भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 105, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 105

६८ ॥ काशिका ॥ २ ॥ २ ॥ विशिष्टलिङ्गस्येदं ग्रहणम् । अर्द्धमित्येतद् नपुंसकमेकदेशिनैकाधिकरणेन सम- स्यते, तत्पुरुषश्च समासो भवति । षष्ठीसमासापवादोयं योगः । अर्द्धं पिप्प- ल्याः, अर्द्धपिप्पली । अर्द्धकोशातकी । नपुंसकमिति किम् । यामार्द्धः । नग- रार्द्धः । एकदेशिनेत्येव । अर्द्धं पशोर्देवदत्तस्य । देवदत्तेन सह समासो न भव- ति । एकाधिकरणइत्येव । अर्द्धं पिप्पलीनाम् ॥ द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् ॥ ३ ॥ एकदेशिनैकाधिकरणइति वर्तते । षष्ठीसमासापवादोयं योगः । अन्यतर- स्यांग्रहणात् सोपि भवति । पूरणेति प्रतिषेधश्चात एवान्यतरस्यांग्रहणसाम- र्थ्यान्न प्रवर्तते । द्वितीयादीनि शब्दरूपाणि एकदेशिनैकाधिकरणेन सहान्यत- रस्यां समस्यन्ते, तत्पुरुषश्च समासो भवति । द्वितीयं भिक्षायाः, द्वितीय- भिक्षा । षष्ठीसमासपक्षे भिक्षाद्वितीयं वा । तृतीयं भिक्षायाः, तृतीयभिक्षा । भिक्षातृतीयं वा । चतुर्थं भिक्षायाः, चतुर्थभिक्षा । भिक्षाचतुर्थं वा । तुर्यं भिक्षायाः, तुर्यभिक्षा । भिक्षातुर्यं वा । तुरीयशब्दस्यापीष्यते ॥ तुरीयं भिक्षायाः, तुरीयभिक्षा । भिक्षातुरीयं वा * । एकदेशिनेत्येव । द्वितीयं भिक्षाया भिक्षुकस्य । एकाधिकरणत्येव । द्वितीयं भिक्षाणाम् ॥ प्राप्तापन्ने च द्वितीया ॥ ४ ॥ एकदेशिनैकाधिकरणइति निवृत्तम् । द्वितीयासमासे प्राप्ते वचनमिदम् । विधानसामर्थ्यात्सोपि भवति । प्राप्त आपन्न इत्येतौ द्वितीयान्तेन सह सम- स्येते, तत्पुरुषश्च समासो भवति । प्राप्तो जीविकां, प्राप्तजीविकः । जीविका- प्राप्त इति वा । आपन्नो जीविकाम्, आपन्नजीविकः । जीविकापन्न इति वा ॥ कालाः परिमाणिना ॥ ५ ॥ परिमाणमस्यास्तीति परिमाणी तद्वाचिना सुबन्तेन सह सामर्थ्यात्परि- माणवचनाः कालशब्दाः समस्यन्ते, तत्पुरुषश्च समासो भवति । षष्ठीसमासविषये योगारम्भः†। मासो जातस्य, मासजातः । संवत्सरजातः । द्व्यहजातः । त्र्यहजातः ॥ नञ् ॥ ६ ॥ नञ् समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति । न ब्राह्मणो, ऽब्राह्मणः । अवृषलः ॥ नञो नलोपस्तिङि क्षेपे ॥ * ॥ अपचसि त्वं जाल्म‡॥ ईषदकृता ॥ ७ ॥

  • तुरीयशब्दस्येत्यारभ्य भिक्षातुरीयं वेत्यन्तः पाठो बहुषु पुस्तकेषु नोपलभ्यते । † षष्ठीसमासापवादो ऽयं योगः इति पा० ३ । ‡ नञो नलोपेत्यारभ्य जाल्मेत्यन्तः पाठो बहुषु पुस्तकेषु नोपलभ्यते ।
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक) · पृष्ठ 105, कुल 828 में से · BharatKosha