कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 53, कुल 172 में से
संदर्भ में पढ़ेंद्वितीयं जवनिकान्तरम् ४५ प्रतीहारी—( स्वगतम् ।) कहं अज्ज वि सो ज्जेव सिरितालीपत्तसं- चओ, ताओ ज्जेव अक्खरपंतीओ । ता वसंतवण्णणेण सिढिलआमि से तग्गदं हिअआवज्जं । ( प्रकाशम् ।) दिट्ठिं देदु महाराओ ईसीसि जरढा- , अमाणे कुसुमाअरम्मि । मूलाहिंतो परहुदबहूकंठमुद्दं दलंता देंता दीढमहुरिमगुणं जंपिए छप्पआणं । संचारेंता विरहिंसु णवं पंचमं किं च राअं राउम्मत्ता रइकुलहरा वासरा वित्थरंति ॥ २ ॥ प्रतीहारी— कथमद्यापि स एव श्रीतालीपत्रसञ्चयः, ता एवाक्षरपङ्क्तयः । तद्वसन्तवर्णनेन शिथिलयाम्यस्य तद्गतं हृदयावेगम् । 'आवेग'शब्देन यद्यपि सर्वथा नास्य तन्मनस्कता निराकर्तुं शक्यते, तथापि विषयान्तरसंचारेण किञ्चिच्छिथिलयामीति चोच्यते । दिट्ठिं इति । दृष्टिं ददातु महाराज ! ईषदीरजठायमाने कुसुमाकरे । कुसुमानामाकर उत्पत्तिस्थानमित्यर्थः । कुसुमानामाकरः समूहो यस्मिन्निति वा । कुसुमैराकर इति वा । 'आकरो निवहोत्पत्तिस्थानश्रेष्ठेषु कथ्यते ।' इति विश्वः । मूला इति । मूलात्प्रभृति परभृतवधूकण्ठमुद्रां दलयन्तो ददतो दीर्घं मधुरिमगुणं जल्पिते षट्पदानाम् । सञ्चारयन्तो विरहिषु नवं पञ्चमं किञ्चिद्रागं रागोन्मत्ता रतिकुलगृहा वासरा विस्तीर्यन्ते ॥ परभृतवध्वः कोकिलस्त्रियः । परभृता वध्य इवेति वा । पक्षद्वयेऽपि संभोग- शृङ्गारो व्यङ्ग्यः । मधुरिमैव गुणः । मधुरिम्णा गुणविशेष इति वा । येन दुःसहा च तेषां सम्भा भाषादिरिति भावः ( १) । 'पुष्पसाधारणे वासि पिकः कूजति पञ्चमम् 'किञ्चिद्रागम्'इति 'पञ्चमम्' इत्यस्य विशेषणम् । किञ्चिद्रागो यस्यां क्रियायामिति वा