कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 52, कुल 172 में से
संदर्भ में पढ़ें४४ कर्पूरमञ्जरी द्वितीयं जवनिकान्तरम् ( ततः प्रविशति राजा प्रतीहारी च । ) प्रतीहारी—( परिक्रामितकेन । ) इदो इदो महाराओ । राजा—( कतिचित्पदानि गत्वा । तामनुसंधाय । ) तहिं खु अवसरे ण ट्ठाणाहिं तिलांतरं पि चलिदा सुत्था णिअंबत्थली थोउद्वेल्लद्धलीतरंगमुदरं कंठो तिरिच्छिद्विदो । वेणीए उण आणणेन्दुभमणे लद्धं थणालिंगणं जादा तीअ चउव्विहा तणुलदा तंसं वलंती मए ॥ १ ॥ प्रतीहारी— इत इतो महाराजः । राजा— गत्वेत्यनन्तरमाह स्मेति शेषः । तस्मिन्खल्ववसरे,— न स्थानात्तिलान्तरमपि चलिता स्वस्था नितम्बस्थली स्तोकोद्वेल्लद्वलीतरङ्गमुदरं कण्ठस्तिर्यक्स्थितः । वेण्या पुनराननेन्दुभ्रमणे लब्धं स्तनालिङ्गनं जातात्तस्याश्चतुर्विधा तनुलता निष्ध्यायन्त्या माम् ॥ अत्र स्मृतिः । तल्लक्षणं साहित्यदर्पणे ( ३।१६२)—'सदृशज्ञानचिन्ताद्यैर्भ्रू- समुन्नयनादिकृत् । स्मृतिः पूर्वानुभूतार्थविषयज्ञानमुच्यते ॥' परिकरोऽलंकारः । तल्ल- क्षणमुक्तं वृद्धैः—'विशेषणसाभिप्रायत्वे परिकरः' इति । अत्र च स्थलीतरङ्गादिविशेष- णानां तथात्वमूह्यम् । रूपकं चान्न । तल्लक्षणमुक्तं मम्मटेन—( का. प्र. १०।९३) 'तद्रूपकमभेदो य उपमानोपमेययोः।' इति न स्थानात्तिलान्तरमपीत्यनेन नितम्बस्य गरिमातिशयो व्यज्यते । 'वलीतरङ्गम्' इत्यनेन स्वच्छतातिशयो व्यज्यते । 'तनु- लता' इत्यनेन च सादृश्यचापल्याश्लेषादिलातागुणवत्त्वं वपुषो व्यज्यते । १ 'णिज्झायन्तीअ म' इति टीकापाठः; 'तंसं वुलंती अ मं' इत्यपि पाठः क्वचित् ।