भारतकोश
कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

Karpuramanjari Sattaka of Rajasekhara with Commentary

महाकवि राजशेखर द्वारा

DevanagariHindipublished172 पृष्ठ

पृष्ठ 63, कुल 172 में से

संदर्भ में पढ़ें
पृष्ठ 63

द्वितीयं जवनिकान्तरम् ५५ राजा— रोसाणिअ फुडं ता कंचणमयवालियारूअं ॥ १२ ॥ विचक्षणा— मरगअमंजीरजुअं चरणा से लंभिआ वयंसीहिं । राजा— भ्रमिअमहोमुहपंकजजुअलं ता भमरमालाए ॥ १३ ॥ विचक्षणा— रायसुअपिच्छणीलं पट्टंसुअजुमलअ णिवत्था सा । राजा— कअलीअ कंदली ता सरपवणपंपणोलिअदलग्गा ॥ १४ ॥ राजा— उज्वलीकृतं तत्काञ्चनमयपालिकास्वरूपम् ॥ 'रोसाणिअ' इत्युज्ज्वलार्थे देशी । काञ्चनमयेत्यस्य प्रकृतिपीतमेव तद्रूपनिशानौ पीततरेण कुङ्कुमेनोद्वर्तनाच्छोभातिशयो जात इति भावः । विचक्षणा— मरकतमञ्जीरयुगं चरणावस्या लम्भितौ वयस्याभिः । राजा— भ्रमितमधो मुखपङ्कजयुगलं तद्भ्रमरमालया ॥ अस्याश्चरणौ मरकतमञ्जीरयुगं मरकतनूपुरयुगलं लम्भितौ प्रापितौ । तत्स- बद्धौ कृताविति यावत् । भ्रमितेत्यादिना तच्चरणयुगलस्य पङ्कजयुगेन मञ्जीरयुगलस्य च भ्रमरमालया साम्यं प्रदर्शितम् । विचक्षणा— राजशुकपिच्छनीलं पट्टांशुकयुगलकं निवसिता सा । राजा— कदलीकन्दली शरत्पवनविलोलोत्थितदलाग्रा ॥ एतादृशं तद्रूपं कदलीकन्दल्या जघनस्य च तरुणानां साम्यमुक्तम् । 1 'दिणोत्तिअ' इति टीकादृष्टः पाठः । 2 अत्रोपमामाह कालिदासीये मेघदूते (उ. १९) 'संभोगान्ते मम समुचितो हस्तसंवाहनानां यावत्पादः सरसकदलीगर्भ- गौरश्चरस्ताम्' कथं विस्मर्यतैवम् ।