भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 106, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 106

॥ काशिका ॥ २ ॥ २ ॥ ९९ ईषदित्ययं शब्दो ऽकृदन्तेन सुपा सह समस्यते, तत्पुरुषश्च समासो भवति ॥ ईषदगुणवचनेनेति वक्तव्यम् ॥ * ॥ ईषत्कडारः । ईषत्पिङ्गलः । ईष- त्फिकटः + ईषदुच्चतः । ईषत्पीतम् । ईषद्रक्तम् * । गुणवचनेनेति किम् । इह न भवति । ईषद्वार्य्यः ॥ षष्ठी ॥ ८ ॥ षष्ठ्यन्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भव- ति । राज्ञः पुरुषो, राजपुरुषः । ब्राह्मणकम्बलः ॥ कृद्योगे च षष्ठी समस्यत- दिति वक्तव्यम् ॥ * ॥ इध्मप्रव्रश्चनः । पलाशशातनः । किमर्थमिदमुच्यते । 'प्रतिपदविधाना षष्ठी न समस्यते' इति वक्ष्यति, तस्यायं पुरस्तादपकर्षः ॥ याजकादिभिश्च ॥ ९ ॥ पूर्वेण समासः सिद्ध एव तस्य कर्तरि चेति प्रतिषेधे प्राप्ते वचनमिदमा- रभ्यते प्रतिप्रसवार्थम् । याजकादिभिः सह षष्ठी समस्यते, तत्पुरुषश्च समासो भवति । ब्राह्मणयाजकः । क्षत्रिययाजकः । याजक । पूजक । परिचारक । परिषेचक† । स्नातक । अध्यापक । उत्साादक । उद्वर्त्तक‡ । होतृ । पोतृ । भर्तृ । रथगणक । पत्तिगणक ॥ तत्स्थैश्च गुणैः षष्ठी समस्यतइति वक्त- व्यम् ॥ * ॥ चन्दनगन्धः । कपित्थरसः ॥ गुणात्तरेण तरलोपश्चेति वक्त- व्यम् ॥ * ॥ सर्वेषां श्वेततरः, सर्वश्वेतः । सर्वेषां महत्तरः, सर्वमहान् । 'न निर्द्धारणे' इति प्रतिषेधे प्राप्ते वचनमिदम् । सर्वशुक्ला गौः§ ॥ न निर्द्धारणे ॥ १० ॥ पूर्वेण समासे प्राप्ते प्रतिषेध आरभ्यते । निर्द्धारणे या षष्ठी सा न समस्यते । जातिगुणक्रियाभिः समुदायादेकदेशस्य पृथक्करणं निर्द्धारणम् । क्षत्रियो मनुष्याणां शूरतमः । कृष्णा गवां संपन्नक्षीरतमा । धावनश्वगानां शीघ्रतमः ॥ प्रतिपदविधाना च षष्ठी न समस्यतइति वक्तव्यम् ॥ * ॥ सर्पिषो ज्ञानम् । मधुनो ज्ञानम् ॥ ‖ पूरणगुणसुहितार्थसद्व्ययतव्यसमानाधिकरणेन ॥ ११ ॥ पूरणगुणसुहितार्थ सद् अव्यय तव्य समानाधिकरण इत्येतैः सह षष्ठी न समस्यते । अर्थशब्दः प्रत्येकमभिसंबध्यते, तेन स्वरूपविधिर्न भवति । पूर-

  • अत्र 'अकृतेति किम् । ईषत्कृतम्' । इत्याधिकं कुत्र चित् ।
  • परिवेषकेति पाठान्तरम् । ‡ हर्तृ, वर्तक, इत्यादिको क्व चित् । § गुणात्तरेणेत्यारभ्य सर्वशुक्ला गौरित्यन्तः पाठो बहुषु पुस्तकेषु न दृश्यते । ‖ ज्ञो ऽविदर्थस्य करणे इति षष्ठीति तत्र चिन्त्यमिदम् ।