भारतकोश
संग्रह पर लौटें

कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

Karpuramanjari Sattaka of Rajasekhara with Commentary

महाकवि राजशेखर द्वारा

DevanagariHindipublished172 पृष्ठ

४८ कर्पूरमञ्जरी पच्छा अ से सरदि तंसणिरिक्खिदेसुं आअण्णमंडलिदचावहरो अणंगो ॥ ६ ॥ (विचिन्त्य ।) चिराअदि पिअवअस्सो । (प्रविश्य विदूषको विचक्षणा च परिक्रामतः ।) विदूषकः—अइ विअक्खणे ! सव्वं सच्चं एदं ? विचक्षणा—सव्वं सच्चअरं । विदूषकः—णाहं पत्तिआमि, जंदो परिहाससीला खु तुम्हं । विचक्षणा—अज्ज ! मा एवं भण । अण्णो वंक्करकालो, अण्णो कज्जविआरकालो । पश्चाच्च तस्याः स्मरति तिर्यङ्निरीक्षितेषु आकर्णमण्डलितचापधरोऽनङ्गः ॥ तद्दर्शननिरीक्षणादनु मदनकृतविमनस्कतावश्यं भवतीति भावः । अयं च कविप्रौढोक्तिसिद्धो ध्वनि । चिरयति प्रियवयस्यः । विदूषकः— अयि विचक्षणे ! सर्वं सत्यमिदम् ? विचक्षणा— सर्वं सत्यतरम् । विदूषकः— नाहं प्रत्येमि, यतः परिहासशीला खलु त्वम् । कदाचिदयमपि परिहास एव भवेदिति भावः । विचक्षणा— आर्य ! मैवं भण । अन्यो वर्करकालः, अन्यः कार्यविचारकालः । तथा च नेदं सर्वमसत्यमिति भावः । १ 'मटलिइ' इति टीकापाठः । ३ बर्करकालः=सोत्कण्ठभाषणसमयः ।

द्वितीयं जवनिकान्तरम् ४९ विदूषकः—( पुरोऽवलोक्य ।) एसो पिअवअस्सो हंसो विअ विमु- क्तमाणसो, करी विअ मअक्खामो, मुणालदंडो विअ घणघम्ममिलाणो, दिणदिण्णदीवो विअ विअलिअच्छायो, पभादपुण्णिमाचंदो विअ पंडुरपरिक्खीणो चिट्ठदि । उभौ—( परिक्रम्य ।) जअदु जअदु महाराओ । राजा—वअस्स ! कहं पुणो वि विअक्खणाए मिलिदो सि ! विदूषकः—अज्ज विअक्खणा मए सह संधिं कादुं आददा । किदसंधीए एदाए सह भंतअंतस्स एत्तिआ वेला लग्गा । राजा—संधिकरणस्स किं फलं ? विदूषकः— एष प्रियवयस्यो हंस इव विमुक्तमानसः, करीव मदक्षामः, मृणालदण्ड इव घनघर्मम्लानः, दिनदीप इव विगलितच्छायः, प्रभातपूर्णिमाचन्द्र इव पाण्डुरपरि- क्षीणस्तिष्ठति । विमुक्तमानस उद्विग्नमनाः । हंसपक्षे-विमुक्तं त्यक्तं मानसं सरो येनेत्यर्थः । दृगोपमानेन पाण्डुरतातिशयोऽस्य द्योत्यते । पाण्डुरश्च परिक्षीणश्चेत्यर्थः । उभौ— जयतु जयतु महाराजः । राजा— वयस्य ! कथं पुनरपि विचक्षणया मिलितोऽसि ? विदूषकः— अद्य विचक्षणा मया सह संधिं कर्तुमागता । कृतसंध्यैतया सह भ्रम्यमाणस्यै- तावती वेला लग्ना । राजा— संधिकरणस्य किं फलम् ? क० प्र० ४

५० कर्पूरमञ्जरी विदूषकः—एसा अहिंमदजणपेसिदलेहहत्था णं विअक्खणा आगदा । राजा—(गन्धं सूचयित्वा ।) केदईकुसुमगंधो विअ आआदि । विचक्षणा—केदईदललेहो एव्व एसो मह हत्थे । राजा—महुसमए किं केदईकुसुमं ? विचक्षणा—भेरवाणंददिण्णमंतप्पहावेण देवीभवणुज्जाणे केदई- लट्ठीए एको दाव पसवो दंसिदो। तस्स दोहि दलसंपुडेहिं अज्ज हिंदो- लअप्पभंजणीए चउत्थीए हरवल्लहाए देवीए देवी अच्चिदा । अण्णं च दलसंपुडजुअलं पुण कणिद्वबहिणीआए कप्पूरमंजरीए पसादीकिदं । तीए वि एकेण दलसंपुडेण भअवदी गोरी ज्जेव अच्चिदा । अण्णं च,— विदूषकः— एषाऽभिमतजनप्रेषितलेखहस्ता ननु विचक्षणा आगता । इदमेव संधिफलमित्याशयः । राजा— केतकीकुसुमगन्ध इवायाति । विचक्षणा— केतकीदललेख एवेष मम हस्ते । तस्यैष गन्ध इत्याशयः । राजा— मधुसमये किं केतकीकुसुमम् ? विचक्षणा— भैरवानन्ददत्तमन्त्रप्रभावेण देवीभवनेोद्याने केतकीलतयामेकस्तावत्प्रसवो दर्शितः। तस्य दलसंपुटद्वयेन हिन्दोलप्रभञ्जन्यां चतुर्थ्यां हरवल्लभया देव्या देवी अर्चिता । अन्यच्च दलसंपुटयुगलं पुनः कनिष्ठभगिन्यै कर्पूरमञ्जर्यै प्रसादीकृतम् । तयाप्येकेन दलसंपुटेन भगवती गौर्येवार्चिता । अन्यच्च,—

द्वितीयं जवनिकान्तरम् ५१ घेन्दईकुसुमपत्तसंपुडं पाहुडं तुअ सहीए पेसिदं । एणणाहिमसिअण्णसोहिणा तं सिलोअजुअलेण लंछिदं ॥ ७ ॥ ( इति लेखमर्पयति । ) राजा—( प्रसार्य वाचयति । ) हंसिं कुंकुमपंकपिंजरतणुं काऊण अं वंचितो तब्भत्ता किल चक्कवाअघरणी एस त्ति मण्णंतओ । एवं तं मह दुक्कदं परिणदं दुक्खाण सिफ्फाधणं एक्कत्थो वि ण जासि जेण विसअं दिट्ठीतिहाअस्स वि ॥ ८ ॥ ( राजा तदेव द्वित्रिर्वाचयति । ) विदूषकः—एदाईं ताईं मअणरसाअणाईं अक्खराईं । विचक्षणा—दुदिओ उण मए पिअसहीए अवत्थाणिवेदओ कडुअ सिलोओ लिहिदो एत्थ । तं वाचेदु महाराओ । चेतकीकुसुमपत्रसंपुटं प्राभृतं तव सख्या प्रेषितम् । एणनाभिमर्षीवर्णशोभिना तच्छ्लोकयुगलेन लाञ्छितम् ॥ राजा— हंसीं कुङ्कुमपङ्कपिञ्जरतनुं कृत्वा यद्वञ्चित- स्तद्भर्त्ता किल चक्रवाकगृहणीयेति मन्यमानः । एवन्तन्मम दुष्कृतं परिणतं दुःखानां विस्फारकं एकस्थोऽपि न यासि येन विषयं दृष्टिविभागस्यापि ॥ विदूषकः—एतानि तानि मदनरसायनाक्षराणि । विचक्षणा— द्वितीयः पुनर्मया प्रियसख्या अवस्थावेदकः कृत्वा श्लोको लिखितोऽत्र । तं वाचयतु महाराजः ।

५२ कर्पूरमञ्जरी राजा—(वाचयति ।) सह दिवसणिसाहिं दीहरा सासदंडा सह मणिवलएहिं बाहधारा गलंति । तुह सुहअ विक्खोए तीअ उव्विग्गिणीए सह अ तणुलदाए दुव्वला जीविदासा ॥ ९ ॥ विचक्षणा—इह जेव एदाए अवस्थाए मह महल्लवहिणीआए सुलक्खणाए ओलग्या भविअ सिलोगो कदो, तं महाराओ सुणदु । (पठति ।) णीसासा हारजट्टीसरिसपसरणा चंदणुच्छोडकारी चंडो देहस्स दाहो सुमरणसरणा हाससोहा मुहम्मि । अंगाणं पंडुभावो दिअहससिकलाकोमलो किं च तीए णिच्चं बाहप्पवाहा तुह सुहअ ! कदे होंति कुल्लाहि तुल्ला ॥ १० ॥ राजा— सह दिवसनिशाभ्यां दीर्घाः श्वासदण्डाः सह मणिवलयैर्बाष्पधारा गलन्ति । तव सुभग ! वियोगे तस्या उद्वेगिन्या सह च तनुलतया दुर्बला जीविताशा ॥ 'श्वासदण्डा' इत्यनेन निश्वासप्राचुर्यं व्यज्यते । इयं च सहोक्तिः । तल्लक्षणमुक्तं वृद्धैः—'सहभावकथनं सहोक्ति' इति । विचक्षणा— इहैवैतस्या अवस्थायां मम ज्येष्ठभगिन्या सुलक्षणया आदेशकारिण्या भूत्वा श्लोकः कृतः, तं महाराजः शृणोतु । णीसासा इति— निश्वासा हारयष्टिसदृशप्रसरणाश्चन्दन स्फोटकारी चण्डो देहस्य दाहः स्मरणसहचरी हासशोभा मुखे । अङ्गानां पाण्डुभावो दिवसशशिकलाकोमलं किं च तस्या नित्यं बाष्पप्रवाहास्तव सुभग ! कृते भवन्ति कुल्याभिस्तुल्याः ॥ १ 'उव्वेअग्गीए' इति टीकाकृतः पाठः । २ 'चंदण फ्फोडकारी' इति टीकाकृतः पाठः । ३ 'सुमरणमरीची' इति टीकाकृतः पाठः ।

२. द्वितीय जवनिका: राजा चण्डपाल-कर्पूरमञ्जरी अनुराग एवं हिंडोला-क्रीड़ा

द्वितीयं जवनिकान्तरम् ५३ राजा—(निःश्वस्य।) किं भण्णइ—कइत्तणेण तुह जेट्ठबहिणिआ खु एसा ? विदूषकः—एसा वियक्खणा महीअलसरस्सई। एदाए उण जेट्ठ- बहिणिआ तिहुअणसरस्सई। ता एदाहिं समं पाडिसिद्धिं ण करिस्सं। किं पुण पिअवअम्सस्स पुरदो मअणावत्थं अत्तणो उचिदेहिं अक्खरेहिं णिवेदेमि। राजा—पढ। एदं सुणीअदि। विदूषकः— परं जोण्हा उण्हा गरलसरिसो चंदणरसो सरक्खारो हारो रअणिपवणा देहत्तवणा। म्मरणसदृशी तदंगव्यथित्यर्थः। दिवसशशिकलासाम्येन निष्प्रभत्वमङ्गानाम- भिव्यज्यते। राजा— किं भण्यते—कवित्वे तव ज्येष्ठभगिनिका खल्वेषा ? विदूषकः— एषा विचक्षणा महीतलसरस्वती। एतस्याः पुनर्ज्येष्ठभगिनिका त्रिभुवनसरस्वती। तदेताभ्यः समं प्रतिस्पर्धां न करिष्यामि। किं पुनः प्रियवयस्यस्य पुरतो मदनाव- स्थामात्मन उचितेरक्षरैर्निवेदयामि। मदनावस्थामित्यनन्तरं 'तस्या' इति शेषः। राजा— पठ। एतदपि श्रूयते। विदूषकः—

५४ कर्पूरमञ्जरी मुणाली बाणाली जलइ अ जलद्धा तणुलदा वरिठ्ठा जं दिट्ठा कमलवअणा सा सुणअणा ॥ ११ ॥ राजा—वअस्स ! तुमं पि थोएण चंदणरसेण समालिहिज्जसि । ता कहेसु तग्गदं किं पि वुत्तंतं । अध अंतेउरे णइअ देवीए किं किदं तिस्सा ? विदूषकः—विअक्खणे ! किं किदं ? विचक्षणा—देव ! मंडिदा टिक्किदा भूसिदा तोसिदा अ । राजा—कधं विअ ? विचक्षणा— घणमुव्वट्टिदमंगं कुंकुमरसपंकपिंजरं तिस्सा । मृणाली बाणाली ज्वलति च जलाद्री तनुलता वरिष्ठा यदृष्टा कमलवदना सा सुनयना ॥ क्षते क्षार इवेत्यर्थः; तस्यात्यन्तदुःसहत्वात् । 'रजनिवदनाः' इत्यनेन तेषामति- शीतत्वं व्यक्तम्, देहे तपन्ना इवेत्यर्थः; अत्यन्तदाहकत्वात् । बाणालीवेत्यर्थ ; अत्यन्तखेदप्रदत्वात् । अत्रोपमोत्प्रेक्षारूपकादयोऽर्थालंकाराः । छेके लाटानुप्रासा- दयश्च शब्दालंकारा ऊह्याः । तल्लक्षणं चोक्तं प्राक् । राजा— वयस्य ! तत् त्वमपि स्तोकेन चन्दनरसेन समालभ्यसे । तत्कथय तद्गतं किमपि वृत्तान्तम् । अधान्तःपुरे नीत्वा देव्या किं कृतं तस्याः ? विदूषकः— विचक्षणे ! किं कृतम् ? विचक्षणा— देव ! मण्डिता तिलकिता भूषिता तोषिता च । राजा— कथमिव ? विचक्षणा— घनमुद्वर्तितमङ्गं कुङ्कुमरसपङ्कपिञ्जरं तस्याः ।

द्वितीयं जवनिकान्तरम् ५५ राजा— रोसाणिअ फुडं ता कंचणमयवालियारूअं ॥ १२ ॥ विचक्षणा— मरगअमंजीरजुअं चरणा से लंभिआ वयंसीहिं । राजा— भ्रमिअमहोमुहपंकजजुअलं ता भमरमालाए ॥ १३ ॥ विचक्षणा— रायसुअपिच्छणीलं पट्टंसुअजुमलअ णिवत्था सा । राजा— कअलीअ कंदली ता सरपवणपंपणोलिअदलग्गा ॥ १४ ॥ राजा— उज्वलीकृतं तत्काञ्चनमयपालिकास्वरूपम् ॥ 'रोसाणिअ' इत्युज्ज्वलार्थे देशी । काञ्चनमयेत्यस्य प्रकृतिपीतमेव तद्रूपनिशानौ पीततरेण कुङ्कुमेनोद्वर्तनाच्छोभातिशयो जात इति भावः । विचक्षणा— मरकतमञ्जीरयुगं चरणावस्या लम्भितौ वयस्याभिः । राजा— भ्रमितमधो मुखपङ्कजयुगलं तद्भ्रमरमालया ॥ अस्याश्चरणौ मरकतमञ्जीरयुगं मरकतनूपुरयुगलं लम्भितौ प्रापितौ । तत्स- बद्धौ कृताविति यावत् । भ्रमितेत्यादिना तच्चरणयुगलस्य पङ्कजयुगेन मञ्जीरयुगलस्य च भ्रमरमालया साम्यं प्रदर्शितम् । विचक्षणा— राजशुकपिच्छनीलं पट्टांशुकयुगलकं निवसिता सा । राजा— कदलीकन्दली शरत्पवनविलोलोत्थितदलाग्रा ॥ एतादृशं तद्रूपं कदलीकन्दल्या जघनस्य च तरुणानां साम्यमुक्तम् । 1 'दिणोत्तिअ' इति टीकादृष्टः पाठः । 2 अत्रोपमामाह कालिदासीये मेघदूते (उ. १९) 'संभोगान्ते मम समुचितो हस्तसंवाहनानां यावत्पादः सरसकदलीगर्भ- गौरश्चरस्ताम्' कथं विस्मर्यतैवम् ।

५६ कर्पूरमञ्जरी विचक्षणा— तीए णिअंबफलए णिवेसिया पोमराअमणिकंची। राजा— कंचणसेलसिलाए घरिही ता कारिओ णट्टं॥ १५॥ विचक्षणा— दिण्णा घलआवलीउ करकमलपओट्ठणालजुअलम्मि। राजा— ता भण किं ण रेहइ विपरीअं मयणतोणीरं॥ १६॥ विचक्षणा— कंठम्मि तीअ ठविदो छम्मासिअमोत्तिआण वरहारो। राजा— सेवइ ता पंतीहिं मुहचंदं तारआणिकरो॥ १७॥ ———————————————————————————————— विचक्षणा— तस्या नितम्बफलके निवेशिता पद्मरागमणिकाञ्ची। राजा— काञ्चनशैलशिलायां तदर्हा कारितो नृत्यम्॥ अनेन नितम्बस्य पीवरत्वेन काञ्चनशिलासाम्यं काञ्च्याश्च बर्हिसाम्यं प्रकाशितम्। विचक्षणा— दत्ता वलयावलयः करकमलप्रकोष्ठनालयुगे। राजा— तद्वद किं न शोभते विपरीतं मदनतूणीरम्॥ विचक्षणा— कण्ठे तस्याः स्थापितः षाण्मासिकमौक्तिकानां वरहारः। राजा— सेवते तत्पङ्क्तिभिर्मुखचन्द्रं तारानिकरः॥

द्वितीयं जवनिकान्तरम् ५७ विचक्षणा— उहएसु वि सवणेसुं णिवेसिअं रयणकुंडलजुअं से। राजा— ता वअणमम्महरहो दोहि वि चक्केहिं चंकमिदो ॥ १८ ॥ विचक्षणा— जग्गंअणजणिदपसाहणाईं जादाईं तीए कन्नाएँ णअणाईं। राजा— ता उप्पीउ णअफुल्लमसिलिम्मुहे पंचबाणस्स ॥ १९ ॥ विचक्षणा— कुडिलालकाण माला ललाडलोलग्गसंगिणी रहआ। ━━━━━━━━━━━━━━━━━━━━━━━━━ तारकानिकरः पङ्क्तिभिः श्रेणीभिः कृत्वा मुखचन्द्रं सेवते तदित्यन्वयः । तया च मुक्ताहारस्य तारकानिकरोपमा व्यज्यते । विचक्षणा— उभयोरपि श्रवणयोर्निवेशितं रत्नकुण्डलयुगं तस्याः । राजा— तद्वदनमन्मथरथो द्वाभ्यामिव चक्राभ्यां सङ्क्रमितः ॥ चङ्क्रमितो युक्त इत्यर्थः । अत्र कुण्डलयुगलस्य चक्रद्वयसाम्यं द्योत्यते । विचक्षणा— जाग्याञ्जनजनितप्रसाधने जाते तस्याः ( इने ) नयने । राजा—

५८ कर्पूरमञ्जरी राजा— ता ससिविंबस्सोवरि वहइ मज्झाउ¹ सारंगो ॥ २० ॥ विचक्षणा— घणसारतारणअणाइ गूढकुसुमुच्चओ चिहुरभारो । राजा— ससिराहुमल्लजुज्झं व दंसिदमैणणअणाए ॥ २१ ॥ विचक्षणा— इअ देवीअ जहिच्छं पसाहणेहिं पसाहिआ कुमरी । राजा— ता केलिकाणणमही विहूसिआ सुरहिलच्छीए ॥ २२ ॥ राजा— तच्छशिविम्बस्योपरि वर्तते मध्ये कृष्ण सारङ्गः ॥ शशिविम्बसाम्यं वदनस्य कृष्णमृगसाम्यं चालकमालानामेनेनोक्तम् । विचक्षणा— घनसारतारनयनाया गूढकुसुमोच्चयश्चिकुरभारः । राजा— शशिराहुमल्लयुद्धमिव दर्शितमेणनयनायाम् ॥ कुसुमनिचयस्य चन्द्रसादृश्यम्, चिकुरकलापस्य च राहुसाम्यमभिव्यञ्जितम् । 'मल्लयुद्धम्' इत्यनेन तयोः समबलत्वं तेन च तुल्यशोभत्वं ध्वन्यते । विचक्षणा— इति देव्या यथेच्छं प्रसाधनैः प्रसाधिता कुमारी । राजा— तत्केलिकाननमही विभूषिता सुरभिलक्ष्म्या ॥ केलीनां क्रीडानां काननं समूहस्तत्संबन्धिनी मही उत्पत्तिस्थानम् । तत्साम्यं कुमार्यां वसन्तलक्ष्मीसाम्यं देव्या अनेन प्रकटितम् । 1 'स्मितसारंग' इति टीगपाठः ।

द्वितीयं जवनिकान्तरम् ५९ विदूषकः—देव ! इदं परमत्थ विष्णवीअदि,— जिस्सा दिट्ठी संरलधवला कज्जलं तीअ जोग्गं जा णिन्थिण्णत्थणकलसिणी रेहइ तीअ हारो । चक्राआरे रमणफलए को वि फंचीमरट्टो जिस्सा तिस्सा पुण वि भणिमो भूसणं दूसणं च ॥ २३ ॥ राजा—( पुनन्नामुपधाय । ) तिवलिवलियणाहीगाहमूलेसु लग्गं थणकलसणिभगाडम्बररेसुसमंत । विदूषकः— देव ! एतत्परमार्थं विज्ञाप्यते,— यस्या दृष्टिस्तरळधवला कज्जलं तस्या योग्यं या निस्तीर्णस्तनकलशिनी शोभते तस्या हारः । चक्राकारे रमणफलके कोऽपि काञ्च्याडम्बरो यस्यास्तस्याः पुनरपि भणामो भूषणं दूषणं च ॥ यदेतादृशं दृष्ट्यादि कान्तायान्तिष्ठति तदा भूषणाभावेऽपि शोभाविशेषः स्वाभा- विकोऽवभासत एवेति नातिप्रयोजनवत्त्वाद्वूषणमपि दूषणमिव भवतीति दूषणभूष- णयोः प्रयोजनाभावत्वेन साम्यम् । अथवा दूषणं भूषणमिव भवति । अयमर्थः— एतादृशदृष्ट्यादिमत्या अष्ठमीचीनवस्तुसंबन्धोऽपि भूषणतुल्य एव भवति, शोभा- हरित्वाभावात् । अत एव कविचूडामणिना भगवता कालिदासेनापि कथितम्—‘किमिव हि मधुराणां मण्डनं नाकृतीनाम्’ (शाकु० १।२०) इति । राजा— त्रिवलिवलितनाभीगाढमूलेषु लग्नं स्तनकलशनिभागाडम्बरेष्वनुसमन्तम् । १ विससण इदं पत्थ मिति पाठः क्वचित् पठ्यते । २ ‘तरलधवळा’ इति टीका- युक्तः ।

६० कर्पूरमञ्जरी जलणिबिडमिमीए लण्हअं ण्हाणपोसं पिसुणदि तणुलच्छीलंगिमं चंगिमं च ॥ २४ ॥ विदूषकः—(सक्रोधमिव ।) भो ! मए सव्वालंकारसहिदा वण्णिदा । तुमं पुण जलविलुत्तपसाहणं जेव सुमरसि । ता किं ण सुदं देवेण ? णिस्सग्गचंगस्स वि माणुसस्स सोहा समुम्मीलदि भूसणेहिं । मणीणं जच्चाणं वि कंचणेण विभूसणे लब्भदि का वि लच्छी ॥ २५ ॥ राजा— मुद्धाण णाम हिअआईं हरंति हंत णेवच्छकप्पणगुणेण णिअंबिणीओ । छेआ पुणो पअइचंगिमभावणिज्जा दक्खारसो ण मधुरज्जइ सक्कराए ॥ २६ ॥ जलनिबिडमेतस्याः श्लक्ष्णं स्नानपोषं पिशुनयति तनुयष्टितारुण्यं चङ्गिमानं च ॥ 'लंगिमं' तारुण्यमिति देशी । विदूषकः— भोः ! मया सर्वालंकारसहिता वर्णिता । त्वं पुनर्जंलविलुप्तप्रसाधनामेव स्मरसि । तत्किं न श्रुतं देवेन ? निसर्गचङ्गस्यापि मानुषस्य शोभा समुन्मीलति भूषणैः । मणीनां जात्यानामपि काञ्चनेन विभूषणे लभ्यते कापि लक्ष्मीः ॥ राजा— मुग्धानां नाम हृदयानि हरन्ति हन्त नेपथ्यकल्पनगुणेन नितम्बिन्यः । च्छेकाः पुनः प्रकृतिचङ्गिमभावनीया द्राक्षारसो न मधुरीयति शर्करया ॥ येषां हृदयानि नेपथ्यकल्पनगुणेन नितम्बिन्यो हरन्ति ते मुग्धा अविदग्धा एवे- त्याशयः । ये पुनः प्रकृत्या स्वभावेन यच्चङ्गिमा सौन्दर्यं यासां नितम्बिनीनां सा 1 'णिरन्त...' इति टीकायुतः पाठः । 2 'मधुरि' इति टीकायुक्तः पाठः ।

द्वितीयं जवनिकान्तरम् ६१ विचक्षणा—जधा देवेण आदिद्वं,— थोराणं थणआण कण्णकलिआलंघीए अच्छीण वा भूचंदस्स मुहस्स कंतिसरिआसोत्तस्स गत्तस्स अ । को णेवच्छकलाअ कीरदि गुणो जं तं पि सव्वं पिअं संजुत्तव्वं सुण तत्थ कारणमिमं रुढीअ का खंडणा ॥ २७ ॥ राजा— (विदूषकमुद्दिश्य ।) सुप्पंजल कविंजल! एस सिक्खावीअसि । किं कज्जं कित्तिमेणं विरअणविधिणा सो णटीणं विडंबो तं चंगं जं णिसग्गं जणमणहरणं तेण सीमंतिणीओ । भावयन्ति त एव विदग्धा इति भावः । द्राक्षारससाम्यं स्वभावसौन्दर्यस्य, शर्करा- साम्यं भूषणानामुपदर्शितम् । विचक्षणा— यथा देवेनादिष्टम्,— स्थूलानां स्तनानां कर्णकलिकाल्लङ्घिनोरक्षणोर्वा भ्रूचन्द्रस्य मुखस्य कान्तिसरित्स्रोतसो गात्रस्य च । को नेपथ्यकलाभिः क्रियते गुणो यत्तदपि सर्वं प्रियं संयुक्तं शृणु तत्र कारणमिदं रूढेः का खण्डना ॥ रूढिर्यौगमपवदतीति यथा रूढेर्योगापेक्षया प्राबल्यं तथा सहजसौन्दर्यस्यापीति भावः । राजा— सुप्राञ्जल कपिञ्जल ! एष शिक्ष्यसे । सुप्राञ्जलः सुसरलः । तथा च चातुर्यलेशोऽपि तव नास्तीति भावः । किं कार्यं कृत्रिमेण विरचनविधिना स नटीनां विडम्ब- स्तच्चङ्गं यन्निजार्ङ्ग जनमनोहारं तेन सीमन्तिन्यः । १ अत्र 'भूचंदरस मुहस्स कंति' इति टीकारामुद्रतः पाठः। २ अत्र 'संजुत्तं' इति टीरायुक्तः पाठः। ३ अत्र 'णिजंगं' इति टीकारामुद्रतः पाठः ।

६२ कर्पूरमञ्जरी

जस्सिं सव्वंगसंगो सअलगुणगणो सो अदंभो अलंभो तस्सिं णेच्छंति काले परमसुहअरे किं पि णेवच्छलच्छिं २८॥ विचक्षणा—देव ! इदं विण्णवीअदि—ण केवलं देवीणिअमेण तिस्सा अणुगद म्हि । तारामेत्तीए वि सहित्तणं उंवगदा कप्पूरमंजरीए । तेण तकज्जसज्जा अहं पुण ओलग्गाविआ भविस्सं । यस्मिन्सर्वाङ्गसङ्गः सकलगुणगण सोऽदम्भोऽलभ्य- स्तस्मिन्नेच्छन्ति काले परमसुखकरे कामपि नेपथ्यलक्ष्मीम् ॥ कृत्रिमभूषाभिर्नटीनामेवापाततः सौन्दर्यमुल्लसति, न पुनः सीमन्तिनीनामित्यर्थः । यच्चाङ्गं समीचीनं तदेव निजाङ्गं स्वस्यात्माह्लादकमित्याह्लादकत्वविशिष्टान्तेऽङ्गमानवान- काङ्गपदवाच्यसक्रमादयमर्थान्तरसक्रमितवाच्यो लक्षणागूलो ध्वनि । तेन स्वाभावि- काङ्गसौन्दर्येणैव सीमन्तिन्य कुलाङ्गना जनमनोहरणं भवन्तीत्यर्थ । यद्यपि 'जनमनो- हरणम्' इति भिन्नलिङ्गवचनं पदं न 'सीमन्तिन्य' इति पदस्य विशेषणत्वमर्हति, तथापि षत्तुपदाध्याहारेण योज्यम् । तस्य चाजहल्लिङ्गत्वान्न दोष इति ध्येयम् । अथवा जनमनोहरणमिति काकाक्षिगोलकन्यायेनोभयत्र सम्बध्यते । तथा च यन्निजाङ्गं स्वाभाविकामं यत्तदेव जनमनोहरणं भवतीत्यर्थ । यदा पूर्वेनैव सम्बध्यते तदा च तेन स्वाभाविकाङ्गचकृत्वेनैव सीमन्तिन्यो भवन्ति । तासामुक्तसीमन्तिनीत्वं भवती- त्यर्थः । तथा च 'सीमन्तिनी'पदवाच्यसंबधोत्तमत्वविशिष्टे तस्मिन्सक्रमादनापयर्या- न्तरसक्रमितवाच्यो ध्वनि । यस्मिन्काले सकल सम्पूर्णो गुणाना गण समूहः सर्वाङ्ग- सङ्ग सर्वेष्वङ्गेषु सङ्गो यस्य तादृशः, अदम्भः न विद्यते दम्भो यत्रासावदम्भः स्वाभाविकः, अलभ्योऽप्राप्योऽस्ति, अथ च तस्मिन्काले सुखकरे कामपि नेपथ्य- लक्ष्मीं नेच्छन्ति । विदग्धा इति शेष । निजाङ्कमित्येकवचनेनैकमाप स्वाभाविक- सुन्दरमङ्गं लोकहृदयहरणसमर्थं किमुत सर्वाङ्गीणीति ध्वन्यते । अत्र च नटीसीम- न्तिन्योर्व्यतिरेकालंकारो व्यङ्ग्यः । छेकास्त्यनुप्रासातालङ्कारावप्यत्र बोध्यौ । तल्लक्षणं प्रागेवोक्तम् । विचक्षणा— देव ! एतद्विज्ञाप्यते—न केवलं देव्या नियोगेन तस्या अनुगतास्मि । तारा- मैत्र्यापि सखीत्वं प्राप्ता कर्पूरमञ्जर्याः । तेन तत्कार्ये सज्जाऽहं पुनः सेवरीभूय निवेशयिष्यामि । 1 'देवीद निओएण' इति टीकानुमारी पाठः । 2 'पत्ता कप्पूरमञ्जरीए' इति टीश- रूपपाठः । 3 'भवित्त णिवेइस्स' इति टीशपाठः ।

द्वितीयं जवनिकान्तरम् ६३ तिस्सा तापपरिक्खणाअ णिहिदो हत्थो थणुत्थंगदो दाहुट्टामरिदो सहीहि बहुसो हेलाअ कट्ठिज्जदि । किं सेणावि इमं णिसागय गिरं संतोसणिं तासिणिं हत्थच्छत्तणिवारिदिन्दुकिरणा बोलेइ सा जामिणीं ॥ २९ ॥ कज्जसेसं कविंजलो णिवेदइस्सदि । तं च देवेण सहा कादव्वं । ( इति परिक्रम्य निष्क्रान्ता ।) राजा—वअस्स ! किं पुण तं कज्जसेसं ? विदूषकः—अज्ज हिंदोलअचउत्थी । तहिं गोरिं कट्टुअ देवीए तस्यास्तापपरीक्षणाय निहितो हस्तः स्तनोत्सङ्गगतो दाहोत्तामरितः सखीभिर्बहुशो हेलया कृष्यते । किं सैनापीमां निशामय गिरं संतोषिणीं त्रासिनीं हस्तच्छत्रनिवारितेन्दुकिरणानिवाहयति सा यामिनीम् ॥ हेलयाऽवज्ञया कृष्यते तयेति शेषः । स्वसरन्धिविरहार्तिभाजनत्वेन । त्रासिनी- मिति चैतादृशदुःसहवियोगपीडितापि स्वहस्तेनैवेन्दुकरा निवारयतीति त्रेषा हस्तस्प- र्शोऽशङ्कनीयमपि मरणादिकं समाधत्त इति त्रासकरत्वम् । अथवा बलात्कारेण यथेन्दु- किरणस्पर्शो भवति तथा विधत्त इत्यतिदुष्करमिति त्रासकरणं ज्ञेयम् । यद्वा हस्त- च्छत्रेत्यनेन हस्तस्य सम्पूर्णशरीरे चन्द्रकरस्पर्शानिवारकत्वासंभवादात्मानवच्छन्नप्रदेशे शशिकरस्पर्शावश्यभावस्तत्कारणं वेदितव्यः । अनेन विधानं नाम मुखसन्ध्यङ्गमु- क्तम् । तल्लक्षणं दशरूपके (१।२८)—'विधानं सुखदुःखकृत्' इति । अत्रापि रूपकच्छेकानुप्रासादयः शब्दार्थालंकारा ऊह्याः । लक्षणं तूक्तम् । कार्यशेषं कपिञ्जलो निवेदयिष्यति । तच्च देवेन तथा कर्तव्यम् । कपिञ्जलो विदूषकः । राजा— वयस्य ! किं पुनस्तत्कार्यशेषम् ! विदूषकः— अद्य हिन्दोलनचतुर्थी । यत्र गौरीं कृत्वा देव्या कर्पूरमञ्जरी हिन्दोलके आरोह-

६४ कर्पूरमञ्जरी कप्पूरमंजरी हिंदोलए आरोइदव्वा । ता मरगअपुंजट्ठिदेण ज्जेव देवेण कप्पूरमंजरी हिंदोलयंती दट्ठव्वा । एदं तं कज्जसेसं । राजा—( विचिन्त्य ।) ता अदिणिउणा वि छलिदा देवी । विदूषकः—पाइदा जुण्णमज्जारिआ दुद्धं त्ति तकं । राजा—वअस्स ! को अण्णो तुम्हाहिंतो मे कज्जसज्जो ? को अण्णो चंदाहिंतो समुद्दवड्ढणणिट्ठो ? ( इति परिक्रम्य कदलीगृहप्रवेशं नाटयतः । ) विदूषकः—इअं उत्तुंगा फलिहमणिवेदिया । ता इह उवविसदु पिअवअस्सो । ( राजा तथा करोति ।) विदूषकः—( हस्तमुद्यम्य ) भो दीसदु पुण्णिमाचंदो । राजा—( विलोक्य ।) अए ! दोलारूढाए मह वल्लहाए वअणं पुण्णिमाचंदो त्ति णिद्दिसदि । ( समन्तादवलोक्य । ) यितव्या । तन्मरकतपुञ्जस्थितेनैव देवेन कर्पूरमञ्जरी हिन्दोलयंती द्रष्टव्या । एतत्- त्कार्यशेषम् । राजा—तदतिनिपुणापि छलिता देवी । विदूषकः—पायिता जीर्णमार्जारिका दुग्धमिति तक्रम् । मरकतपुञ्जः प्रासादविशेषः । राजा—कोऽन्यो युष्मत्तो मम कार्यसज्जः ? कोऽन्यश्चन्द्रतः समुद्रवर्धननिष्ठः ? विदूषकः— इयमुत्तुङ्गा स्फटिकमणिवेदिका । तदिहोपविशतु प्रियवयस्यः । विदूषकः— भोः ! दृश्यतां पूर्णिमाचन्द्रः । राजा— अए ! दोलारूढाया मम वल्लभाया वदनं पूर्णिमाचन्द्र इति निर्दिशति ।

द्वितीयं जवनिकान्तरम् ६५ विच्छाअंतो णअररमणीमंडलस्साणणाई विच्छालँतो गअणकुहरं कंतिजोण्हाजलेण । पेच्छंतीणं हिअअणिहिदं णिद्दलंत्तो अ दप्पं दोलालीलासरलतरलो दीसए से मुहेंदू ॥ ३० ॥ अवि अ,— उत्तोहिं गोउरेहिं धुअवधवलवडाडंयरिल्लावलीहिं घंटाहिं विंदुरिल्हासुरतरणिविमाणाणुसारं लहंती । पाआरं लंघअंती कुणदि रववसा उण्णमंती णमंती एंती जंती अ दोला जणमणहरणी चुट्टँणुव्वुट्टणेहिं ॥ ३१॥ विच्छाययन्नगररमणीमण्डलस्याननानि प्रक्षालयन् गगनकुहरं कान्तिज्योत्स्नाजलेन । प्रेक्षमाणानां हृदयनिहितं निर्दलयंश्च दर्पं दोलालीलासरलतरलो दृश्यतेऽस्या मुखेन्दुः ॥ विच्छाययन् विगतच्छायानि कुर्वन्, म्लानीकुर्वन्नित्यर्थः । कान्तिरेव ज्योत्स्ना चन्द्रिका तया जलं चाकचक्यं तेन गगनं खमेव कुहरं क्षालयन्प्रक्षालयन् । जलेन क्षालनमुचितमेवेति भावः । 'सरलतरल' इत्यान्दोलनवशाद्यातायातमाचरन्नित्यर्थः । अत्र रूपकश्लेषानुवृत्त्यनुप्रामरूपाः शब्दार्थालंकारा विभाव्याः । स्पष्टमन्यत् । अपि च,— उच्चेषु गोपुरेषु धवलध्वजपटाडम्बरवद्धावलीषु घण्टाभिर्विदारणसुरतरणिविमानानुसारं वहन्ती । प्राकारं लङ्घयन्ती करोति रववशादुन्नमन्ती नमन्ती आयान्ती यान्ती च दोला जनमनोहरं कर्णोत्पत्यणैः ॥ धवलध्वजपटाडम्बराणां बद्धा आवल्यो येषु तादृशेषु गोपुरेषु पुरद्वारेषु घण्टाभिर्दर्शितं विदारं वेगेन गच्छत्सुरतरणिविमानं देवाहनावमानं तदनु- रूपं तत्तुल्यं प्राकारं वहन्ती विभावा । कर्णोत्पत्यणैः रववशाल्लङ्घयन्ती । राहत्वम- १ 'पच्छावेन्तो' इति टीकानुगतः पाठः । २ 'धवलध्वजपडाडम्बरी' इति टीकानुगतः पाठः । ३ 'करणे कहुणुवट्ठणेहिं' इति टीकानुगतपाठः । क० ग० ०

६६ कर्पूरमञ्जरी अवि अ,— रणंतमणिणेउरं झणझणंतहारच्छडं कलक्कणिदकिंकिणीमुहरमेहलाडंबरं । विलोलवलआवलीजणिदमंजुसिंजारवं ण कस्स मणमोहणं ससिमुहीअ हिंदोलणं ॥ ३२ ॥ विदूषकः—भो ! सुत्तआरो तुवं । अहं पुण वित्तिआरो भविअ वित्थरेण वण्णेमि । नादुज्जमन्ती ऊर्ध्वं गच्छन्ती नमन्ती पुनरधो यान्ती आयान्ती यान्ती चेयं दोला कस्य कामिनो मनोहरं न करोति ? अपि तु सर्वस्य विधत्त इति काक्वर्थः । इयं च दोलारूपवर्णनाजातिः । तल्लक्षणं काव्यादर्शो दण्डिनोक्तम् ( २।८ )— 'नानावस्थं पदार्थानां रूपं साक्षाद्विवृण्वती । स्वभावोक्तिश्च जातिश्चेत्याद्या साऽलंकृति- *र्यथा ॥' इति । उपमानुप्रासादयोऽन्येऽप्यलंकारा ज्ञेयाः । अपि च,— रणन्मणिनूपुरं झणझणायमानहारच्छटं कलक्वणितकिङ्किणीमुखरमेखलाडम्बरम् । विलोलवलयावलीजनितमञ्जुशिञ्जारवं न कस्य मनोमोहनं शशिमुख्या हिन्दोलनम् ॥ शशिमुख्या हिन्दोलनं कस्य कामिनो मनोमोहनं न, मनो मानसं मोहयति तदेतादृशं न ? अपि तु सर्वस्यापीति यावत् । किम्भूतम् ? रणन्तो मणयो ययोस्ते रणन्मणी, रणन्मणी नूपुरे यत्र तत् । झणझणायमाना हारच्छटा यत्र । इत्यादी- नामान्दोलनविशेषणत्वम् । अथवा क्रियाविशेषणानि । यद्वा,—शशिमुख्या रणन्नू- पुरादिभ्यस्य मनोमोहनं नेति प्रत्येकमत्र विधिः । तदा दोलनाशे प्रचण्डमन्थाने स्परगम् । 'रण शब्दे' । 'झणझणायमानं' इत्यादि शब्दानुकरणम् । अत्राप्यनुप्रास- जात्याद्याः शब्दार्थालंकारा ज्ञेयाः । विदूषकः— भोः ! सूत्रकारस्त्वम् । अहं पुनर्वृत्तिकारो भूत्वा विस्तरेण वर्णयामि । सूचनाद्धि सूत्रत्वं भवतीति भावः । अत एव तल्लक्षणमुक्तमभियुक्तैः— 'अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥' इति ।

द्वितीयं जवनिकान्तरम् ६७ उत्तरिट्टिअथणग्गब्भारचेपिअं चरणपंकआण जुअं । पुक्कारइ व मअणं रणंतमणिणेउररवेण ॥ ३३ ॥ हिंदोलणलीलाललणलंपडं रह चकयकलं रमणं । किलिकिलइ व सहरिसं कंचीमणिकिंकणिरवेण ॥ ३४ ॥ तारंदोलणहेलामलंतसरिअच्छलेण से हारो । विक्किरइ व कुसुमाउहणरवइणो कित्तिवल्लीओ ॥ ३५ ॥ संमुहपवणपओहिययरिल्लदरदंसिआई अंगाई । हक्कारिऊण मअणं पासम्मि णिवेसअंति व ॥ ३६ ॥ ताडंकजुअं गंटेसु बहलघुसिणेसु घडणलीलाहिं । देइ व दोलंदोलणरेहाओ गणणकोट्टेण ॥ ३७ ॥ उत्तरिखितस्तनप्राग्भारपीडितं चरणपङ्कजयुगं तस्याः । पूत्कारयतीव मदनं रणन्मणिनूपुररवेण ॥ एतन्मणिनूपुररवश्रवणसमकालमेव रागिणां मदनकृता मनोविद्रुदना भवतीति भावः । अत्रापि जात्युत्प्रेक्षे अलङ्कारौ । हिन्दोलनलीलाललनलम्पटं चक्रवकुलं रमणम् । किलिकिलायतीव सहर्षं काञ्चीमणिकिङ्किणीरवेण ॥ अत्रापि किलिकिलायति शब्दानुकरणम् । रमणं जपनम् । दोलान्दोलनलीलामलत्सरिदाच्छलेनास्या हारः । विसारयतीव कुसुमायुधनरपतेः कीर्तिवल्लीः ॥ सरित् मुक्तापङ्क्तिः । अत्रोत्प्रेक्षालेङ्कारः । संमुखपवनप्रेरितोपरिग्रहे दरदर्शिताम्यङ्गानि । आह्वाय मदनं पार्श्वे निवेशयन्तीव ॥ अत्रापि स एवालङ्कारः । ताटङ्कयुगं गण्डयोर्बहलघुसृणसंर्घटनलीलाभिः । ददातीव दोलान्दोलनरेखा गणनाकोष्ठकेन ॥ अत्राप्युत्प्रेक्षालङ्कारः । १ "उत्तरिट्ठिअथणवग्गभारचेपिअं" इति रीशपाठः । २ 'दोलंदोलन' इति टी० पाठः ।