ़ें३४ कर्पूरमञ्जरी विदूषकः— ण्हाणावमुक्काहरणुच्चआए तरंगभंगक्खदमंडणाए । ओल्हंसुउल्लासितणुल्लआए सुंदेरसघवस्समिमीअ दिट्ठी ॥ २८ ॥ नायिका—(सर्वानवलोक्य । स्वगतम् ।) एसो महाराओ को वि इमिणा गंभीरमहुरेण सोहासमुदाएण जाणीअदि । एसा वि एदस्स महादेवी लक्खीअदि । अद्धनारीसरस्स वामद्धे विअ अरूहिआ वि गोरी मुणीज्जदि । एसो को वि जोईसरो । एस उण परिअणो । (विचिन्त्य ।) ता कि ति एदस्स महिलासहिदस्स वि दिट्ठी मं बहु मण्णेदि । ( इति त्र्यस्रं वीक्षते । ) लगतीत्यर्थः । अत्र प्रलयाख्यः सात्त्विगो भावः । स यथा रसकलिकायाम्— 'प्रलयो रागदुःखादेरिन्द्रियास्तमयो मतः ।' इति । स एव चानुभावः । चिन्तादयो व्यभिचारिणः यौवनादय आलम्बनगुणा विभावाः । अभिलाषाख्या शृङ्गारावस्था । विदूषकः— स्नानावमुक्ताभरणोदयायास्तरङ्गभङ्गक्षतमण्डनायाः । आर्द्रांशुकोल्लासिततनुलतायाः सौन्दर्यसर्वस्वमस्या दृष्टिः ॥ दृष्टिरत्र तटस्थः । अन्यत्पूर्ववत् । अत्र रूपमुक्तम् । तद्यथा सुधाकरे—'अङ्गा- न्यभूषितान्येव प्रक्षेपायैर्विभूषणैः । येन भूषितवद्भान्ति तद्रूपमिह कथ्यते ॥' इति । मृदवं नामाङ्गमुक्तम्—'दोषा गुणा गुणा दोषा यत्र स्युर्मृदवं हि तत् ।' इति तल्लक्षणम् । 'सुश्लिष्टसृष्टिवन्धो यत्तत्सौन्दर्यमितीर्यते' । इति सौन्दर्यलक्षणम् । नायिका—एसो इति । एष महाराजः कोऽप्यनेन गम्भीरमधुरेण शोभामुदायेन ज्ञायते । एषा- प्यस्य महादेवी लक्ष्यते । अर्धनारीश्वरस्य वामार्द्धेवारूढितापि गौरी । एषः कोऽपि योगीश्वरः । एष पुनः परिजनः । तत्किमित्येतस्य महिलासहितस्यापि दृष्टिर्मां बहु मन्यते ? त्र्यस्रमिति क्रियाविशेषणम् । अनेन कातराख्यं दर्शनमुक्तम् । 'सभयान्वेषणपरं यत्तत्कातरमुच्यते ।' इति तल्लक्षणम् ।