कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 38, कुल 172 में से
संदर्भ में पढ़ेंप्रथमं जवनिकान्तरम् २५ • विदूषकः— ( यतितग्रीवम् । ) तुवं उण तहि गच्छ जहिं मे मादाए पढमा दंतावली गदा । ईदिसस्स राउलस्स भद्दं भोदु, जहि चेडिआ बंभणेण समं समसीसिआए दीसदि । मइरा पंचगव्वं च एक्कम्हि भंडे कीरदि, फत्थं माणिकं च समं आहरणे पउंजीअदि । चेटी— इह राउले तं ते भोदु कंठट्ठिदं ज भवअं तिलोअणो सीसे समुव्वहदि । तेणं च दे मुहं चूरीअदु जेण असोअतरु दोहलं लहेदि । विदूषकः— त्वं पुनस्तत्र गच्छ यत्र मे मातुः प्रथमा दन्तावली गता । कर्णकीटिरित्यर्थः । ईंदिसस्स इति । ईदृशस्य राजकुलस्य भद्रं भवतु, यत्र चेटिका ब्राह्मणेन समं समशीर्षिकया दृश्यते । समशीर्षिका प्रतिस्पर्द्धा । मइरा इति । मदिरा पञ्चगव्यं चैकस्मिन्भाण्डे क्रियते, काचं माणिक्यं च सममाभरणे प्रयुज्यते । विचक्षणा— इह राजकुले तत्ते भवतु कण्ठस्थितं यद्भगवांस्त्रिलोचनः शीर्षे समुद्वहति । अर्धचन्द्र इत्यर्थः । तेणं इति । तेन च ते मुखं चूर्यतां येनाशोकतरोर्दोहदं लभते । पादन्यासेनेत्यर्थः । 'पादहताः प्रमदया विकसन्त्यशोकाः' इति प्रसिद्धिः ।