कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 57, कुल 172 में से
संदर्भ में पढ़ेंद्वितीयं जवनिकान्तरम् ४९ विदूषकः—( पुरोऽवलोक्य ।) एसो पिअवअस्सो हंसो विअ विमु- क्तमाणसो, करी विअ मअक्खामो, मुणालदंडो विअ घणघम्ममिलाणो, दिणदिण्णदीवो विअ विअलिअच्छायो, पभादपुण्णिमाचंदो विअ पंडुरपरिक्खीणो चिट्ठदि । उभौ—( परिक्रम्य ।) जअदु जअदु महाराओ । राजा—वअस्स ! कहं पुणो वि विअक्खणाए मिलिदो सि ! विदूषकः—अज्ज विअक्खणा मए सह संधिं कादुं आददा । किदसंधीए एदाए सह भंतअंतस्स एत्तिआ वेला लग्गा । राजा—संधिकरणस्स किं फलं ? विदूषकः— एष प्रियवयस्यो हंस इव विमुक्तमानसः, करीव मदक्षामः, मृणालदण्ड इव घनघर्मम्लानः, दिनदीप इव विगलितच्छायः, प्रभातपूर्णिमाचन्द्र इव पाण्डुरपरि- क्षीणस्तिष्ठति । विमुक्तमानस उद्विग्नमनाः । हंसपक्षे-विमुक्तं त्यक्तं मानसं सरो येनेत्यर्थः । दृगोपमानेन पाण्डुरतातिशयोऽस्य द्योत्यते । पाण्डुरश्च परिक्षीणश्चेत्यर्थः । उभौ— जयतु जयतु महाराजः । राजा— वयस्य ! कथं पुनरपि विचक्षणया मिलितोऽसि ? विदूषकः— अद्य विचक्षणा मया सह संधिं कर्तुमागता । कृतसंध्यैतया सह भ्रम्यमाणस्यै- तावती वेला लग्ना । राजा— संधिकरणस्य किं फलम् ? क० प्र० ४