कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 75, कुल 172 में से
संदर्भ में पढ़ेंद्वितीयं जवनिकान्तरम् ६७ उत्तरिट्टिअथणग्गब्भारचेपिअं चरणपंकआण जुअं । पुक्कारइ व मअणं रणंतमणिणेउररवेण ॥ ३३ ॥ हिंदोलणलीलाललणलंपडं रह चकयकलं रमणं । किलिकिलइ व सहरिसं कंचीमणिकिंकणिरवेण ॥ ३४ ॥ तारंदोलणहेलामलंतसरिअच्छलेण से हारो । विक्किरइ व कुसुमाउहणरवइणो कित्तिवल्लीओ ॥ ३५ ॥ संमुहपवणपओहिययरिल्लदरदंसिआई अंगाई । हक्कारिऊण मअणं पासम्मि णिवेसअंति व ॥ ३६ ॥ ताडंकजुअं गंटेसु बहलघुसिणेसु घडणलीलाहिं । देइ व दोलंदोलणरेहाओ गणणकोट्टेण ॥ ३७ ॥ उत्तरिखितस्तनप्राग्भारपीडितं चरणपङ्कजयुगं तस्याः । पूत्कारयतीव मदनं रणन्मणिनूपुररवेण ॥ एतन्मणिनूपुररवश्रवणसमकालमेव रागिणां मदनकृता मनोविद्रुदना भवतीति भावः । अत्रापि जात्युत्प्रेक्षे अलङ्कारौ । हिन्दोलनलीलाललनलम्पटं चक्रवकुलं रमणम् । किलिकिलायतीव सहर्षं काञ्चीमणिकिङ्किणीरवेण ॥ अत्रापि किलिकिलायति शब्दानुकरणम् । रमणं जपनम् । दोलान्दोलनलीलामलत्सरिदाच्छलेनास्या हारः । विसारयतीव कुसुमायुधनरपतेः कीर्तिवल्लीः ॥ सरित् मुक्तापङ्क्तिः । अत्रोत्प्रेक्षालेङ्कारः । संमुखपवनप्रेरितोपरिग्रहे दरदर्शिताम्यङ्गानि । आह्वाय मदनं पार्श्वे निवेशयन्तीव ॥ अत्रापि स एवालङ्कारः । ताटङ्कयुगं गण्डयोर्बहलघुसृणसंर्घटनलीलाभिः । ददातीव दोलान्दोलनरेखा गणनाकोष्ठकेन ॥ अत्राप्युत्प्रेक्षालङ्कारः । १ "उत्तरिट्ठिअथणवग्गभारचेपिअं" इति रीशपाठः । २ 'दोलंदोलन' इति टी० पाठः ।