काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 114, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ २ ॥ ३ ॥ १०४ शब्दाः कर्मधारये समासे वा पूर्वे प्रयोक्तव्याः । कडारजैमिनिः । जैमिनिकडारः । कडार । गडुल । काण । खञ्ज । कुण्ठ । खञ्जर । खलति । गौर । एडु । भिक्षुक । पिङ्गल । तनु । वटर । कर्मधारय इति किम् । कडारपुरुषो ग्रामः ॥ इति श्रीजयादित्यरचितायां काशिकायां वृत्तौ द्वितीयस्याध्यायस्य द्वितीयः पादः ॥ ॥ अथ द्वितीयाध्यायस्य तृतीयः पादः ॥ अनभिहिते ॥ १ ॥ अनभिहितइत्यधिकारोयं वेदितव्यः । यदित ऊर्ध्वमनुक्रमिष्यामो ऽनभि- हितइत्येवं तद्वेदितव्यम् । अनभिहिते ऽनुक्ते ऽनिर्दिष्टे कर्मादौ विभक्तिर्भवति । केनानभिहिते, तिङ्कृत्तद्धितसमासैः, परिसंख्यानम् । वक्ष्यति कर्मणि द्वितीया । कटं करोति । ग्रामं गच्छति । अनभिहितइति किम् । तिङ् । क्रियते कटः । कृत् । कृतः कटः । तद्धित । शत्यः । शतिकः । समास । प्राप्तमुदकं यं ग्रामं, प्राप्तोदको ग्रामः । परिसंख्यानं किम् । कटं करोति भीष्ममुदारं दर्शनीयम् । बहुषु बहुवच- नमित्येवमादिना संख्यावाच्यत्वेन विभक्तीनामुपदिष्टा, तत्र विशेषणार्थमिदमा- रभ्यते, अनभिहितकर्माद्याश्रयेष्वेकत्वादिषु द्वितीयादयो वेदितव्या इति ॥ कर्मणि द्वितीया ॥ २ ॥ द्वितीयादयः शब्दाः पूर्वाचार्यैः सुपां त्रिकेषु स्मर्यन्ते, तैरेवात्र व्यव- हारः । कर्मणि कारके या संख्या तत्र द्वितीया विभक्तिर्भवति । कटं करोति । ग्रामं गच्छति । उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु । द्वितीया ऽऽम्रेडितान्तेषु ततो ऽन्यत्रापि दृश्यते ॥ * ॥ उभयतो ग्रामम् । सर्वतो ग्रामम् । धिग्देवदत्तम् । उपर्युपरि ग्रामम् । अध्यधि ग्रामम् । अधोऽधो ग्रामम् ॥ अभितःपरितःसमयानिकषाहाप्रतियोगेषु च दृश्यते ॥ * ॥ अभितो ग्रामम् । परितो ग्रामम् । समया ग्रामम् । निकषा ग्रामम् । हा देवदत्तम् । बुभुक्षितं न प्रति भाति किं चित् ॥ तृतीया च होश्छन्दसि ॥ ३ ॥ कर्मणीति वर्तते । द्वितीयायां प्राप्तायां तृतीया विधीयते, च्छन्दोऽर्था च भवति । छन्दसि विषये जुहोतेः कर्मणि कारके तृतीया विभक्तिर्भवति द्वितीया च । यवाग्वा ऽग्निहोत्रं जुहोति । यवागूमग्निहोत्रं जुहोति । छन्द- सीति किम् । यवागूमग्निहोत्रं जुहोति ॥