भारतकोश
कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

Karpuramanjari Sattaka of Rajasekhara with Commentary

महाकवि राजशेखर द्वारा

DevanagariHindipublished172 पृष्ठ

पृष्ठ 66, कुल 172 में से

संदर्भ में पढ़ें
पृष्ठ 66

५८ कर्पूरमञ्जरी राजा— ता ससिविंबस्सोवरि वहइ मज्झाउ¹ सारंगो ॥ २० ॥ विचक्षणा— घणसारतारणअणाइ गूढकुसुमुच्चओ चिहुरभारो । राजा— ससिराहुमल्लजुज्झं व दंसिदमैणणअणाए ॥ २१ ॥ विचक्षणा— इअ देवीअ जहिच्छं पसाहणेहिं पसाहिआ कुमरी । राजा— ता केलिकाणणमही विहूसिआ सुरहिलच्छीए ॥ २२ ॥ राजा— तच्छशिविम्बस्योपरि वर्तते मध्ये कृष्ण सारङ्गः ॥ शशिविम्बसाम्यं वदनस्य कृष्णमृगसाम्यं चालकमालानामेनेनोक्तम् । विचक्षणा— घनसारतारनयनाया गूढकुसुमोच्चयश्चिकुरभारः । राजा— शशिराहुमल्लयुद्धमिव दर्शितमेणनयनायाम् ॥ कुसुमनिचयस्य चन्द्रसादृश्यम्, चिकुरकलापस्य च राहुसाम्यमभिव्यञ्जितम् । 'मल्लयुद्धम्' इत्यनेन तयोः समबलत्वं तेन च तुल्यशोभत्वं ध्वन्यते । विचक्षणा— इति देव्या यथेच्छं प्रसाधनैः प्रसाधिता कुमारी । राजा— तत्केलिकाननमही विभूषिता सुरभिलक्ष्म्या ॥ केलीनां क्रीडानां काननं समूहस्तत्संबन्धिनी मही उत्पत्तिस्थानम् । तत्साम्यं कुमार्यां वसन्तलक्ष्मीसाम्यं देव्या अनेन प्रकटितम् । 1 'स्मितसारंग' इति टीगपाठः ।