कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 54, कुल 172 में से
संदर्भ में पढ़ें४६ कर्पूरमञ्जरी राजा—(तदनाकर्ण्य सानुरागम् ।) आत्थाणीजणलोअणाण बहुला लावण्णकल्लोलिणी लील़ाविब्भमहासवासणअरी सोहग्गपालित्थिआ । पेक्खेंदीवरदीहिआ मह पुणो सिंगारसंजीविणी १अं जादा णह मम्महेण धणुहे तिक्खो सरो २संधिदो ॥३॥ (सोन्मादमिव ।) दंसणक्खणादो पहुदि कुरंगच्छी भवति तथेति क्रियाविशेषणं वा । रतयः संभोगास्तेषां गृहे समुद्भूतस्य गृहाः स्थानानीत्यर्थः । यद्वा,–रतिकुलस्य प्रीतिसमुदायस्य गृहाः स्थानानि । तज्जनकरू- दित्वाशयः । राजा— आस्थानीजनलोचनानां बहुला लावण्यकल्लोलिनी लीलाविलासमहासवासनगरी सौभाग्यपालिस्थिता । प्रेक्षेन्दीवरदीर्घिका मम पुनः शृङ्गारसंजीविनी संजाताथ मन्मथेन धनुषि तीक्ष्णः शरः पुङ्खितः ॥ 'लावण्यकल्लोलिनी' इत्यनेन प्रतिक्षणं सौन्दर्यातिशयसौन्दर्यञ्जायते । 'वासनगरी' इत्यनेन क्षणमपि तद्विश्लेषाभावो गम्यते । 'तीक्ष्ण' इत्यनेन पूर्वमपि शरसंधान- मासीदेव, इदानीं स्वतिदुःसहं तदेतादृशशरविदारणं द्योत्यते । सोन्मादमिति । उन्मादलक्षणं शृङ्गारतिलके ( २।१२ )—'श्वासप्रमोद- गोष्पष्पवपुषोपोषनंरपि । व्यापारे जायते यत्र स उन्मादः स्मृतो यथा ॥' इति । साहित्यदर्पणेऽपि ( ३।१६० )—'चित्तस्य भ्रम उन्मादः कामशोक- भयादिभिः । अभ्यानहासगदितगीतरुदतनादिहृत् ॥' इति । दंसण इति । दर्शनक्षणप्रभृति कुरङ्गाक्षी 1 'संजाअ' इति टीकाकृतः पाठः । 2 'पुंखिदो' इति टीकाकृतः पाठः ।