कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 71, कुल 172 में से
संदर्भ में पढ़ेंद्वितीयं जवनिकान्तरम् ६३ तिस्सा तापपरिक्खणाअ णिहिदो हत्थो थणुत्थंगदो दाहुट्टामरिदो सहीहि बहुसो हेलाअ कट्ठिज्जदि । किं सेणावि इमं णिसागय गिरं संतोसणिं तासिणिं हत्थच्छत्तणिवारिदिन्दुकिरणा बोलेइ सा जामिणीं ॥ २९ ॥ कज्जसेसं कविंजलो णिवेदइस्सदि । तं च देवेण सहा कादव्वं । ( इति परिक्रम्य निष्क्रान्ता ।) राजा—वअस्स ! किं पुण तं कज्जसेसं ? विदूषकः—अज्ज हिंदोलअचउत्थी । तहिं गोरिं कट्टुअ देवीए तस्यास्तापपरीक्षणाय निहितो हस्तः स्तनोत्सङ्गगतो दाहोत्तामरितः सखीभिर्बहुशो हेलया कृष्यते । किं सैनापीमां निशामय गिरं संतोषिणीं त्रासिनीं हस्तच्छत्रनिवारितेन्दुकिरणानिवाहयति सा यामिनीम् ॥ हेलयाऽवज्ञया कृष्यते तयेति शेषः । स्वसरन्धिविरहार्तिभाजनत्वेन । त्रासिनी- मिति चैतादृशदुःसहवियोगपीडितापि स्वहस्तेनैवेन्दुकरा निवारयतीति त्रेषा हस्तस्प- र्शोऽशङ्कनीयमपि मरणादिकं समाधत्त इति त्रासकरत्वम् । अथवा बलात्कारेण यथेन्दु- किरणस्पर्शो भवति तथा विधत्त इत्यतिदुष्करमिति त्रासकरणं ज्ञेयम् । यद्वा हस्त- च्छत्रेत्यनेन हस्तस्य सम्पूर्णशरीरे चन्द्रकरस्पर्शानिवारकत्वासंभवादात्मानवच्छन्नप्रदेशे शशिकरस्पर्शावश्यभावस्तत्कारणं वेदितव्यः । अनेन विधानं नाम मुखसन्ध्यङ्गमु- क्तम् । तल्लक्षणं दशरूपके (१।२८)—'विधानं सुखदुःखकृत्' इति । अत्रापि रूपकच्छेकानुप्रासादयः शब्दार्थालंकारा ऊह्याः । लक्षणं तूक्तम् । कार्यशेषं कपिञ्जलो निवेदयिष्यति । तच्च देवेन तथा कर्तव्यम् । कपिञ्जलो विदूषकः । राजा— वयस्य ! किं पुनस्तत्कार्यशेषम् ! विदूषकः— अद्य हिन्दोलनचतुर्थी । यत्र गौरीं कृत्वा देव्या कर्पूरमञ्जरी हिन्दोलके आरोह-