भारतकोश
कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

Karpuramanjari Sattaka of Rajasekhara with Commentary

महाकवि राजशेखर द्वारा

DevanagariHindipublished172 पृष्ठ

पृष्ठ 24, कुल 172 में से

संदर्भ में पढ़ें
पृष्ठ 24

प्रथमं जवनिकान्तरम् ११ स्थापकः—ता अप्पा किं ण वण्णिदो तेण ? पारिपार्श्वकः—सुणदु, वण्णिदो ज्जेव तक्कालकइणं मज्झम्मि मिअं- कलेहाकधाआरेण अवराइदेण । जधा,— बालकइ कइराओ णिब्भरराअस्स तह उवज्झाओ । इअ जस्स पएहिं परंपराइ माहप्पमारूढं ॥ ९ ॥ सो अत्तस कई सिरिराजसेहरो तिहुअणं पि धवलेन्ति । हरिणंकपाडिसिद्धीअ णिक्कलंका गुणा जस्स ॥ १० ॥ महिला कामिन्य । स्थापकः— तदात्मा किं न वर्णितस्तेन ? पारिपार्श्वकः— शृणु, वर्णित एव तत्कालकवीनां मध्ये मृगाङ्कलेखाकथाकारेणापराजितेन । यथा,— बालकविः कविराजो निर्भयराजस्य तथोपाध्यायः । इत्येतस्य परम्परया आत्मा माहात्म्यमारूढ ॥ यदा तु 'दनि यस्य जयं परम्परामाहात्म्यमारूढम्' इति पाठस्तदा जयोत्कर्षं । आरूढमिति भावे क्तः । इयं च कारणमाला । सा यथा (का. प्र. १०।१२०)— 'यथोत्तरं चेत्पूर्वेषां पूर्वस्यार्थस्य हेतुता । तदा कारणमाला स्यात्' इति । परिकरोऽ- प्यत्र । स यथा (का. प्र १०।११८)—'विशेषणैर्यत्साकूतैरुक्तः परिकरस्तु सः' इति । द्वितीयपाठे आरोहणस्य चेतनधर्मस्य जयेध्यारोपणादुत्तरोत्तरप्रसारित्वलक्षणया परम्परापाधत्वं व्यङ्ग्यम् । सो इति । स एतस्य कविः श्रीराजशेखरस्त्रिभुवनमपि धवलयन्ति । हरिणाङ्कप्रतिसिद्ध्या निष्कलङ्का गुणा यस्य ॥ प्रतिकूलतया सिद्धिस्तत्कार्यकारित्वम् । त्रिभुवनमिति निष्कलङ्का इति च व्यतिरेकः । 'उपमानाद्यदन्यस्य व्यतिरेक स एव सः' (१०।१०५) इति काव्यप्रकाशे । अन्यस्य व्यतिरेके विशेषेणातिरेक आधिक्यं व्यतिरेक इत्यर्थः । 'विस्तराद्भुत संक्षेपै- र्विदधीत प्ररोचनाम्' इत्युक्तत्वात् 'प्रशंसा तु द्विधा ज्ञेया चेतनाचेतनाध्रया । चेत-