कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 51, कुल 172 में से
संदर्भ में पढ़ें४२ कर्पूरमञ्जरी विचक्षणा—जं देवी आणवेदि । देवी—(राजानं प्रति ।) अज्जउत्त ! पेसिहि मं, जेण अहं बहिणीए एदावस्थाए णेवच्छलच्छीलीलाणिमित्तं अंतउरं गमिस्सं । राजा—जुज्जदि चंपअलदाए कत्थूरिआकप्पूररसेहिं आलवालपरि- पूरणं । (नेपथ्ये ।) वैतालिकयोरेकः—सुहसंझा भोदु देवस्स । एदं वासरजीवपिंडसरिसं चंडंसुणो मंडलं को जाणादि कहिं पि संपदि गअं पत्तम्मि कालंतरे। जादा किं च इअं पि दीहविरहा सोऊण णाहे गदे ¹णिच्चामुद्दिदलोअण व णलिणी मीलंतपंकेरुहा ॥ ३५ ॥ विचक्षणा— यद्देव्याज्ञापयति । देवी— आर्यपुत्र ! प्रेषय माम्, येनाहं भगिन्या एतदवस्थाया नेपथ्यलक्ष्मीलीलानिमित्त- मन्तःपुरं गमिष्यामि । राजा— युज्यते चम्पकलतायाः कस्तूरीकर्पूरैरालवालपरिपूरणम् । अवश्यमस्या नेपथ्यं कर्तव्यमित्यर्थः । समासोक्तिरत्र । सा यथा काव्यप्रकाशे (१०।१९७)—‘परोक्तिर्भेदकैः श्लिष्टैः समासोक्तिः’ इति । वैतालिकः— सुखाय सन्ध्या भवतु देवस्य । एतद्वासरजीवपिण्डसदृशं चण्डांशोर्मण्डलं को जानाति क्वापि संप्रति गतमेतस्मिन्कालान्तरे । जाता किं चेयमपि दीर्घविरहा शोकेन नाथे गते मूर्छामुद्रितलोचनेव नलिनी मीलत्पङ्केरुहा ॥ 1 'मुच्छामुद्दिअ' इति टीकाधृतः पाठः ।