भारतकोश
कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

Karpuramanjari Sattaka of Rajasekhara with Commentary

महाकवि राजशेखर द्वारा

DevanagariHindipublished172 पृष्ठ

पृष्ठ 6, कुल 172 में से

संदर्भ में पढ़ें
पृष्ठ 6

च बालरामायणप्रस्तावनायां वर्तते. अकालजलदकृतः कोऽपि ग्रन्थो नाद्याप्युप- लब्धः, केवलं 'भैकैः कोटरशायिभिः' इत्यादिश्लोकः शार्ङ्गधरपद्धत्यादिषु लभ्यते. ध्वनिनातिगभीरेण काव्यतत्त्वनिवेशिना । आनन्दवर्धनः कस्य नासीदानन्दवर्धनः ॥ (सूक्तिमुक्तावलि, सुभाषितहारावलिः, )

  • काव्यालोकाद्यनेकग्रन्थकर्ता काश्मीरदेशोद्भवोऽवगतिकर्मोपचितमन्त्राशीनोऽयमा- नन्दवर्धनाचार्यः प्रसिद्ध एव. अकालजलदश्लोकैश्चित्रमात्मकृतैरिय । जातः कादम्बरीरामो नाटके प्रवरः कविः ॥ (सूक्तिमुक्तावलिः, ) सरस्वतीव कर्णाटी विजयाङ्का जयत्यसौ । या वैदर्भंगिरां वासः कालिदासादनन्तरम् ॥ (सूक्तिमुक्तावलिः, सुभाषितहारावलिः. ) 'दग्ध्वेऽभूज्जिताशनश्च पुंडिताऽस्मीह्यापारतस्ते सर्वे कवयो भवन्ति गुरवस्तेभ्यो -नमोऽह्यहे । अद्यो यदि गद्यपद्यरचने चेतश्चमत्कुर्वते तेषां मूर्ध्नि ददामि वाम- चरणं कर्णाटराजप्रिया ॥' एतच्छ्लोककर्त्री कदाचिदियमेव विजयाङ्का कर्णाटी स्यात्. एकोऽपि जीयते हन्त कालिदासो न केनचित् । शृङ्गारे ललितोद्गारे कालिदासत्रयी किमु ॥ (सूक्तिमुक्तावलिः, सुभाषितहारावलिः, ) जानकीहरणं कर्तुं रघुवंशे स्थिते सति । कविः कुमारदासश्च रावणश्च यदि क्षमः ॥ (सूक्तिमुक्तावलिः, ) काव्यानुशासनपृष्ठे औचित्यविचारचर्चायां १४४ पृष्ठे उत्तरार्द्धस्यनामोपरि टिप्पणं विलोकनीयम्.