कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 28, कुल 172 में से
संदर्भ में पढ़ेंप्रथमं जवनिकान्तरम् १५ अवमणिदजच्चसुवण्णवण्ण सव्वंगसुंदरतररमणिज्ज, सुहाअ दे भोदु सुरहिसमारंभो । इध हि,— पंडीणं गंडवालीपुलभणचयला कंचिवालावलाणं माणं दोखंडअंता रइरहसअरा चोलसीमंतिणीणं । कण्णाडीणं कुणंता कुरलतरलणं कुंतलीणं पिएसुं गुंफंता नेहगंठिं मलअसिहिरिणो सीअला एंति वादा ॥ १५॥ जयेति । जय जय पूर्वदिङ्गनाभुजङ्ग चम्पारम्पकवर्णपूर लीलानिर्जितराढदेश विक्रमाक्रा- न्तकामरूप हरिकेलीकेलिद्वारक अपमानितजात्यसुवर्णवर्ण सर्वाङ्गसुन्दरतररमणीय, सुखाय ते भवतु सुरभिसमारम्भ । भुजंगः कामुकः । 'राढागाटत्व' 'चङ्गत्व' इति वा पाठः । 'अवमानितकर्णसुव- र्णदान' इति वा पाठ । राज्ञः सर्वाः संबुद्धयः । चम्पाराढाकामरूपहरिकेल्पाख्या देशाः । कामस्य रूपमिति न व्याख्या । प्रक्रमभङ्गापत्तेः । चङ्गत्वं नानाकलाकौश- लस्यम् । आद्ययोः संबुद्धयो रूपत्वम् । हरिकेली कामिनीविशेषैश्वर्येऽप । सुरभिर्वसन्तः । इह हि,— पाण्डीनां गण्डपालीपुलकनचपलाः काञ्चीबालाक्लीनां मानं द्विः खण्डयन्तो रभिरभसकरा चोलसीमन्तिनीनाम् । कर्णाटीनां कुर्वन्तो कुन्तलतरलनं कुन्तलीनां प्रियेपु गुम्फन्तः स्नेहग्रन्थिं मलयशिखरिणः शीतला यान्ति वाताः ॥ पाण्ड्यादयस्तत्तद्देशोद्भवाः स्त्रियः । पुलकनं पुलककरणम् । तरलनं तरलवत्त्व- करणम् । एतेन कामोद्दीपकत्वमुक्तं दाक्षिणात्यवायूनाम् । एतेन तत्तद्देशाधिपत्यं राज्ञो व्यङ्ग्यम् । अन्यथा विपक्षदेशवर्गीनं रोषावहत्वादनौचितीमेव व्रजेत् । णेहेति 'स्नेहेति वा' इत्यनेन विप्रकर्षाभावपक्षे 'उपरि लोपः-' इत्यनेन सलोपः । लक्ष्यवशा- द्दङ्गप्रवृत्तेरङ्गीकारात्, परम्पर 'अथो मनश्चाम्' इति प्राप्तं नलोपं बाधित्व्वा 'न्हह्म- ह्णण्ह्णां प्हुः' इति ण्हादेशः । 'द्वेदों' इति द्विशब्दस्य दोआदेशः । अत्र कारक- हेत्वलंकारः । 'हेतुश्च सूक्ष्मोलेशौ च वाचामुत्तमभूषणम् । कारकश्रापको हेतू तौ स्यामेकविधौ यथा ॥' ( का. २।२१५) इति दण्डिनोक्तत्वात् ।