कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 39, कुल 172 में से
संदर्भ में पढ़ें२६ कर्पूरमञ्जरी विदूषकः—आ, दासीए पुत्ति! टेटाकराले, कोससदचट्टाणि, रच्छा- लोट्टणि! एवं मं भणसि! ता मह महाबंभणस्स वअणेण तं तुमं लह जं फग्गुणसमए सोहंजणो दोहलं लहेदि। जं च पामराहितो गलि- बइल्लो लहेदि। विचक्षणा—अहं पुण तुह एवं भणंतस्स णेउरस्स विअ पाअल- भग्गस्स पाएण मुहं चूरइस्सं। अण्णं च, उत्तरासाढापुरस्सरणणक्खत्तणा- मधेअं अंगुजुअलं उप्पाडिअ घलिस्सं। (विदूषकः सरोधं परिक्रामति) (जवनिकान्तरे धिंचिदुमं ।) ईरिसं राउलं दूरेण वंदीअदि जहिं दासी बंभणेण समं पाडिसिद्धिं करेदि। ता अज्जप्पहुदि णिअयसुं- धराअंभणीए चलणसुस्सूसओ भविअ गेहं ज्जेव चिट्ठिस्सं। (सर्वे हसन्ति।)
विदूषकः— 'आ दासीए' इत्यादि व्याख्यातम् (पृ० १९)। एव्वं इति। एवं मां भणसि? तन्मम महाब्राह्मणस्य वचनेन तत्त्वं लभस्व यत्फाल्गुनसमये शोभाञ्जनो दोहदं लभते। यत्पामरेभ्यो बलीवर्दं लभते। फाल्गुनसमय इति धूलीप्रक्षेपादिकम्। बलीवर्द इति नासाच्छेदनादिरर्थः। विचक्षणा— अहं पुनस्त्वयैवं भणतो नूपुरस्येव पादलग्नस्य पादेन मुखं चूर्णयिष्यामि। नूपुरदृष्टान्तेन व्यर्थप्रलापित्वमस्योक्तम्। अण्णं च इति। अन्यच्च, उत्तराषाढापुरःगमननक्षत्रनामधेयमङ्गद्वन्द्वमुत्पाट्य क्षेप्स्यामि। श्रवणसंज्ञकमित्यर्थः। 'घरिस्सं' इति देशी। 'अन्यच्च ते पवननिष्क्रमणगोलक- मार्गविवरणानन्तरं शब्दयित्वा क्षेप्स्यामि' इति क्वचित् पाठः। जवनिकान्तर इति। 'अपटी काण्डपटिका प्रतिसीरा जवनिका तिरस्करिणी' इति शब्दार्णवम्। ईरिसं इति।