काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 101, कुल 828 में से
संदर्भ में पढ़ें२४ ॥ काशिका ॥ २ । १ ॥ पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च ॥ ५८ ॥ पूर्व अपर प्रथम चरम जघन्य समान मध्य मध्यम वीर इत्येते सुबन्ताः समानाधिकरणेन सुपा सह समस्यन्ते, तत्पुरुषश्च समासो भवति । पूर्वपु- रुषः । अपरपुरुषः । प्रथमपुरुषः । चरमपुरुषः । जघन्यपुरुषः । समानपुरुषः । मध्यपुरुषः । मध्यमपुरुषः । वीरपुरुषः । पूर्वस्यैवायं प्रपञ्चः ॥ श्रेण्यादयः कृतादिभिः ॥ ५९ ॥ श्रेण्यादयः सुबन्ताः कृतादिभिः समानाधिकरणैः सह समस्यन्ते, तत्पु- रुषश्च समासो भवति ॥ श्रेण्यादिषु च्व्यर्थवचनम् ॥ * ॥ अश्रेणयः श्रेणयः कृताः । श्रेणिकृताः । एककृताः । श्रेण्यादयः पठ्यन्ते । कृतादिराकृतिगणः । च्व्यन्तानां तु कुगतिप्रादय इत्यनेन नित्यसमासः । श्रेणीकृताः । श्रेणि । एक । पूग । कुण्ड । राशि । विशिख । निचय । निधान । इन्द्र । देव । मुण्ड । भूत । श्रवण । वदान्य । अध्यापक । ब्राह्मण । क्षत्रिय । पटु । पण्डित । कुशल । चपल । निपुण । कृपण । श्रेण्यादिः ॥ कृत । मित । मत । भूत । उक्त । समाज्ञात । समाम्नात । समाख्यात । संभावित । अवधारित । निराकृत । अवकल्पित । उपकृत । उपाकृत । इति कृतादिः ॥ क्तेन नञ्विशिष्टेनानञ् ॥ ६० ॥ नञैव विशेषो यस्य सर्वमन्यत्प्रकृत्यादिकं तुल्यं तन्नञ्विशिष्टं, तेन नञ्विशिष्टेन क्तान्तेन समानाधिकरणेन सह अनञ् क्तान्तं समस्यते, तत्पुरु- षश्च समासो भवति । कृतं च तदकृतं च, कृताकृतम् । भुक्ताभुक्तम् । पीता- पीतम् । उदितानुदितम् । नुटिह तदुक्तत्वाच्चैव भेदकौ । अशितानशितेन जीवति । क्लिष्टाक्लिष्टेन वर्तते ॥ कृताप्रकृतादीनामुपसंख्यानम् ॥ * ॥ कृता- प्रकृतम् । भुक्तविभुक्तम् । पीतविपीतम् । गतप्रत्यागतम् । यातानुयातम् । क्रया- क्रयिका । पुटापुटिका । फलाफलिका । मानोन्मानिका ॥ समानाधिकरणा- धिकारे शाकपार्थिवादीनामुपसंख्यानमुत्तरपदलोपश्च ॥ * ॥ शाकप्रधानः पार्थिवः । शाकपार्थिवः । कुतपसौश्रुतः । अजातोल्वलः ॥ सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः ॥ ६१ ॥ सत् महत् परम उत्तम उत्कृष्ट इत्येते पूज्यमानैः सह समस्यन्ते, तत्पु- रुषश्च समासो भवति । पूज्यमानैरिति वचनात् पूजावचनाः सदादयो विज्ञा- यन्ते । सत्पुरुषः । महापुरुषः । परमपुरुषः । उत्तमपुरुषः । उत्कृष्टपुरुषः । पूज्यमानैरिति किम् । उत्कृष्टो गौः कद्रूमात् ॥ वृन्दारकनागकुञ्जरैः पूज्यमानम् ॥ ६२ ॥