कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 43, कुल 172 में से
संदर्भ में पढ़ें३० कर्पूरमञ्जरी अवि अ,— रंडा चंडा दिक्खिदा धम्मदारा मज्जं मंसं पिज्जए खज्जए अ । भिक्खा भोज्जं चम्मखंडं च सेज्जा कोलो धम्मो कस्स णो भादि रम्मो ॥ २३ ॥ किं च,— मुत्तिं भणंति हरिबम्हमुहा वि देवा झाणेण वेअपढणेण कदुकिआहिं । एक्केण केवलमुमाइदएण दिट्ठो मोक्खो समं सुरअकेलिमुगारसेहिं ॥ २४ ॥ राजा—इदं आसणं । उबविसदु भइरवाणंदो । मन्त्रादिलक्षणान्यतिप्रयोजनतया न लिख्यन्ते । अत्र विरोधाभासः । स यथा दण्डिना प्रोक्तः (का. २।१३३)—'विरुद्धानां पदार्थानां यत्र संसर्गदर्शनम् विशेषदर्शनायैव स विरोधः स्मृतो यथा ॥' इति । अवि अ इति । अपि च,— रण्डा चण्डा दीक्षिता धर्मदारा मद्यं मांसं पीयते खाद्यते च । भिक्षा भोज्यं चर्मखण्डं च शय्या कौलो धर्मः कस्य नो भाति रम्यः ॥ किं च इति,— मुक्तिं भणन्ति हरिब्रह्ममुखाऽऽदिदेवा ध्यानेन वेदपठनेन ऋतुक्रियाभिः । एकेन केवलमुमादयितेन दृष्टो मोक्षः समं सुरतकेलिमुगारसैः । हरिब्रह्ममुखाश्च ते आदिदेवाश्चेति विग्रहः । अत्र व्यतिरेकः । राजा— इदमासनम् । उपविशतु भैरवानन्दः ।