कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 44, कुल 172 में से
संदर्भ में पढ़ेंप्रथमं जवनिकान्तरम् ३१ भैरवानन्दः—(उपविश्य।) किं कादव्वं ! राजा—कहिं पि विसए अच्छरिअं दट्ठुं इच्छामि । भैरवानन्दः— दंसेमि तं पि ससिणं वसुहावइण्णं थंभेमि तस्स वि रविस्र रहं णहद्धे । आणेमि जक्खसुरसिद्धगणंगणाओ तं णत्थि भूमितलए मह जं ण सज्झं ॥ २५ ॥ ता भण किं कीरदु । भैरवानन्दः— किं कर्तव्यम् ? किमीप्सितं ते मया कर्तव्यमित्यर्थः । राजा— कस्मिन्नपि विषये आश्चर्यं द्रष्टुमिच्छामि । अनेन कारणाख्यमङ्गमुक्तम् । 'प्रकृतार्थस्य चारम्भः कारणं नाम तद्भवेत्।' इत्युक्तत्वात् । भैरवानन्दः— दर्शयामि तमपि शशिनं वसुधावतीर्णं स्तम्भामि तस्यापि रवे रथं नभोऽर्धे । आनयामि यक्षसुरसिद्धगणाङ्गना- स्तन्नास्ति भूमितलये मम यन्न साध्यम् ॥ एतेनावमर्शसन्ध्यङ्गो व्यवसाय उक्तः । तत्रावमर्शलक्षणं दशरूपके ( १।४३)—'क्रोधेनावमृशेद्यत्र व्यसनाद्वापि लोभनात् । 'गर्भेनिर्भिन्नबीजार्थः सोऽवमर्श इति स्मृतः ॥' इति । व्यवसायलक्षणमपि तत्रैव 'व्यवसायः स्वश- क्त्युक्तिः' (१।४७) इति । ता इति । तद्ब्रूहि किं क्रियताम् ।