कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 59, कुल 172 में से
संदर्भ में पढ़ेंद्वितीयं जवनिकान्तरम् ५१ घेन्दईकुसुमपत्तसंपुडं पाहुडं तुअ सहीए पेसिदं । एणणाहिमसिअण्णसोहिणा तं सिलोअजुअलेण लंछिदं ॥ ७ ॥ ( इति लेखमर्पयति । ) राजा—( प्रसार्य वाचयति । ) हंसिं कुंकुमपंकपिंजरतणुं काऊण अं वंचितो तब्भत्ता किल चक्कवाअघरणी एस त्ति मण्णंतओ । एवं तं मह दुक्कदं परिणदं दुक्खाण सिफ्फाधणं एक्कत्थो वि ण जासि जेण विसअं दिट्ठीतिहाअस्स वि ॥ ८ ॥ ( राजा तदेव द्वित्रिर्वाचयति । ) विदूषकः—एदाईं ताईं मअणरसाअणाईं अक्खराईं । विचक्षणा—दुदिओ उण मए पिअसहीए अवत्थाणिवेदओ कडुअ सिलोओ लिहिदो एत्थ । तं वाचेदु महाराओ । चेतकीकुसुमपत्रसंपुटं प्राभृतं तव सख्या प्रेषितम् । एणनाभिमर्षीवर्णशोभिना तच्छ्लोकयुगलेन लाञ्छितम् ॥ राजा— हंसीं कुङ्कुमपङ्कपिञ्जरतनुं कृत्वा यद्वञ्चित- स्तद्भर्त्ता किल चक्रवाकगृहणीयेति मन्यमानः । एवन्तन्मम दुष्कृतं परिणतं दुःखानां विस्फारकं एकस्थोऽपि न यासि येन विषयं दृष्टिविभागस्यापि ॥ विदूषकः—एतानि तानि मदनरसायनाक्षराणि । विचक्षणा— द्वितीयः पुनर्मया प्रियसख्या अवस्थावेदकः कृत्वा श्लोको लिखितोऽत्र । तं वाचयतु महाराजः ।