कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 56, कुल 172 में से
संदर्भ में पढ़ें४८ कर्पूरमञ्जरी पच्छा अ से सरदि तंसणिरिक्खिदेसुं आअण्णमंडलिदचावहरो अणंगो ॥ ६ ॥ (विचिन्त्य ।) चिराअदि पिअवअस्सो । (प्रविश्य विदूषको विचक्षणा च परिक्रामतः ।) विदूषकः—अइ विअक्खणे ! सव्वं सच्चं एदं ? विचक्षणा—सव्वं सच्चअरं । विदूषकः—णाहं पत्तिआमि, जंदो परिहाससीला खु तुम्हं । विचक्षणा—अज्ज ! मा एवं भण । अण्णो वंक्करकालो, अण्णो कज्जविआरकालो । पश्चाच्च तस्याः स्मरति तिर्यङ्निरीक्षितेषु आकर्णमण्डलितचापधरोऽनङ्गः ॥ तद्दर्शननिरीक्षणादनु मदनकृतविमनस्कतावश्यं भवतीति भावः । अयं च कविप्रौढोक्तिसिद्धो ध्वनि । चिरयति प्रियवयस्यः । विदूषकः— अयि विचक्षणे ! सर्वं सत्यमिदम् ? विचक्षणा— सर्वं सत्यतरम् । विदूषकः— नाहं प्रत्येमि, यतः परिहासशीला खलु त्वम् । कदाचिदयमपि परिहास एव भवेदिति भावः । विचक्षणा— आर्य ! मैवं भण । अन्यो वर्करकालः, अन्यः कार्यविचारकालः । तथा च नेदं सर्वमसत्यमिति भावः । १ 'मटलिइ' इति टीकापाठः । ३ बर्करकालः=सोत्कण्ठभाषणसमयः ।