कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 60, कुल 172 में से
संदर्भ में पढ़ें५२ कर्पूरमञ्जरी राजा—(वाचयति ।) सह दिवसणिसाहिं दीहरा सासदंडा सह मणिवलएहिं बाहधारा गलंति । तुह सुहअ विक्खोए तीअ उव्विग्गिणीए सह अ तणुलदाए दुव्वला जीविदासा ॥ ९ ॥ विचक्षणा—इह जेव एदाए अवस्थाए मह महल्लवहिणीआए सुलक्खणाए ओलग्या भविअ सिलोगो कदो, तं महाराओ सुणदु । (पठति ।) णीसासा हारजट्टीसरिसपसरणा चंदणुच्छोडकारी चंडो देहस्स दाहो सुमरणसरणा हाससोहा मुहम्मि । अंगाणं पंडुभावो दिअहससिकलाकोमलो किं च तीए णिच्चं बाहप्पवाहा तुह सुहअ ! कदे होंति कुल्लाहि तुल्ला ॥ १० ॥ राजा— सह दिवसनिशाभ्यां दीर्घाः श्वासदण्डाः सह मणिवलयैर्बाष्पधारा गलन्ति । तव सुभग ! वियोगे तस्या उद्वेगिन्या सह च तनुलतया दुर्बला जीविताशा ॥ 'श्वासदण्डा' इत्यनेन निश्वासप्राचुर्यं व्यज्यते । इयं च सहोक्तिः । तल्लक्षणमुक्तं वृद्धैः—'सहभावकथनं सहोक्ति' इति । विचक्षणा— इहैवैतस्या अवस्थायां मम ज्येष्ठभगिन्या सुलक्षणया आदेशकारिण्या भूत्वा श्लोकः कृतः, तं महाराजः शृणोतु । णीसासा इति— निश्वासा हारयष्टिसदृशप्रसरणाश्चन्दन स्फोटकारी चण्डो देहस्य दाहः स्मरणसहचरी हासशोभा मुखे । अङ्गानां पाण्डुभावो दिवसशशिकलाकोमलं किं च तस्या नित्यं बाष्पप्रवाहास्तव सुभग ! कृते भवन्ति कुल्याभिस्तुल्याः ॥ १ 'उव्वेअग्गीए' इति टीकाकृतः पाठः । २ 'चंदण फ्फोडकारी' इति टीकाकृतः पाठः । ३ 'सुमरणमरीची' इति टीकाकृतः पाठः ।