कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 86, कुल 172 में से
संदर्भ में पढ़ें७६ कर्पूरमञ्जरी विचक्षणा—एस कुरवअतरू । ( कर्पूरमञ्जरी तमालिङ्गति । ) राजा— णवकुरवअरुक्खो कुंभथोएत्थणीए रहसविरइदेणं णिब्भरालिंगणेणं । तह कुसुमसमिद्धिं लंभिदो सुंदरीए जह भसलकुलाणं पंथ जत्ता समत्ता ॥ १४ ॥ विदूषकः—भो, पेक्ख पेक्ख महेंदजालं । जेण,— वालो वि कुरवअतरू तरुणीए गाढमुवगूढो । सहस त्ति कुसुमणिअरं मंअणसरे व्विअ समुग्गिरइ ॥ ४५ ॥ विचक्षणा— एष कुरबकतरुः । राजा— नवकुरबकवृक्षः कुम्भस्थूलस्तन्या रभसविरचितेन निर्भरालिङ्गनेन । तथा कुसुमसमृद्धिं लम्भितः सुन्दर्या यथा भ्रमरकुलानां तत्र यात्रा प्रवृत्ता ॥ जातेति यावत् । 'अथ वा तत्र' इति 'ततः' इत्यर्थे । तत्र ततो यात्रा गमनागमनं समाप्तमित्यर्थः । सर्वदा तत्रैव तिष्ठन्तीति भावः । यद्वा,—असमानेति गन्धप्रभेदः । तथेति विषयाप्तौ । तथा च तद्विषये यात्रा देशान्तरादागमनं रात्र समाप- मित्यर्थः । अनेन कुसुमोद्गमः, तत्र च सौरभातिशयो व्यज्यते । अत्रापि परिकरानुकू- लरूपश्चेशमार्गत्वेन अलंकारः । विदूषकः—