कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 5, कुल 172 में से
संदर्भ में पढ़ें७
तथोपाध्याय 'इति कामराजसमत पाठः. निर्भयराज इति महेन्द्रपालस्यैव नामान्त- रमिति केचित्, महीपालदेवश्च चण्डकौशिकप्रस्तावनायामार्यक्षेमीश्वरेणापि वर्णित . 'कर्णाटीदशनाङ्कित शितमहाराष्ट्रीकटाक्षाद्दत प्रौढान्ध्रीस्तनपीडित प्रणयिनीभ्रू- भङ्गवित्रासित । लाटीबाहुविचेष्टितश्च मलयस्त्रीतर्जनीतर्जित सोऽयं संप्रति राजशे- खरकविर्बाराणसीं वाञ्छति ॥' अयं श्लोक औचित्यविचारचर्चायाम्, 'दातुर्वारिध- रस्य-' इत्यादिश्लोका सुभाषितावल्याम्, 'भासो रामिलसौमिलौ' इत्याद्या श्लोका- श्शार्ङ्गधरपद्धतौ, 'अकालजलदेन्दो सा' इत्याद्या बहव श्लोका सूक्तिमुक्तावलि-सुभा- षितहारावल्यो राजशेखरनाम्ना समुद्धता सन्ति ते च प्रसिद्धेषु राजशेखरग्रन्थेषु न प्राप्यन्ते तस्मात्सन्त्येवेऽपि केचन राजशेखरकृता ग्रन्था इति ज्ञायते 'विद्धि न षट्प्रबन्धान्' इति च बालरामायणप्रस्तावनाया स्वयमेव राजशेखरो वदति. अस्य कवे शार्दूलविक्रीडितच्छन्दोनिबद्धा श्लोका अतिसमीचीना सन्ति. 'शार्दूल- क्रीडितैरेव प्रख्यातो राजशेखर । शिखरीव परं धत्ते सोल्लेङ्घयशेखर ॥' इति सुवृत्ततिलके क्षेमेन्द्र 'आगस्कारिणि कैटभप्रमयने तच्छाडनार्थं रुषा नाभीपङ्कजमभ्रतां गमयितुं जाते प्रयत्ने धिय । खावासोन्नयनोपपादितभयभ्रान्तात्मनस्तत्क्षणादन्त- र्बाष्पपरा पुरातनमुनेर्वाग्दृष्टय पान्तु व ॥' अयं श्लोक सूक्तिमुक्तावलौ राजशे- खराम्तेवासिनाम्ना समुद्धृत तेन राजशेखरस्य कश्चन शिष्योऽपि कविरासीत् — राजशेखरकृतोऽन्यकविपरिचयः — सूक्तिमुक्तावलि-सुभाषितहारावलि-शार्ङ्गधरपद्धतिषु राजशेखरकृता प्राचीनकवि- प्रशंसाश्लोका केचन समुपलभ्यन्ते, ते सर्वेऽप्युत्तरवादेन कविनामक्रमेण समु- द्ध्रियन्ते— अकालजलदेन्दो. सा हृद्या वचनचन्द्रिका । नित्य कविचकोरैर्या पीयते न च हीयते ॥ ( सूक्तिमुक्तावलि , सुभाषितहारावलि ) अकालजलदकवी राजशेखरस्य प्रपितामह आसीत् 'अकालजलदस्य प्रणप्तु ' इति विद्धशालभञ्जिकाप्रस्तावनायाम् 'स मूर्तो यत्रासीद्गुणगण इवाकालजलद सुरानन्द सोऽपि श्रवणपुटपेयेन वचसा । न चान्ये गण्यन्ते-तरुकविराजप्रभृतयो महाभागस्तस्मिन्नयमजनि यायावरकुले ॥ तदामुष्यायणस्य महाराष्ट्रचूडामणेरकाल- जलदस्य चतुर्थो दौर्दुकि ( दौहिकि ) शीलवतीसूनुरुपाध्यायश्रीराजशेखर ' इति