कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 24, कुल 172 में से
संदर्भ में पढ़ेंप्रथमं जवनिकान्तरम् ११ स्थापकः—ता अप्पा किं ण वण्णिदो तेण ? पारिपार्श्वकः—सुणदु, वण्णिदो ज्जेव तक्कालकइणं मज्झम्मि मिअं- कलेहाकधाआरेण अवराइदेण । जधा,— बालकइ कइराओ णिब्भरराअस्स तह उवज्झाओ । इअ जस्स पएहिं परंपराइ माहप्पमारूढं ॥ ९ ॥ सो अत्तस कई सिरिराजसेहरो तिहुअणं पि धवलेन्ति । हरिणंकपाडिसिद्धीअ णिक्कलंका गुणा जस्स ॥ १० ॥ महिला कामिन्य । स्थापकः— तदात्मा किं न वर्णितस्तेन ? पारिपार्श्वकः— शृणु, वर्णित एव तत्कालकवीनां मध्ये मृगाङ्कलेखाकथाकारेणापराजितेन । यथा,— बालकविः कविराजो निर्भयराजस्य तथोपाध्यायः । इत्येतस्य परम्परया आत्मा माहात्म्यमारूढ ॥ यदा तु 'दनि यस्य जयं परम्परामाहात्म्यमारूढम्' इति पाठस्तदा जयोत्कर्षं । आरूढमिति भावे क्तः । इयं च कारणमाला । सा यथा (का. प्र. १०।१२०)— 'यथोत्तरं चेत्पूर्वेषां पूर्वस्यार्थस्य हेतुता । तदा कारणमाला स्यात्' इति । परिकरोऽ- प्यत्र । स यथा (का. प्र १०।११८)—'विशेषणैर्यत्साकूतैरुक्तः परिकरस्तु सः' इति । द्वितीयपाठे आरोहणस्य चेतनधर्मस्य जयेध्यारोपणादुत्तरोत्तरप्रसारित्वलक्षणया परम्परापाधत्वं व्यङ्ग्यम् । सो इति । स एतस्य कविः श्रीराजशेखरस्त्रिभुवनमपि धवलयन्ति । हरिणाङ्कप्रतिसिद्ध्या निष्कलङ्का गुणा यस्य ॥ प्रतिकूलतया सिद्धिस्तत्कार्यकारित्वम् । त्रिभुवनमिति निष्कलङ्का इति च व्यतिरेकः । 'उपमानाद्यदन्यस्य व्यतिरेक स एव सः' (१०।१०५) इति काव्यप्रकाशे । अन्यस्य व्यतिरेके विशेषेणातिरेक आधिक्यं व्यतिरेक इत्यर्थः । 'विस्तराद्भुत संक्षेपै- र्विदधीत प्ररोचनाम्' इत्युक्तत्वात् 'प्रशंसा तु द्विधा ज्ञेया चेतनाचेतनाध्रया । चेत-