कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 81, कुल 172 में से
संदर्भ में पढ़ेंद्वितीयं जवनिकान्तरम् ७३ विचक्षणा—ता कहिं महाराओ ? विदूषकः—तुह वअणेण मरगअपुंजे चिट्ठदि । विचक्षणा—ता महाराएण सह मरगअपुंजदुआरे चिट्ठ खणं, जेण उहअदंसणे जादे सिसिरोवआरसामग्गीए जलंजली दिज्जदि । विदूषकः—(तामुपसृत्य ।) तर्हि गच्छ जदो णागच्छसि । (इति स्थितः ।) (पुनस्तां प्रति ।) ता कीस दुआरदेसे भविदव्वं ? विचक्षणा—देवीए आदेसेण कप्पूरमंजरी समाअच्छदि । विदूषकः—किं तीए आदेसो ! विचक्षणा—तहि देवीए बालतरुणो तिण्णि आरोविदा । विचक्षणा— तात्कुत्र महाराजः ! विदूषकः— तव वचनेन मरकतपुञ्जे तिष्ठति । विचक्षणा— तन्महाराजेन सह मरकतपुञ्जद्वारे तिष्ठ क्षणम्, येनोभयदर्शने जाते शिशिरोप- चारसामग्र्या जलाञ्जलिर्दीयते । विदूषकः— तत्र गच्छ यतो नागच्छसि । तत्किं द्वारदेशे भवितव्यम् ? विचक्षणा— देव्या आदेशेन कर्पूरमञ्जरी समागच्छति । विदूषकः— किं तस्या आदेशः ! विचक्षणा— तत्र देव्या बालतरवस्त्रय आरोपिताः ।