कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 96, कुल 172 में से
संदर्भ में पढ़ें८६ कर्पूरमञ्जरी **राजा—**तदो तदो ? **विदूषकः—**तदो तं करंडिआए कदुअ साअरदत्तो णाम वाणिओ गदो पंचालाहिवस्स सिरिवज्जाउहस्स णअरं कणणउज्जं णाम । तहिं च सा विक्किणीदा कोडीए सुवण्णस्स । **राजा—**तदो तदो ? **विदूषकः—**तदो अ,— दहूण थोरत्थणतुंगिमाणं एकावलीए तह चंगिमाणं । सा तेण दिण्णा दइआइ कंठे रज्जंति छेआ समसंगमम्मि ॥ ६ ॥ अवि अ,— णहबहलिदजोण्हाणिब्भरे रत्तिमज्झे कुसुमसरपहारत्ताससंमीलिदाणं । राजा— ततस्ततः ? विदूषकः— ततस्तां करण्डिकायां कृत्वा सागरदत्तो नाम वणिग्गतः पाञ्चालाधिपस्य श्री- आयुधस्य नगरं कान्यकुब्जं नाम । तत्र च सा विक्रीता कोट्या सुवर्णस्य । राजा— ततस्ततः ? विदूषकः— ततश्च,— दृष्ट्वा स्थूलस्तनतुङ्गिमानमेकावल्यास्तथा चङ्गिमानम् । सा तेन दत्ता दयितायाः कण्ठे रज्यन्ति च्छेकाः समसंगमे ॥ वरदानाद्येषावयोराशययोगो भविष्यतीति भावः । च्छेका विदग्धाः । अपि च,— नभोबहलितज्योत्स्नानिर्भरे रात्रिमध्ये कुसुमशरप्रहारत्राससंमीलितयोः ।