भारतकोश
कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

Karpuramanjari Sattaka of Rajasekhara with Commentary

महाकवि राजशेखर द्वारा

DevanagariHindipublished172 पृष्ठ

पृष्ठ 18, कुल 172 में से

संदर्भ में पढ़ें
पृष्ठ 18

प्रथमं जवनिकान्तरम् ५ अवि अ,- ईसारोसप्पसाअप्पणइसु बहुसो सग्गगंगाजलेहिं आमूलं पूरिआए तुहिनकरकलारुप्पसिप्पीए रहो । जोण्हामुत्ताहलिहं पणमउलिणिहित्तग्गहत्थेहिं दोहिं अग्घं सिग्धं व देतो जयइ गिरिसुआपायपंकरुहाणं ॥ ४ ॥ तिरेकालङ्कारो व्यङ्ग्यः । ‘महाहिवत्था प्राप्ता चन्द्ररेखाविभूषणा’ (सप्त. ८।१६) इत्यादौ देव्याश्चन्द्रचूडत्वं प्रसिद्धम् । ‘मण्डन’पदेन विरुद्धवैरस्याप्यलंकारकारित्व- सूचनाद्व्यतिरेकालङ्कार एव व्यङ्ग्यः ॥ अवि अ इति । ईर्ष्यारोषप्रसादप्रणतिषु बहुशः स्वर्गगङ्गाजलै- रामूलं पूरितया तुहिनकरकलारूप्यशुक्त्या रहः । ज्योत्स्नामुक्ताफलनिभं नतमौलिनिहिताग्रमग्रहस्ताभ्यां द्वाभ्या- मर्ध्यं शीघ्रमिव ददज्जयति गिरिसुतापादपङ्केरुहयोः ॥ बहुश ईर्ष्यारोषयोः सतोः प्रसादार्थं क्रियमाणासु प्रणतिषु नतमौलिने क्षिप्ता- ग्रहस्ताभ्यां द्वाभ्यां गिरिसुतापादकमलयोश्चन्द्रकलारूप्यशुक्त्या शीघ्रमर्घ्यमिव ददद्रहो जयतीत्यन्वयः । चन्द्रकलायाः शुक्तित्वम् । अन्योऽपि भक्तो जलपूरितया रूप्य- शुक्त्या मुक्तायुक्तं प्रणामपूर्वं हस्ताभ्यामर्घ्यं ददातीत्यर्थक्षेपः । बहुश इति तस्या मानिनीत्वं व्यङ्ग्यम् । स्वर्गगङ्गेति भावित्वमभिप्रेत्युक्तम् । शीघ्रमिति मानवृद्धिभयं व्यङ्ग्यम् । देवीपादयोश्चन्द्रकरासम्बन्धकरणं कदाचिदस्याश्चन्द्रस्योद्दीपकत्वान्मदनावे- शेन मानभङ्ग इति शङ्कया । अत्र रूपकम्—‘उपमैव तिरोभूतभेदा रूपकमुच्यते’ (का २।६६) इति तल्लक्षणात् । अर्घ्यमिवेत्युत्प्रेक्षा—‘अन्यथैव स्थिता वृत्तिश्चेत- नस्येतरस्य वा । अन्यथोत्प्रेक्ष्यते यत्तु तामुत्प्रेक्षां विदुर्बुधा ॥’ (का २।२२१) इत्युक्तत्वात् । ‘परोत्कर्षाक्षमेर्ष्या स्याद्दीनेऽन्याग्मन्द्युतोऽपि वा’ इति रसकलिका- यामुक्तत्वान्मन्दरादिनीरुपसपध्यार्माय्यां हेया गौर्याः । इयं च स्वाधीनभर्तृका । सा यथा तत्रैव—‘स्वाधीनपतिका सा तु यां न मुञ्चति वल्लभः’ इति । अन्यो- ऽप्यवान्तरनायिकाभेदोऽस्या योजनीयः । ‘दाढादयो बहुलम्’ इति ‘शुक्ति’शब्दस्य सिप्पीत्यादेशः । तदुक्तम्—‘अर्धाङ्गीदूर्यशुक्तीनां वधूर्धमिल्लशब्दयोः । रैट्टुवेरील्ल- असिप्पी’ इति । हत्थेहिति ‘आत्त्विदोरान्तर्वतो मतुप्’ इति मतुप् डा । ‘सेवादिषु वा’ इति निहितेत्यत्र या डिरम् ॥